देवीप्रश्नवर्णनम्
ऋषय ऊचुः
कथितो भवता सर्गः प्रतिसर्गस्तथैव च ॥
वंशानुवंशचरितं पुराणानामनुक्रमः
॥१॥मन्वन्तरप्रमाणं च ब्रह्मांडस्य च विस्तरः ॥
ज्योतिश्चक्रस्वरूपं च यथावदनुवर्णितम् ॥
श्रोतुमिच्छामहे त्वत्तः सांप्रतं तीर्थविस्तरम्
॥२॥पृथिव्यां यानि तीर्थानि पापघ्नानि शुभानि च ॥
तानि सूतज कार्त्स्न्येन यथावद्वक्तुमर्हसि
॥३॥सूत उवाच
इदं पृष्टं पुरा देव्या कैलासशिखरोत्तमे ॥
नानाधातुविचित्रांगे नानारत्नसमन्विते
॥४॥नानाद्रुमलताकीर्णे नानापुष्पोपशोभिते ॥
यक्षविद्याधराकीर्णे ह्यप्सरोगणसेविते ॥
तत्र ब्रहमा च विष्णुश्च स्कन्दनन्दिगणेश्वराः ॥
चंद्रादित्यौ ग्रहैः सार्धं नक्षत्रध्रुवमण्डलम्
॥६॥वायुश्च वरुणश्चैव कुबेरो धनदस्तथा ॥
ईशानश्चाग्निरिंद्रश्च यमो निर्ऋतिरेव च
॥७॥सरितः सागराः सर्वे पर्वता उरगास्तथा ॥
ब्राह्म्याद्या मातरश्चैव ऋषयश्च तपोधनाः
॥८॥मूर्तिमंति च तीर्थानि क्षेत्राण्यायतनानि च ॥
दानवासुरदैत्याश्च पिशाचा भूतराक्षसाः ॥
7.1.3.१० तत्र सिंहासनं दिव्यं शतयोजनविस्तृतम् ॥
लक्षायुतसहस्रैश्च रुद्रकोटिभिरावृतम् ॥
तन्मध्ये सर्वतोभद्रं सिंहद्वारैः सुतोरणैः
॥१२॥स्वच्छमौक्तिकसंकाशं प्राकारशिखरावृतम् ॥
नन्दीश्वरमहाकालद्वारपालगणैर्वृतम्
॥१३॥किंकिणीजालमुखरैः सत्यताकैरलंकृतम् ॥
वितानच्छत्रखंडैश्च मुक्तादामप्रलंबितैः
॥१४॥घंटाचामरशोभाढयैर्दर्पणैश्चोपशोभितम् ॥
कलशैर्द्वारविन्यस्तरत्नपल्लवसंयुतैः
॥१५॥चित्रितं चित्रशास्त्रज्ञै रत्नचूर्णैः समु्ज्वलैः ॥
स्वस्तिकैः पत्रवल्याद्यैर्लिंगोद्भवलतादिभिः
॥१६॥शतसिंहासनाकीर्णं वेदिकाभिश्च शोभितम् ॥
आसीनै रुद्रवृन्दैश्च रुद्रकन्याकदम्बकैः
॥१७॥लक्षपत्रदलाढ्यैश्च श्वेतपद्मैश्च भूषितम् ॥
अप्सरोभिः समाकीर्णं पुष्पप्रकरविस्तृतम्
॥१८॥धूपितं धूपवर्त्तीभिः कुंकुमोदकसेचितम् ॥
वंशवीणामृदंगैश्च गोमुखैर्मुखवादनैः
॥१९॥शंखभेरीनिनादेन दुन्दुभिध्वनितेन च ॥
गर्जद्भिर्गणवृन्दैश्च मेघस्वनितनिस्वनैः
॥२०॥गणानां स्तोत्रशब्देन सामवेदरवेण च ॥
प्रेक्षणीयैर्महानादैर्गेयहुङ्कारशोभितम्
॥२१॥वृषनर्दितशब्देन गजवाजिरवेण च ॥
कांचीनूपुरशब्देन समाकीर्णदिगंतरम्
॥२२॥सर्वसंपत्करं श्रीमच्छंकरस्यैव मंदिरम् ॥
वंश वीणामृदंगैश्च नादितं तत्र तत्र ह ॥
