प्राचीसरस्वतीमाहात्म्यवर्णनम्
देव्युवाच
यदेतद्भवता प्रोक्तं प्राची सर्वत्र दुर्ल्लभा ॥
विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा
॥१॥कथं प्रभासमासाद्य संस्थिता पापनाशिनी ॥
माहात्म्यमखिलं तस्याः प्राच्याः पातकनाशनम् ॥
कथयस्व महेशान यद्यहं ते प्रिया विभो
॥२॥ईश्वर उवाच
साधु प्रोक्तं त्वया भद्रे प्राची सर्वत्र दुर्लभा ॥
कुरुक्षेत्रे पुष्करे च तस्मात्प्राभासिकेऽधिका
॥३॥प्रभासे तु महादेवी प्राचीं पापप्रणाशिनीम् ॥
नापुण्यो वेद देवेशि कर्मनिर्मूलनक्षमाम्
॥४॥ये पिबंति नराः पुण्यां प्राचीं देवीं सरस्वतीम् ॥
न ते मनुष्या विज्ञेयाः सत्यंसत्यं वरानने
॥५॥धन्यास्ते मुनयस्ते च पुण्यास्ते च तपस्विनः ॥
ये च सारस्वतं तोयं पिबंत्यहरहः सदा
॥६॥देवास्ते न मनुष्यास्ते नदीस्तिस्र पिबंति ये ॥
चंद्रभागां च गंगां च तथा देवीं सस्स्वतीम्
॥७॥भुक्त्वा वा यदि वाऽभुक्त्वा दिवा वा यदि वा निशि ॥
न कालनियमस्तत्र यत्र प्राची सरस्वती
॥८॥प्राचीं सरस्वतीं ये तु पिबंति सततं मृगाः ॥
तेऽपि स्वर्गं गमिष्यंति यज्ञैर्द्विजवरा यथा
॥९॥सर्वकामप्रपूर्त्यर्थं नृणां तत्क्षेत्रमुत्तमम् ॥
चिंतामणिसमा देवी यत्र प्राची सरस्वती
॥१०॥यथा कामदुघा गावः सर्वकामफलप्रदाः ॥
तथा स्वर्गापवर्गाभ्यां प्राची देवी सरस्वती
॥११॥अष्टाशीतिसहस्राणि मुनीनामूर्ध्वरेतसाम् ॥
यत्र स्थितानि संन्यासं तस्मात्किमधिकं स्मृतम्
॥१२॥यत्र मंकणकः सिद्धः प्राचीने नियतात्मवान् ॥
ब्रह्महत्याव्रतं चीर्णं मया यत्र वरानने
॥१३॥वृषतीर्थे महापुण्ये प्राचीकूलसमाश्रिते ॥
निवृत्ते भारते युद्धे तस्मिंस्तीर्थे किरीटिना ॥
प्रायश्चित्तं पुरा चीर्णं विष्णुना प्रेरितात्मना
॥१४॥त्रैलोक्ये सर्वतीर्थानां तत्तीर्थं प्रवरं स्मृतम् ॥
पापघ्नं पुण्यजननं प्राणिनां पुण्यकीर्त्तिद
॥१५॥सूत उवाच
आहैवमुक्ते सा देवी शंकरं लोक शंकरम् ॥
प्रायश्चित्तं कथं प्राप्तः पार्थः परपुरंजयः ॥
ज्ञातिक्षयोद्भवं पापं कथं नाशमगात्प्रभो
॥१६॥एवमुक्तः पुनः प्राह विश्वेशो नीललोहितः ॥
प्रायश्चित्तस्य संप्राप्तः कारणं तद्यथा स्थितम्
॥१७॥ईश्वर उवाच
शृणुष्वावहिता भद्रे कथां पातकनाशिनीम् ॥
यां श्रुत्वा मानवो भक्त्या पवित्रात्मा प्रजायते
॥१८॥योऽसौ देवि समाख्यातः किरीटी श्वेतवाहनः ॥
