मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २५७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 257

त्रितकूपमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि त्रितकूपमिति स्मृतम् ॥

नंदादित्यस्य पूर्वेण योजनत्रितयेन तु

॥१॥

पुरा बभूव राजेन्द्रः सौराष्ट्रविषये सुधीः ॥

आत्रेय इति विख्यातो वेदवेदांगपारगः

॥२॥

तस्य पुत्रत्रयं जज्ञ ऋतुकालाभिगामिनः ॥

एकतश्चद्वितश्चैव त्रितश्चैवेति भामिनि

॥३॥

त्रितस्तेषां कनिष्ठोऽभूद्वेदवेदांगपारगः ॥

सर्वैरेव गुणैर्युक्तो मूर्खो ज्येष्ठौ बभूवतुः

॥४॥

कस्यचित्त्वथकालस्य आत्रेयो द्विज सत्तमः ॥

तपः कृत्वा तु विपुलं कालधर्ममुपेयिवान्

॥५॥

ततस्तेषां त्रितो राजा बभूव गुणवत्तरः ॥

धुरमाकर्षयामास पुत्रोऽयं तस्य या पुरा

॥६॥

तस्य बुद्धिः समुत्पन्ना कथं यज्ञं करोम्यहम् ॥

सन्निमंत्र्य द्विजश्रेष्ठान्यज्ञकर्मस्वधिष्ठितान्

॥७॥

इन्द्रादींश्च सुरान्सर्वानावाह्य विधिपूर्वकम् ॥

दक्षिणार्थं द्विजेन्द्राणां प्रभासं स जगाम ह ॥

गृहीत्वा भ्रातरौ ज्येष्ठौ गवार्थं प्रस्थितो द्विजः

॥८॥

यस्य यस्य गृहे याति स त्रितो वेदपारगः ॥

तत्र तत्र वरां पूजां लेभे गाश्चैव पुष्कलाः

॥९॥

एवं स गोधनं प्राप्य भ्रातृभ्यां सहितस्तदा ॥

गृहाय प्रस्थितो देवि निर्वृतिं परमां गतः

॥१०॥

त्रितस्ताभ्यां पुरो याति पृष्ठतो भ्रातरौ च तौ ॥

गोधनं चालयंतस्ते प्रभासं क्षेत्रमागताः

॥११॥

अथ तद्गोधनं दृष्ट्वा भूरि दानार्थमाहृतम् ॥

भ्रातृभ्यां त्रितये चेति पापा मतिरजायत

॥१२॥

परस्परमूचतुस्तौ भ्रातरौ दुष्टचेतसौ ॥

त्रितो यज्ञेषु कुशलो वेदेषु कुशलस्तथा

॥१३॥

मान्यः पूज्यश्च सर्वत्र आवां मूर्खौ निरर्थकौ ॥

एतद्धि गोधनं सर्वं त्रितो दास्यति सन्मखे

॥१४॥

अस्माकं पितृपर्यातो यदाप्तं तत्समं भवेत् ॥

तस्मादत्रैव युक्तोऽस्य वधो वै त्रितयज्ञिनः

॥१५॥

एवं तौ निश्चयं कृत्वा प्रस्थितौ भ्रातरावुभौ ॥

त्रितस्तु पुरतो याति निर्विकल्प ऋजुः सुधीः

॥१६॥

अनु तत्र समुत्तस्थौ व्याघ्रो रौद्रतराकृतिः ॥

व्यादितास्यो रवं देवि व्यनद्भैरवं ततः

॥१७॥

तस्य शब्देन ता गावो नष्टा जग्मुर्दिशो दश ॥

अन्धकूपो महांस्तत्र प्रदेशे दारुणोऽभवत्

॥१८॥

एकतो दारुणो व्याघ्रः कूपोऽन्यत्र सुदारुणः ॥

दृष्ट्वा ते भ्रातरः सर्वे भयोद्विग्नाः प्रदुद्रुवुः

॥१९॥

अथ ते विषमं प्राप्य तटं कूपस्य भामिनि ॥

स्थिता यावद्गतो व्याघ्रस्ततो गंतुं मनो दधुः

॥२०॥

अथ ताभ्यां त्रितो देवि भ्रातृभ्यां नृपसत्तम ॥

प्रक्षिप्तो दारुणे कूपे जीर्णे तोयविवर्जिते

॥२१॥

ततस्तद्गोधनं गृह्य प्रस्थितौ हृष्टमानसौ ॥

त्रितस्तु पतितस्तत्र कूपे जलविवर्जिते

॥२२॥

चिन्तयामास मेधावी नाहं शोचामि जीवितुम् ॥

मयाहूता द्विजश्रेष्ठा यज्ञार्थं वेदपारगाः ॥

इन्द्राद्याश्च सुराः सर्वे स क्रतुः स्यान्न मे त्वतः

॥२३॥

स एवं चिन्तयामास वेदवेदांगपारगः ॥

मानसं यज्ञमारभ्य तत्रैव वरवर्णिनि

॥२४॥

स्वयमेव स सूक्तानि प्रोक्त्वा प्रोक्त्वा द्विजोत्तमः ॥

कृतवान्बालुकाहोमं तेन तुष्टाश्च देवताः

॥२५॥

श्रद्धां तस्य विदित्वा तु भूयस्तृप्तास्तु देवताः ॥

आगत्य ब्राह्मणं प्रोचुः कूपमध्ये व्यवस्थितम्

॥२६॥

देवा ऊचुः

भोभो विप्र त्वया नूनं सर्वे संतर्पिता वयम् ॥

मानसेन तु यज्ञेन तस्माद्ब्रूहि मनोगतम्

॥२७॥

ब्राह्मण उवाच

यदि देवाः प्रसन्ना मे कूपान्निष्कमणे त्वहम् ॥

यष्टा स्वं मंदिरं गत्वा देवयज्ञं करोम्यहम्

॥२८॥

ईश्वर उवाच

अथ देवैः समादिष्टा तस्मिन्कूपे सरस्वती ॥

निर्गत्य वसुधां भित्त्वा पूरयामास वारिणा

॥२९॥

अथ निष्क्रम्य विप्रोऽसौ यातः स्वभवनं प्रति ॥

ततः प्रभृति देवेशि त्रितकूपः स उच्यते

॥३०॥

स्नात्वा तत्र शुचिर्भूत्वा त्वथ संतर्पयेत्पितॄन् ॥

अश्वमेधमवाप्नोति सर्वपापविवर्जितः

॥३१॥

तिल दानं तु देवेशि तत्र शस्तं सकाञ्चनम् ॥

पितॄणां वल्लभं तीर्थं नित्यं चैव तु भामिनि

॥३२॥

अग्निष्वात्ता बर्हिषद आयंतुन इति स्मृताः ॥

ये दिव्याः पितरो देवि तेषां सांनिध्यमत्र हि

॥३३॥

दर्शनादपि तीर्थस्य तस्य वै सुरसत्तमे ॥

मुच्यन्ते प्राणिनः पापादाजन्ममरणांतिकात्

॥३४॥

तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥

प्रभासं क्षेत्रमासाद्य यदीच्छेच्छ्रेय आत्मनः

॥३५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये त्रितकूपमाहात्म्यवर्णनंनाम सप्तपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५७ ॥