ऋग्वेदो मूर्तिमांश्चैव शक्रनीलसमद्युतिः
॥२३॥दिव्यगन्धानुलिप्तांगो दिव्याभरणभूषितः ॥
संस्थितः पूर्वतस्तस्य दीप्यमानः स्वतेजसा
॥२४॥उत्तरेण यजुर्वेदः शुद्धस्फटिकसन्निभः ॥
दिव्यकुण्डलधारी च महाकायो महाभुजः
॥२५॥स्थितः पश्चिम दिग्भागे सामवेदः सनातनः ॥
रक्तांबरधरः श्रीमान्पप्ररागसमप्रभः
॥२६॥स्रग्दामधारी चित्रश्च गीतभूषणभूषितः ॥
अथवांऽजनवच्छयामः स्थितो दक्षिणतस्तथा
॥२७॥पिंगाक्षो लोहितग्रीवो हरिकेशो महातनुः ॥
इतिहासषडंगानि पुराणान्यखिलानि च
॥२८॥वेदोपनिषदश्छन्दो मीमांसारण्यकं तथा ॥
स्वाहाकारवषट्कारौ रहस्यानि तथैव च
॥२९॥एतैः समन्वितैश्चैव तत्र ब्रह्मा स्वयं स्थितः ॥
शक्तिरूपधरैर्मन्त्रैर्योगैश्वर्यसमन्वितैः
॥३०॥सहस्रपत्रकमलैरंकितैः सुरपूजितैः ॥
पूजितैर्गणरुद्रैश्च ब्रह्मविष्विंद्रवंदितैः
॥३१॥चामराक्षेपव्यजनैर्वीजितैश्च समन्ततः ॥
शोभितश्च सदा श्रीमांश्चंद्रकोटिसमप्रभः
॥३२॥ज्ञानामृतसुतृप्तात्मा योगैश्वर्यप्रसादकः ॥
योगींद्रमानसांभोज राजहंसो द्विजोत्तमः
॥३३॥अज्ञानतिमिरध्वंसी षट्त्रिंशत्तत्त्वभूषणः ॥
सर्वसौख्यप्रदाता च तत्रास्ते चंद्रशेखरः
॥३४॥तस्योत्संगगता देवी तप्तकांचनसप्रभा ॥
पूजितो योगिनीवृन्दैः साधकैः सुरकिन्नरैः
॥३५॥सर्वलक्षणसंपूर्णा सर्वाभरणभूषिता ॥
योगसिद्धिप्रदा नित्यं मोक्षाभ्युदयदायिनीम्
॥३६॥सौभाग्यकदलीकन्दमूलबीजं च पार्वती ॥
देवस्य मुखमालोक्य विस्मिता चारुलोचना
॥३७॥आनंदभावं संज्ञाय आनन्दास्राविलेक्षणम् ॥
उवाच देवी मधुरं कृतांजलिपुटा सती
॥३८॥देव्युवाच
जन्मकोटिसहस्राणि जन्मकोटिशतानि च ॥
शोधितस्त्वं जगन्नाथ मया प्राणनचिंतया
॥३९॥अर्द्धांग संस्थया वापि त्वद्वक्त्रध्यानकाम्यया ॥
तथापि ते जगन्नाथ नांतो लब्ध्वो महेश्वर
॥४०॥अनन्तरूपिणे तुभ्यं देवदेव नमोऽस्तु ते ॥
नमो वेदरहस्याय नमो वेदैः स्तुताय च
॥४१॥श्मशानरतिनित्याय नमो गगनचारिणे ॥
ज्येष्ठसामरहस्याय शतरुद्रप्रियाय च
॥४२॥नमो वृषकृतांकाय यजुर्वेदधराय च ॥
ब्रह्मांडकोटिसंलग्नमालिने गगनात्मने
॥४३॥मणिचित्रितकन्दाय नमः सर्वार्थसिद्धये ॥
नमो वेदस्वरूपाय द्विज सिद्धिप्रियाय च
॥४४॥पुंस्त्रीविकाररूपाय नमश्चंद्रार्द्धधारिणे ॥
नमोग्नये सहोमाय आदित्यवरुणाय च
॥४५॥पृथिव्यै चांतरिक्षाय वायवे दीक्षिताय च ॥