स जित्वा कौरवान्सर्वान्संहृत्य हयकुञ्जरान्
॥१९॥पश्चात्सुयोधनं हत्वा भीमेन प्रययौ गृहान् ॥
नारायणेन सहितो नरोऽसौ प्रस्थितो रणात्
॥२०॥द्रष्टुं धर्मसुतं दृष्टः प्रणतः प्रांजलिः स्थितः ॥
स विज्ञाय तदाऽऽयान्तौ नरनारायणावुभौ
॥२१॥राजा युधिष्ठिरः प्राह द्वारस्थान्द्वारपालकान् ॥
भवद्भिरेतावायांतौ निषेध्यौ द्वारसंस्थितौ
॥२२॥नर नारायणौ क्रूरौ पापपंकानुलेपिनौ ॥
एवमेतदिति प्रोक्तौ तौ तदा द्वारमागतौ
॥२३॥भवन्तौ नेच्छति द्रष्टुं राजा दुर्नयकारिणौ ॥
तत्रस्थः पृष्टवान्भूयः प्रतीहारं नरः स्वयम्
॥२४॥आवां किं कारणं राजा नेक्षते वशवर्तिनौ ॥
प्रोवाच प्रणतो राजा ततो द्वाःस्थं पुरःस्थितम्
॥२५॥नारायणेन सहितं नरं नरकनिर्भयम् ॥
दुर्योधनेन सहिता बांधवास्ते यतो हताः ॥
पितृतुल्याश्च राजानस्तेन वै पापभाजनम्
॥२६॥एवमुक्ते तु तेनाथ मुखमालोकितं हरेः ॥
तेन प्रोक्तमिदं तथ्यं यत्ते राज्ञा प्रभाषितम्
॥२७॥एवमुक्ते नरः प्राह पुनरेव जनार्द्दनम् ॥
कथयस्व कथं पापात्कृष्ण शुद्ध्यामहे वयम्
॥२८॥तीर्थस्नानेन मे शुद्धिर्यथा स्यात्तद्वद स्फुटम् ॥
तच्च गंगादिकं कृष्ण यथाऽस्याघस्य नाशनम्
॥२९॥कृष्ण उवाच
मा गयां गच्छ कौंतेय मा गंगां मा च पुष्करम् ॥
तत्र गच्छ कुरुश्रेष्ठ यत्र प्राची सरस्वती
॥३०॥ब्रह्मघ्नाश्च सुरा पाश्च ये चान्ये पापकारिणः ॥
तत्र स्नात्वा विमुच्यंते यत्र प्राची सरस्वती
॥३१॥नारायणेन प्रोक्तोऽसौ नरस्तद्वचनाद्द्रुतम् ॥
सहितस्तेन संप्राप्तः प्राचीनं तीर्थमुत्तमम्
॥३२॥त्रिरात्रोपोषितः स्नातस्त्रिकालं नियतात्मवान् ॥
तेन तस्माद्विनिर्मुक्तः पातकात्पूर्वसंचितात्
॥३३॥विज्ञाय शुद्धमेनं तु राजा धर्मसुतो द्रुतम् ॥
भ्रातृभिः सहितः प्राप्तस्तं द्रष्टुं नरपुंगवम्
॥३४॥ततस्तं प्रणतं दृष्ट्वा धर्मपुत्रः पुरःस्थितम् ॥
आलिलिंग प्रहृष्टात्मा पृष्टवांश्चाप्यनामयम्
॥३५॥भीमादिभिर्भ्रातृभिश्च तदा गुरुगणैर्वृतः ॥
आलिंगितः प्रहृष्टैस्तु नरो गुणगणैर्वृतः
॥३६॥एतद्धि तन्महातीर्थं प्राचीनेति च शब्दितम् ॥
स्नानक्रमेण मर्त्त्यानामन्येषामपि पावकम्
॥३७॥त्रिरात्रोपोषितः स्नातस्तीर्थेऽस्मिन्ब्रह्महाऽपि यः ॥
विमुक्तः पातकात्तस्मान्मोदते दिवि रुद्रवत्
॥३८॥प्राचीने देव्यहं नित्यं वसामि सहितस्त्वया ॥
प्रभासे तु महाक्षेत्रे विशेषात्तत्र भामिनि
