मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १०६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 106

ब्राह्मणप्रशंसावर्णनम्

देव्युवाच

एवमद्वैतभावेन यद्ब्रह्म परिकीर्तितम् ॥

तस्य पूजा विधानं मे कथयस्व यथार्थतः

॥१॥

क्षेत्रे प्राभासिके देव बालरूपी पितामहः ॥

स कथं पूज्यते लोकैः परब्रह्मस्वरूपवान्

॥२॥

के मन्त्राः किं विधानं तद्बाह्मणास्तत्र कीदृशाः ॥

तत्र स्थितानां विप्राणां कथं क्षेत्रफलं भवेत्

॥३॥

कतिप्रकारास्ते विप्रास्तत्र क्षेत्रनिवासिनः ॥

किमाचारा महादेव किंशीलाः किंपरायणाः

॥४॥

एतद्विस्तरतो ब्रूहि ब्राह्मणानां महोदयम्

॥५॥

ईश्वर उवाच

साधुसाधु महादेवि सम्यक्प्रश्नविशारदे ॥

शृणुष्वैकमना भूत्वा माहात्म्यं विप्रदैवतम्

॥६॥

यच्छ्रुत्वा मानवो देवि मुच्यते सर्वपातकैः ॥

ये केचित्सागरांतायां पृथिव्यां कीर्तिता द्विजाः

॥७॥

तद्रूपं मम देवेशि प्रत्यक्षं धरणीतले ॥

प्रत्यक्षं ब्राह्मणा देवाः परोक्षं दिवि देवताः

॥८॥

ब्राह्मणा मत्प्रिया नित्यं ब्राह्मणा मामकी तनुः ॥

यस्तानर्चयते भक्त्या स मामर्चयते सदा

॥९॥

यस्तांस्तोषयते भक्त्या स च मां परितोषयेत्

॥१॥

ये ब्राह्मणाः सोऽहमसंशयं प्रिये तेष्वर्चितेष्वर्चितोऽहं भवेयम् ॥

तेष्वेव तुष्टेष्वहमेव तुष्टो वैरं च तैर्यस्य ममापि वैरम्

॥११॥

यश्चन्दनैः सागरुगन्धमाल्यै रभ्यर्चयेच्छैलमयीं ममार्चाम् ॥

असौ न मामर्चयतेर्चयन्वै विप्रार्चनादर्चित एव चाहम्

॥१२॥

यावंतः पृथिवीमध्ये चीर्णवेदव्रता द्विजाः ॥

अचीर्णव्रतवेदा वा तेऽपि पूज्या द्विजाः प्रिये

॥१३॥

न ब्राह्मणान्परीक्षेत श्राद्धे क्षेत्रनिवासिनः ॥

सुमहान्परिवादोऽस्य ब्राह्मणानां परीक्षणे

॥१४॥

काणाः खञ्जाश्च कृष्णाश्च दरिद्रा व्याधितास्तथा ॥

सर्वे श्राद्धे नियोक्तव्या मिश्रिता वेदपारगैः

॥१५॥

ब्राह्मणा जातितः पूज्या वेदाभ्यासात्ततः परम् ॥

ततोर्थं हव्यकव्येषु न निन्द्या ब्राह्मणाः क्वचित्

॥१६॥

काणान्कुण्टांश्च कुब्जाश्च दरिद्रान्व्याधितानपि ॥

नावमन्येद्द्विजान्प्राज्ञो मम रूपं यतः स्मृतम्

॥१७॥

बहवो हि न जानंति नरा ज्ञानबहिष्कृताः ॥

यथाहं द्विजरूपेण चरामि पृथिवीमिमाम्

॥१८॥

मद्रूपान्घ्नन्ति ये विप्रान्विकर्म कारयंति च ॥

अप्रेषणे प्रेषयंति दासत्वं कारयन्ति च

॥१९॥

मृतांस्तान्करपत्रेण यमदूता महाबलाः ॥

निकृंतंति यथा काष्ठं सूत्रमार्गेण शिल्पिनः

॥२०॥

ये चैवाश्लक्ष्णया वाचा तर्जयन्ति नराधमाः ॥

वदंति परुषं क्रोधात्पादेन निहनंति च

॥२१॥

मृतांस्तान्यमलोका हि निहत्य धरणीतले ॥

क्रूरपादेन चाक्रम्य क्रोधसंरक्तलोचनाः

॥२२॥

अग्निवर्णैश्च संदंशैर्जिह्वामुद्धरते यमः ॥

ये नु विप्रान्निरीक्षन्ते पापाः पापेन चक्षुषा

॥२२॥

अब्रह्मण्यास्तु ते बाह्या नित्यं ब्रह्मद्विषो नराः ॥

तेषां घोरा महाकाया वज्रतुंडा भयानकाः ॥

उद्धरंति मुहूर्तेन चक्षुः काका यमाज्ञया