संयोगाय वियोगाय धात्रे कर्त्रेऽपहारिणे
॥४६॥प्रदीप्तशूलहस्ताय ब्रह्मदण्डधराय च ॥
नमः पतीनां पतये महतां पतये नमः
॥४७॥नमः कालाग्निरुद्राय सप्तलोकनिवासिने ॥
त्वं गतिः सर्वभूतानां भूतानां पतये नमः
॥४८॥नमस्ते भगवन्रुद्र नमस्ते भगवञ्छिव ॥
नमस्ते परतः श्रेष्ठ नमस्ते परतः पर
॥४९॥जिह्वाचापल्यभावेन खेदितोऽसि मया प्रभो ॥
तत्क्षन्तव्यं महेशान ज्ञानदिव्य नमोऽस्तु ते
॥५०॥ईश्वर उवाच
ममोत्संगस्थिता देवि किं त्वं सास्राविलेक्षणा ॥
अद्यापि किमपूर्णं ते तत्सर्वं करवाण्यहम्
॥५१॥वरं ब्रवीहि भद्रं ते स्तवेनानेन सुव्रते ॥
ददामि ते न संदेहः शोकं त्यज महेश्वरि
॥५२॥निष्कले सकले देवि स्थूले सूक्ष्मे चराचरे ॥
न तत्पश्यामि देवेशि यत्त्वया रहितं भवेत्
॥५३॥अहं ते हृदये गौरि त्वं च मे हृदि संस्थिता ॥
अहं भ्राता च पुत्रश्च बंधुर्भर्ता तथैव च
॥५४॥त्वं तु मे भगिनी भार्या दुहिता बांधवी स्नुषा ॥
अहं यज्ञपतिर्यज्वा त्वं च श्रद्धा सदक्षिणा
॥५५॥ओंकारोऽहं वषट्कारः सामाहमृग्यजुस्तथा ॥
अहमग्निश्च होता च यजमानस्तथैव च
॥५६॥अध्वर्युरहमुद्गाता ब्रह्माहं ब्रह्मवित्तथा ॥
त्वं तु देव्यरणी चैव पत्नी तु परिकीर्त्यसे
॥५७॥स्वाहा स्वधा च सुश्रोणि त्वयि सर्वं प्रतिष्ठितम् ॥
अहमिष्टो महायज्ञः पूर्वो यज्ञस्त्वमुच्यसे
॥५८॥पुरुषोऽहं वरारोहे प्रकृतिस्त्वं निगद्यसे ॥
अहं विष्णुर्महावीर्यस्त्वं लक्ष्मीर्लोकभाविनी
॥५९॥अहमिन्द्रो महातेजाः प्राची त्वं परमेश्वरी ॥
प्रजापतीनां रूपेण सर्वमाहं व्यवस्थितः
॥६०॥तेषां या नायिकास्तास्त्वं रूपैस्तैस्तैरवस्थिता ॥
दिवसोऽहं महादेवि रजनी त्वं निगद्यसे
॥६१॥निमेषोऽहं मुहूर्तश्च त्वं कला सिद्धिरेव च ॥
अहं तेजोऽधिकः सूर्यस्त्वं तु संध्या प्रकीर्त्त्यसे
॥६२॥अहं बीजधरः श्रेष्ठस्त्वं तु क्षेत्रं वरानने।
अहं वनस्पतिः प्लक्षस्त्वं वनस्पतिरुच्यसे
॥६३॥शेषरूपधरो नित्ये फणामणिविभूषितः ॥
रेवती त्वं विशालाक्षि मदविभ्रमलोचना
॥६४॥मोक्षोऽहं सर्वदुःखानां त्वं तु देवि परा गतिः ॥
अपां पतिरहं भद्रे त्वं तु देवि सरिद्वरा
॥६५॥वडवाग्निरहं भद्रे त्वं तु दीप्तिः प्रकीर्तिता ॥
प्रजापतिरहं कर्त्ता त्वं प्रजा प्रकृतिस्तथा
॥६६॥नागानामधिपश्चाहं पातालतलवासिनाम् ॥
त्वं नागी नागराजोऽहं सहस्रफणभूषितः