॥३९॥सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ॥
प्राचीने तु वरारोहे न चेहागच्छते पुनः
॥४०॥आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम् ॥
नियमैश्चोपवासैश्च शोषयेद्देहमात्मनः
॥४१॥जलाहारा वायुभक्षाः पर्णाहाराश्च तापसाः ॥
यथा स्थंडिलगा नित्यं ये चान्यनियमाः पृथक्
॥४२॥एवं मंक्याश्रमे येषां वसतां मृत्युरागतः ॥
न ते मनुष्या देवास्ते सत्यमेतद्ब्रवीमि ते
॥४३॥अस्मिंस्तीर्थे तु यो दद्यात्त्रुटिमात्रं तु कांचनम् ॥
श्रद्धया द्विजमुख्याय मेरुतुल्यं फलं लभेत्
॥४४॥अस्मिंस्तीर्थे तु ये श्राद्धं करिष्यंति च मानवाः ॥
एकविंशत्कुलोपेताः स्वर्गं यास्यंति ते ध्रुवम्
॥४५॥पितॄणां वल्लभे तीर्थे पिण्डेनैकेन तर्प्पिताः ॥
ब्रह्मलोकं गमिष्यंति गयाश्राद्धकृतो यथा
॥४६॥कृष्णपक्षे चतुर्द्दश्यां स्नानं च विहितं सदा ॥
पिण्याकैंगुदकेनापि पिंडं तत्र ददाति यः ॥
पितॄणामक्षया तृप्तिः पितृलोकं स गच्छति
॥४७॥भूयश्चान्नं प्रयच्छंति मोक्षमार्गं व्रजंति ते
॥४८॥दधि दद्याद्योऽपि तत्र ब्राह्मणाय मनोरमम् ॥
सोऽग्निलोकं समासाद्य भुंक्ते भोगान्सुशोभनान्
॥४९॥ऊर्णां प्रावरणं योऽपि भक्त्या दद्याद्द्विजोत्तमे ॥
सोऽपि याति परां सिद्धिं मर्त्यैरन्यैः सुदुर्ल्लभाम्
॥५०॥ये चात्र मलनाशाय विशेयुर्मानवा जलम् ॥
गोप्रदानसमं तेषां सुखेन फलमादिशेत्
॥५१॥भावेन यो नरस्तत्र कश्चित्स्नानं समाचरेत् ॥
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
॥५२॥तर्पणात्पिंडदानाच्च नरकेष्वपि संस्थिताः ॥
स्वर्गं प्रयांति पितरः सुपुत्रेण हि तारिताः
॥५३॥प्राचीं सरस्वतीं प्राप्य याति तीर्थं हिमालयम् ॥
स करस्थं समुत्सृज्य कूर्परेण समालिहेत्
॥५४॥यंयं काममभिध्याय तस्मिन्प्राणान्परित्यजेत् ॥
तंतं सकलमाप्नोति तीर्थमाहात्म्ययोगतः
॥५५॥अन्यद्देवि पुरा गीतं गांगेयेन युधिष्ठिरे ॥
सत्यमेव हि गंगायां वयं जाता युधिष्ठिर
॥५६॥याः काश्चित्सरितो लोके तासां पुण्या सरस्वती
॥९७॥सरस्वती सर्वनदीषु पुण्या सरस्वती लोकसुखावहा सदा ॥
सरस्वतीं प्राप्य सुदुःखिता नराः सदा न शोचन्ति परत्र चेह च
॥५८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्राचीसरस्वतीमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