॥२४॥

यस्ताडयति विप्रं वै क्षते कुर्याद्धि शोणितम् ॥

अस्थिभंगं च वा कुर्यात्प्राणैर्वापि वियोजयेत्

॥२५॥

ब्रह्मघ्नः स तु विज्ञेयो न तस्मै निष्कृतिः स्मृता ॥

पञ्चाशत्कोटिसंख्येषु नरकेष्वनुपूर्वशः

॥२६॥

स बहूनि सहस्राणि वर्षाणि पच्यते भृशम् ॥

तस्माद्विप्रो वरारोहे नमस्कार्यो नृभिः सदा

॥२७॥

अन्नपानप्रदानैस्तु पूज्या हि सततं द्विजाः ॥

सर्वेषां चैव दानानां विप्राः सर्वेऽधिकारिणः

॥२८॥

नान्यः समर्थो देवेशि गृह्णन्यात्यधमां गतिम् ॥

तपसा पावितो देवि ब्राह्मणो धृतकिल्विषः

॥२९॥

न सीदेत्प्रतिगृह्णानः पृथिवीमनुसागराम् ॥

नास्ति किंचिन्महादेवि दुष्कृतं ब्राह्मणस्य तु

॥३०॥

यस्तु स्थितः सदाऽध्यात्मे नित्यं सद्भावभावितः ॥

ब्राह्मणो हि महद्भूतं जन्मना सह जायते

॥३१॥

लोके लोकेश्वराश्चापि सर्वे ब्राह्मणपूजकाः ॥

ततस्तान्नावमन्येत यदीच्छेज्जीवितं चिरम्

॥३२॥

ब्राह्मणाः कुपिता हन्युर्भस्मीकुर्युः स्वतेजसा ॥

लोकानन्यान्सृजेयुश्च लोकपालांस्तथाऽपरान्

॥३३॥

अपेयः सागरो यैश्च कृतः कोपान्महात्मभिः ॥

येषां कोपाग्निरद्यापि दंडके नोपशाम्यति

॥३४॥

एते स्वर्गस्य नेतारो देवदेवाः सनातनाः ॥

एभिश्चापि कृतः पंथा देवयानः स उच्यते

॥३५॥

ते पूज्यास्ते नमस्कार्यास्तेषु सर्वं प्रतिष्ठितम् ॥

ते वै लोकानिमान्सर्वान्पारयंति परस्परम्

॥३६॥

गूढस्वाध्यायतपसो ब्राह्मणाः शंसितव्रताः ॥

विद्यास्नाता व्रतस्नाता अनपाश्रित्य जीविनः

॥३७॥

आशीविषा इव क्रुद्धा उपचर्या हि ब्राह्मणाः ॥

तपसा दीप्यमानास्ते दहेयुः सागरानपि

॥३८॥

ब्राह्मणेषु च तुष्टुषु तुष्यंते सर्वदेवताः ॥

ते गतिः सर्वभूतानामध्यात्मगतिचिन्तकाः

॥३९॥

आदिमध्यावसानानां ज्ञानानां छिन्नसंशयाः ॥

परापरविशेषज्ञा नेतारः परमां गतिम् ॥

अवध्या ब्राह्मणास्तस्मात्पापेष्वपि रताः सदा

॥४०॥

यश्च सर्वमिदं हन्याद्ब्राह्मणं चापि तत्समम् ॥

सोऽग्निः सोऽर्को महातेजा विषं भवति कोपितः

॥४१॥

भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ॥

न स्कन्दते न व्यथते न विनश्यति कर्हिचित्

॥४२॥

वरिष्ठमग्निहोत्राद्धि ब्राह्मणस्य मुखे हुतम् ॥

विप्राणां वपुराश्रित्य सर्वास्तिष्ठंति देवताः

॥४३॥

अतः पूज्यास्तु ते विप्रा अलाभे प्रतिमादयः

॥४४॥

अविद्यो वा सविद्यो वा ब्राह्मणो मम दैवतम् ॥

प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत्

॥४५॥

स्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ॥

हव्यकव्यव्यपेतोऽपि ब्राह्मणो नैव दुष्यति

॥४६॥

महापातकवर्ज्यं हि पूज्यो विप्रो वरानने ॥

सर्वथा ब्राह्मणाः पूज्याः सर्वथा दैवतं महत् ॥

तस्मात्सर्वप्रयत्नेन रक्षेदापद्गतं द्विजम्

॥४७॥

एवं विप्रा महादेवि पूज्याः सर्वत्र मानवैः ॥

किं पुनः संजितात्मानो विशेषात्क्षेत्रवासिनः

॥४८॥

अथ क्षेत्रस्थितानां च चतुराश्रमवासिनाम् ॥