॥६७॥निशाकरवरश्चाहं श्रेष्ठा त्वं रजनीकरी ॥
कामोऽहं कामदो देवि त्वं रतिः स्मृतिरेव च
॥६८॥दुर्वासाश्चाप्यहं भद्रे त्वं क्षमा समचारिणी ॥
लोभमोहतपश्चाहं त्वं तृष्णा तामसी स्मृता
॥६९॥ककुद्मान्वृषभश्चाहं योगमाता तपस्विनी ॥
वायुरप्यहमव्यक्तस्त्वं गतिर्मनसूदनी
॥७०॥अहं मोचयिता लोभे निर्ममा त्वं यशस्विनि ॥
नयोऽहं सर्वकार्येषु नीतिस्त्वं कमलेक्षणा
॥७१॥अहमन्नं च भोक्ता च ओषधी त्वं निगद्यसे ॥
अहमग्निश्च धूमश्च त्वमूष्मा ज्वालमेव च
॥७२॥अहं संवर्त्तको मेघस्त्वं च धारा ह्यनेकशः ॥
अहं मुनीनां रूपेण त्वं तत्पत्नी प्रकीर्तिता
॥७३॥अहं संसारकर्त्ता वै त्वं तु सृष्टिर्वरानने ॥
अहं शुक्रास्थिरोमाणि त्वं मज्जा बलमेव च
॥७४॥पर्जन्योऽहं महाभागे त्वं वृष्टिः परमेश्वरि ॥
अहं संवत्सरो देवि त्वमृतुः परिकीर्त्तिता
॥७५॥अहं कृतयुगो देवि त्वं तु त्रेता निगद्यसे ॥
युगोऽहं द्वापरः श्रीमांस्त्वं कलिः परमेश्वरि
॥७६॥आकाशश्चाप्यहं भद्रे पृथिवी त्वमिहोच्यसे ॥
अहमदृश्यमूर्तिश्च दृश्यमूर्तिस्त्वमुच्यसे
॥७७॥वरदोऽहं वरारोहे मंत्रस्त्वमिति चोच्यसे ॥
अहं द्रष्टा च श्रोता च त्वं दृश्या श्रुतिरेव च
॥७८॥अहं वक्ता रमयिता त्वं वाच्या परमेश्वरि ॥
अहं श्रोता च गाता च त्वं गीतिर्गेयमेव च
॥७९॥अहं त्राता च गन्धश्च त्वं तु निघ्राणमेव च ॥
अहं स्पर्शयिता कर्ता स्पर्श्यस्त्वं सृष्टमेव च
॥८०॥अहं सर्वमिदं भूतं त्वं तु देवि न संशयः ॥
स्रष्टाऽहं तव देवेशि त्वं सृजस्यखिलं जगत्
॥८१॥त्वया मया च देवेशि ओतप्रोतमिदं जगत् ॥
एकधा दशधा चैव तथा शतसहस्रधा
॥८२॥ऐश्वर्येण तु संयुक्तौ सर्वप्राणि व्यवस्थितौ ॥
अहं त्वं च विशालाक्षि सततं संप्रतिष्ठितौ
॥८३॥क्रीडामि क्रीडया देवि त्वया सार्द्धं वरानने ॥
त्वं धृतिर्धारिणी लक्ष्मीः कांता मत्प्रकृतिर्ध्रुवम्
॥८४॥रतिः स्मृतिः कामचारी मम चांगनिवासिनी ॥
देवि किं बहुनोक्तेन प्राणेभ्योऽपि गरीयसी
॥८५॥वरं वरय देवशि यत्किंचिन्मनसि स्थितम् ॥
तत्ते ददामि तुष्टोऽहं यद्यपि स्यात्सुदुर्ल्लभम्
॥८६॥देव्युवाच
धन्याहं कृतपुण्याहं तपः सुचरितं मया ॥
यत्त्वयाऽहं जगन्नाथ हर्षदृष्ट्याऽवलोकिता
॥८७॥यदि तुष्टोऽसि मे देव वरं दातुं ममेच्छसि ॥
तन्मे कथय देवेश सांप्रतं तीर्थविस्तरम्
