मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २३४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 234

दशाश्वमेधमाहत्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥

दशाश्वमेधिकंनाम महापातकनाशनम्

॥१॥

वाजिमेधः पुरा चेष्टं दशभिस्तत्र भामिनि ॥

भरतेन समागत्य मत्वा क्षेत्रमनुत्तमम्

॥२॥

तत्र तृप्तः सहस्राक्षः सोमनाथेन भामिनि ॥

कृपणाः खानपानैश्च दक्षिणाभिर्द्विजातयः

॥३॥

अथोचुस्त्रिदशाः सर्वे सुप्रीता भरतं नृपम् ॥

तुष्टास्तव महाबाहो यज्ञैः संतर्पिता वयम् ॥

वरं वृणीष्व राजेंद्र यत्ते मनसि वर्त्तते ॥

राजोवाच ॥

अत्रागत्य नरो भक्त्या यः स्नानं कुरुते नरः ॥

दशानामश्वमेधानां स प्राप्नोतु फलं शुभम् ॥

देवा ऊचुः ॥

दशानामश्वमेधानां श्रद्धया फलमाप्स्यति ॥

दशाश्वमेधिकंनाम तीर्थमेतन्महीतले ॥

ख्यातिं यास्यति राजेंद्र नात्र कार्या विचारणा

॥६॥

ईश्वर उवाच

ततः प्रभृति तत्तीर्थं प्रख्यातं धरणीतले ॥

दशाश्वमेधिकमिति सर्वपापप्रणाशनम्

॥७॥

ऐंद्रवारुणमाश्रित्य गोमुखादाऽऽश्वमेधिकम् ॥

अत्रांतरे महादेवि शिवक्षेत्रं विदुर्बुधाः

॥८॥

सर्वपापहरं दिव्यं स्वर्गसोपानसंनिभम् ॥

सपादकोटितीर्थानां स्थानं तत्परिकीर्तितम

॥९॥

प्राणत्यागे कृते तत्र शिवलोके च मोदते ॥

तिर्यग्योनिगताः पापा कीटपक्षिमृगादयः

॥१०॥

तेऽपि यांति परं स्थानं यत्र देवो महेश्वरः ॥

तिलोदकप्रदानेन मातृकाः पैतृकास्तथा

॥११॥

पितरस्तस्य तृप्यंति यावदाभूतसंप्लवम् ॥

तत्रेष्टा ब्रह्मणा पूर्वमसंख्याता मखोत्तमाः

॥१२॥

शक्रश्च देवराजत्वे तत्रेष्ट्वा समवाप्तवान् ॥

कार्त्तवीर्येण तत्रैव कृतं यज्ञशतं पुरा

॥१३॥

एवं तत्प्रवरं स्थानं क्षेत्रगर्भांतिकं प्रिये ॥

मृतानां तत्र जंतूनामपुनर्भवदायकम्

॥१४॥

वृषोत्सर्गं तु यस्तत्र कुर्याद्वै भावितात्मवान् ॥

यावंति वृषरोमाणि तावत्स्वर्गे महीयते

॥१५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्र माहात्म्ये दशाश्वमेधमाहत्म्यवर्णनंनाम चतुस्त्रिंशदुत्तरद्विशततमोऽध्यायः ॥ २३४ ॥