विप्राणां वृत्तितो भेदं प्रवक्ष्याम्यानुपूर्व्यशः

॥४९॥

क्षेत्रस्य संन्यासविधिं ये जानंति द्विजातयः ॥

वृत्तिभेदं क्रमाच्चैव ते क्षेत्रफलभागिनः

॥५०॥

यथा क्षेत्रे निवसता वर्तितव्यं द्विजातिना ॥

प्राजापत्यादिभेदेन तच्छृणु त्वं वरानने

॥५१॥

प्राजापत्या महीपालाः कपोता ग्रंथिकास्तथा ॥

कुटिकाश्चाथ वैतालाः पद्महंसा वरानने

॥५२॥

धृतराष्ट्रा बकाः कंका गोपालाश्चैव भामिनि ॥

त्रुटिका मठराश्चैव गुटिका दंडिकाः परे

॥५३॥

क्षेत्रस्थानामिमे भेदा वृत्तिं तेषां शृणुष्व च

॥५४॥

अहिंसा गुरुशुश्रूषा स्वाध्यायः शौचसंयमः ॥

सत्यमस्तेयमेतद्धि प्राजापत्यं व्रतं स्मृतम्

॥५५॥

क्षयपुष्ट्यर्थविद्वेषकर्मभिः शांतिकादिभिः ॥

पालयंति महीं यस्मान्महीपालास्ततः स्मृताः

॥५६॥

पतिता ये कणा भूमौ संहरंति कपोतवत् ॥

उद्धृत्याजीवनं येषां कपोतास्ते तु साधकाः

॥५७॥

गृहं कृत्वा तु सद्ग्रंथाः सहसैव त्यजंति ये ॥

कुटिका साधकास्ते वै शिवाराधनतत्पराः

॥५८॥

तीर्थासक्ताः सपत्नीका यथालब्धोपजीविनः ॥

महासाहसयुक्तास्ते वैतालाख्यास्तु साधकाः

॥५९॥

संयताः कामनासक्ता राज्यकामार्थसाधकाः ॥

पद्मास्ते साधकाः ख्याता भिक्षाचर्यारताः सदा

॥६०॥

ज्ञानयोगसमायुक्ता द्वैताचाररताश्च ये ॥

हंसास्ते साधकाः ख्याताः स्वयमुत्पन्नसंविदः

॥६१॥

ब्रह्मचर्येण सत्त्वेन तथाऽलुब्धतयापि वा ॥

जितं जगद्धारयन्तो धृतराष्ट्रा मतास्तु ये

॥६२॥

गूढाश्चरंति ये ज्ञानं व्रतं धर्ममथापि वा ॥

स्वार्थैकागतनिष्ठास्तु बकास्ते साधका मताः

॥६३॥

जलाश्रयं समाश्रित्य स्थिता उत्कृष्टसिद्धये ॥

बिसशृंगाटकाहारास्ते कंकाः साधकाः स्मृताः

॥६४॥

गोभिः सार्द्धं व्रजंत्यत्र गोष्ठे च निवसंति ये ॥

पंचगव्यरसा ये वै गोपालास्ते तु साधकाः

॥६५॥

कृच्छ्रचांद्रायणैश्चैव क्षपयंति स्वकं वपुः ॥

त्रुटिमात्राशनास्ते तु त्रुटिकाः साधका मताः

॥६६॥

कृत्वा कुशमयीं पत्नीं मठे ये गृहमेधिनः ॥

भैक्षवृत्तिरताः शुद्धा मठरास्ते तु साधकाः

॥६७॥

ग्रासमात्रसमानाभिर्गुटिकाभिरथाष्टभिः ॥

कन्दमूलफलोत्थाभिर्गुटिकास्ते द्विजातयः

॥६८॥

स्वदेहदण्डनैर्युक्ता रात्रौ वीरासने स्थिताः ॥

दंडिनस्ते समाख्याताः सर्वमेतत्तवोदितम्

॥६९॥

सामान्योऽपि विशेषश्च वृत्तिनो गृहिणोऽपि वा ॥

तेषां भेदो मया ख्याताः सम्यक्क्षेत्रनिवासिनाम्

॥७०॥

एवमादिधर्मयुक्ताः प्रभासक्षेत्रवासिनः ॥

तैः पूज्यो भगवान्देवो बालरूपी पितामहः

॥७१॥

महापातकिनो ये तु ये तु विप्रैर्बहिष्कृताः ॥

न च ते संस्पृशेयुर्वै ब्रह्माणं बालरूपिणम्

॥७२॥

ब्रह्मचारी सदा दांतो जितक्रोधो जितेंद्रियः ॥

एवं ते ब्राह्मणाः ख्याताः क्षेत्रमध्यनिवासिनः

॥७३॥

तैः पूज्यो भगवान्देवो बालरूपी पितामहः ॥

ये वेदाध्ययने युक्तास्तैः प्रपूज्यः पितामहः

॥७४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां ब्राह्मणप्रशंसा वर्णनंनाम षडुत्तरशततमोऽध्यायः ॥ १०६ ॥