मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २८१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 281

कस्यचित्त्वथ कालस्य त्रिदशावश्विनौ प्रिये

ईश्वर उवाच

कस्यचित्त्वथ कालस्य त्रिदशावश्विनौ प्रिये ॥

कृताभिषेकां विवृतां सुकन्यां तामपश्यताम्

॥१॥

तां दृष्ट्वा दर्शनीयांगीं देवराजसुतामिव ॥

ऊचतुः समभिद्रुत्य नासत्यावश्विनावथ

॥२॥

कस्य त्वमसि वामोरु किं वनेऽस्मिंश्चिकीर्षसि ॥

इच्छावस्त्वां च विज्ञातुं तत्त्वमाख्याहि शोभने

॥३॥

ततः सुकन्या संवीता तावुवाच सुरोत्तमौ ॥

शर्यातितनयां वित्तं भार्यां च च्यवनस्य माम्

॥४॥

ततोऽश्विनौ प्रहस्यैनामब्रूतां पुनरेव तु ॥

कथं त्वं च विदित्वा तु पित्रा दत्ताऽऽगता वने

॥५॥

भ्राजसे गगनोद्देशे विद्युत्सौदामनी यथा ॥

न देवेष्वपि तुल्यां हि तव पश्याव भामिनि

॥६॥

सर्वाभरणसंपन्ना परमांबरधारिणी ॥

मामैवमनवद्यांगि त्यजैनमविवेकिनम्

॥७॥

कस्मादेवंविधा भूत्वा जराजर्जरितं भुवि ॥

त्वमुपास्ये हि कल्याणि कामभावबहिष्कृतम्

॥८॥

असमर्थं परित्राणे पोषणे वा शुचिस्मिते ॥

सा त्वं च्यवनमुत्सृज्य वरयस्वैकमावयोः

॥९॥

पत्यर्थं देवगर्भाभे मा वृथा यौवनं कृथाः ॥

एवमुक्ता सुकन्या सा सुरौ ताविदमब्रवीत्

॥१०॥

रताऽहं च्यवने पत्यौ न चैवं परिशंकतम् ॥

तावब्रूतां पुनश्चैतामावां देवभिषग्वरौ

॥११॥

युवानं रूपसंपन्नं करिष्यावः पतिं तव ॥

ततस्तस्यावयोश्चैव पतिमेकतमं वृणु

॥१२॥

एतेन समयेनावां शमं नय सुमध्यमे ॥

सा तयोर्वचनाद्देवि उपसंगम्य भार्गवम् ॥

उवाच वाक्यं यत्ताभ्यामुक्तं भृगुसुतं प्रति

॥१३॥

तद्वाक्यं च्यवनो भार्यामुवाचाद्रियतामिति ॥

इत्युक्ता च्यवनेनाथ सुकन्या तावुवाच वै

॥१४॥

एवं देवौ भवद्भ्यां यत्प्रोक्तं तत्कियतां लघु ॥

इत्युक्तौ भिषजौ तत्र तया चैव सुकन्यया ॥

ऊचतू राजपुत्रीं तां पतिस्तव विशत्वपः

॥१५॥

ततोऽपश्च्यवनः शीघ्रं रूपार्थी प्रविवेश ह ॥

अश्विनावपि तद्देवि ततः प्राविशतां जलम्

॥१६॥

ततो मुहूर्त्तादुत्तीर्णाः सर्वे ते सरसस्ततः ॥

दिव्यरूपधराः सर्वे युवानो मृष्टकुण्डलाः

॥१७॥

दिव्यवेषधराश्चैव मनसः प्रीतिवर्द्धनाः ॥

तेऽब्रुवन्सहिताः सर्वे वृणीष्वान्यतमं शुभे

॥१८॥

अस्माकमीप्सितं भद्रे यतस्त्वं वरवर्णिनी ॥

यत्र वाप्यभि कामासि तं वृणीष्व सुशोभने

॥१९॥

सा समीक्ष्य तु तान्सर्वांस्तुल्यरूपधरान्स्थितान् ॥

निश्चित्य मनसा बुद्ध्या देवि वव्रे पतिं स्वकम्

॥२०॥

लब्ध्वा तु च्यवनो भार्यां वयोरूपमवस्थितः ॥

हृष्टोऽब्रवीन्महातेजास्तौ नासत्याविदं वचः

॥२१॥

यदहं रूपसंपन्नो वयसा च समन्वितः ॥

कृतो भवद्भ्यां वृद्धः सन्भार्यां च प्राप्तवान्निजाम् ॥

तद्ब्रूतं वै विधास्यामि भवतोर्यदभीप्सितम्

॥२२॥

अश्विनावूचतुः

आवां तु देवभिषजौ न च शक्रः करोति नौ ॥

सोमपानार्हतां तस्मात्कुरु नौ सोमपायिनौ

॥२३॥

च्यवन उवाच

अहं वां यज्ञभागार्हौ करिष्ये सोमपायिनौ

॥२४॥

ईश्वर उवाच

ततस्तौ हृष्टमनसौ नासत्यौ दिवि जग्मतुः ॥

च्यवनोऽपि सुकन्या च सुराविव विजह्रतुः

॥२५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये च्यवनेश्वर माहात्म्यवर्णनंनामैकाशीत्युत्तरद्विशततमोऽध्यायः ॥ २८१ ॥