॥८८॥पृथिव्यां यानि तीर्थानि पापघ्नानि शिवानि च ॥
तानि देवेश कार्त्स्न्येन यथावद्वक्तुमर्हसि
॥८९॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि तीर्थमाहात्म्यमुत्तमम् ॥
सर्वपापहरं नृणां पुण्यं देवर्षिसत्कृतम्
॥९०॥तीर्थानां दर्शनं श्रेष्ठं स्नानं चैव सुरेश्वरि ॥
श्रवणं च प्रशंसंति सदैव ऋषिसत्तमाः
॥९१॥पृथिव्यां नैमिषं तीर्थमंतरिक्षे च पुष्करम् ॥
केदारं च प्रयागं च विपाशा चोर्मिला तथा
॥९२॥कर्णवेणा महादेवी चंद्रभागा सरस्वती ॥
गंगासागरसंभेदस्तथा वाराणसी शुभा
॥९३॥अर्घतीर्थं समाख्यातं गंगाद्वारं तथैव च ॥
हिमस्थानं महातीर्थं तथा मायापुरी शुभा
॥९४॥शतभद्रा महाभागा सिन्धुश्चैव महा नदी ॥
ऐरावती च कपिला शोणश्चैव महानदः
॥९५॥पयोधिः कौशिकी तद्वत्तथा गोदावरी शुभा ॥
देवखातं गया चैव तथा द्वारावती शुभा
॥९६॥प्रभासं च महातीर्थं सर्वपातकनाशनम्
॥९७॥एवमादीनि तीर्थानि यानि संति महीतले ॥
तानि दृष्ट्वा तु देवेशि पुनर्जन्म न विन्दते
॥९८॥तिस्रः कोट्योऽर्धकोटी च तीर्थानामिह भूतले ॥
संजातानि पवित्राणि सर्वपापहराणि च
॥९९॥गंतव्यानि महादेवि स्वधर्मस्य विवृद्धये ॥
अशक्यानि शिवान्येवं गंतुं चैव सुरेश्वरि ॥
मनसा तानि सर्वाणि गंतव्यानि समाहितैः
॥१००॥देव्युवाच
भगवन्प्राणिनः सर्वे सर्वोपद्रवसंकुलाः ॥
अल्पायुषः सदा बद्धा व्यामोहैर्मंदिरोद्भवैः
॥१०१॥त्रेतायां द्वापरे चैव किं नु वै दारुणे कलौ ॥
तस्मात्तेषां हितार्थाय तत्तीर्थं त्वं प्रकीर्तय ॥
येन दृष्टेन सर्वेषां तीर्थानां लभ्यते फलम्
॥१०२॥एवमुक्तस्तु पार्वत्या प्रहस्य परमेश्वरः ॥
उवाच परया प्रीत्या वाचा मधुरया प्रभुः
॥१०३॥ईश्वर उवाच
त्वमेव हि चराः प्राणाः सर्वस्य जगतोरणिः ॥
त्वया विरहितो देवि मुहूर्तमपि नोत्सहे
॥१०४॥शिवस्य च तथा शक्तेरंतरं नास्ति पार्वति ॥
न तदस्ति महादेवि यन्न जानासि शोभने
॥१०५॥त्वया विनाऽहं न क्वास्मि न त्वं देवि मया विना ॥
चंद्रचंद्रिकयोर्यद्वदग्नेरुष्णत्वमेव हि
॥१०६॥तव देवि ममापीह नास्ति चैवांतरं प्रिये ॥
सर्वं चैव सुरेशानि यथावत्कथयाम्यहम्
॥१०७॥रहस्यानां रहस्यं तु गोपनीयं प्रयत्नतः ॥
नास्तिकाय न दातव्यं न च पापरताय च
॥१०८॥दातव्यं भक्ति युक्ताय स्वशिष्याय सुताय वा ॥
पूर्वमेव मया ख्यातं सारात्सारतरं प्रिये
