मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २०१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 201

तस्मिन्स्थाने महादेवि स्मशानं कालभैरवम्

ईश्वर उवाच

तस्मिन्स्थाने महादेवि स्मशानं कालभैरवम् ॥

ब्रह्मकुण्डं वरारोहे यावद्देवः कृतस्मरः

॥१॥

तत्र ये प्राणिनो दग्धा मृताः कालविपर्ययात् ॥

ते सर्वे मुक्तिमायांति महापातकिनोऽपि वा

॥२॥

कृतस्मरान्महादेवि यावन्मंकीश्वरः स्थितः ॥

महास्मशानं तद्देवि अपुनर्भवदायकम्

॥३॥

तस्मिन्स्थाने वहेद्यत्र विषुवं प्राणिनां प्रिये ॥

तत्रोषरं स्मृतं क्षेत्रं तन्मे प्रियतरं सदा

॥४॥

कल्पांतेऽपि न मुंचामि अविमुक्तात्प्रियं मम

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कालभैरवस्मशानमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥ २०१ ॥