गङ्गापथगंगेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि स्थानं गंगापथेति च ॥
यत्र गंगा महास्रोता गंगेश्वरः शिवस्तथा
॥१॥समुद्रगामिनी देवि सा गंगा पापनाशिनी ॥
उत्तानेति भुवि ख्याता नदी त्रैलोक्यभूषणा
॥२॥तत्र स्नात्वा महादेवि गंगेशं यस्तु पूजयेत् ॥
मुक्तः स्यात्पातकैर्घोरैरश्वमेधायुतं लभेत्
॥३॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गङ्गापथगंगेश्वरमाहात्म्यवर्णनंनाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६७ ॥