॥१०९॥तीर्थोपनिषदः ख्याता लिंगोपनिषदस्तथा ॥
योगोपनिषदो देवि पूर्वं वै कथितास्तव
॥११०॥पार्वत्युवाच
लेशेनापि न सिद्ध्यंति कांक्षमाणाः परं पदम् ॥
योनीर्भ्रमंतो दृश्यंते नरा नास्तिकवृत्तयः
॥१११॥तीर्थव्रतानि सेवन्ते प्रत्ययो नैव जायते ॥
मोहितं तु जगत्पूर्वं मिथ्याज्ञानेन शंकर
॥११२॥किं ते फलं सुरश्रेष्ठ जगद्व्यामोहने कृते
॥११३॥सारात्सारतरं नाथ तव प्राणप्रियं हि यत् ॥
तन्मे कथय देवेश प्रियाहं यदि ते प्रभो
॥११४॥इत्युक्तः स तया देव्या श्रीकंठः सुरनायकः ॥
प्रहस्योवाच भगवान्गंभीरार्थमिदं वचः
॥११५॥ईश्वर उवाच
शृणुष्वावहिता भूत्वा पृष्टोऽहं यस्त्वयाऽधुना ॥
निष्फलं तत्प्रवक्ष्यामि वस्तुतत्त्वं यथास्थितम्
॥११६॥पूर्वमुक्तानि तीर्थानि यानि ते सुरसुंदरि ॥
तिस्रः कोट्योऽर्द्धकोटी च ब्रह्मांडे सचराचरे
॥११७॥तेषां च गोपितं तीर्थं प्रभासं चैव सुव्रते
॥११८॥एवमुक्तं महादेवि प्रभासं क्षेत्रमुत्तमम् ॥
दृष्ट्वा संस्काररहिताः कलौ पापेन मोहिताः
॥११९॥राजसास्तामसाश्चैव पापोपहतचेतसः ॥
परदारपरद्रव्यपरहिंसारता नराः
॥१२०॥उद्वेगं च परं यांति प्रतप्यंति यतस्ततः ॥
आत्मसंभाविता मूढा मिथ्याज्ञानेन मोहिताः ॥
वर्णाश्रमविरुद्धं तु तीर्थे कु्र्वन्ति येऽधमाः
॥१२१॥तीर्थयात्रां प्रकुर्वंति दंभेन कपटेन च ॥
तीर्थे मृता न सिध्यंति ते नरा वरवर्णिनि
॥१२२॥एतदर्थं मया देवि तीर्थानि विविधानि च ॥
लिंगानि चैव सुश्रोणि गोपितानि प्रयत्नतः ॥
न सिद्धिदानि देवेशि कलौ कल्मषकारिणाम्
॥१२३॥ये नरास्तु जितक्रोधा जितलोभा जितेंद्रियाः ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चादम्भमत्सराः
॥१२४॥मद्भावभाविता देवि तीर्थं सेवंति सुव्रताः ॥
तेषां चैव हितार्थाय कथयामि यशश्विनि
॥१२५॥प्रभासमिति विख्यातं क्षेत्रं त्रैलोक्यवंदितम् ॥
तत्क्षेत्रं नैव जानंति मम मायाविमोहिताः
॥१२६॥परोहं त्वेकचित्तैश्च बहुजन्मभिरर्चितः ॥
ते विदंति परं क्षेत्रं प्रभासं पापनाशनम्
॥१२७॥मद्भावभाविता देवि मम व्रतनिषेविणः ॥
तेषां प्रभासिकं क्षेत्रं विदितं नात्र संशयः
॥१२८॥यमैश्च नियमैर्युक्ता अहंकारविवर्ज्जिताः ॥
तेषामर्थे वदिष्यामि तव प्रश्नं सुदुर्ल्लभम् ॥
ब्रह्मविष्ण्विन्द्रदेवानां पुराणं कथितं मया
॥१२९॥सोऽहं देवि वदिष्यामि कर्णं देहि वरानने ॥
पृथिव्यामपि सर्वेषां तीर्थानां सुरसुंदरि
॥१३०॥एकं मे वल्लभं तत्र प्रभासं क्षेत्रमुत्तमम् ॥
तस्मिंश्चैव महाक्षेत्रे तीर्थैः सोमेन पूजितः ॥
वरांस्तस्मै प्रदायाथ सदैकांते स्थितो ह्यहम्
॥१३१॥तेन गुह्यं कृतं स्थानं तव देवि प्रकाशितम् ॥
तत्र मे योगयुक्तस्य दिव्यं लिंगं बभूव ह
॥१३२॥दिव्यतेजस्समा युक्तं वह्निमेखलमंडितम् ॥
लक्षमात्रस्थितं शांतं दुर्निरीक्ष्यं तु मानवैः
॥१३३॥इच्छाज्ञानक्रियाख्याश्च तिस्रो वै शक्तयश्च याः ॥
तस्माल्लिंगात्समुत्पन्ना जगत्कर्तृत्वहेतवे
॥१३४॥तस्मिँल्लिंगे लयं याति जगदेतच्चराचरम् ॥
पुनस्तेनैव संभूतं दृश्यते सचराचरम्
॥१३५॥गुह्यं चैव तु संभूतं न कश्चिद्वेद तत्परम् ॥
जन्माभ्यासेन तल्लिंगं ज्ञायते भुवि मानवैः
॥१३६॥क्षेत्रं प्रभासिकं प्रोक्तं क्षेत्रज्ञोऽहं न संशयः ॥
तत्र सोमेशनामाहमस्मिन्क्षेत्रं वरानने
॥१३७॥ममांशसंभवा ये च अस्मिन्क्षेत्रे समुद्भवाः ॥
तेषां तु विदितं लिंगं पूर्वकल्पे तु भैरवम्
॥१३८॥अन्यैरपि युगैर्देवि इदं लिंगं सुदुर्लभम् ॥
घोरे कलियुगे पापे विशेषेण च दुर्लभम्
॥१३९॥अन्यन्निदर्शनं तत्र तत्प्रवक्ष्यामि पार्वति
॥१४०॥कलौ युगे महाघोरे हेतुवादरता नराः ॥
वदिष्यंति महापापाः सर्वे पाखण्डसंस्थिताः
॥१४१॥मिथ्या चैतत्कृतं सर्वं मूर्खैश्चापि प्रकीर्तितम् ॥
क्व क्षेत्रं क्व प्रभावश्च कुत्र वै सन्ति देवताः
॥१४२॥सर्वं चापि तथालीकं मूढैश्चापि प्रकीर्तितम्
॥१४३॥एवं मूर्खा वदिष्यंति प्रहसिष्यन्ति चापरे ॥
नारका नास्तिका लोकाः पापोपहतचेतसः ॥
सिद्धिं नैव प्रयास्यंति संप्राप्ते तु कलौ युगे
॥१४४॥तीर्थे चैव मृता ये तु शिवनिन्दापरायणाः ॥
तिर्यग्योनिप्रसूताश्च दृश्यन्ते सर्वयोनिषु
॥१४५॥एतस्मात्कारणाद्देवि तीर्थे चैव सुदुःखिताः ॥
दृश्यन्ते युगमाहात्म्यात्सत्यशौचविवर्जिताः
॥१४६॥इदं हि कारणं प्रोक्तं क्षेत्राणां चैव गोपने ॥
एतत्ते कथितं सर्वं सिद्धिर्येन सुदुर्ल्लभा
॥१४७॥युगेयुगे तु तीर्थानि कीर्तितानि सुरेश्वरि ॥
तेषां मे वल्लभं देवि प्रभासं क्षेत्रमेव च
॥१४८॥इत्येतत्कथितं देवि रहस्यं पापनाशनम् ॥
क्षेत्रबीजं महादेवि किमन्यत्परिपृच्छसि
॥१४९॥इदं महापातकनाशनं ये श्रोष्यंति वै क्षेत्रमहाप्रभावम् ॥
ते चापि यास्यन्ति मम प्रभावात्त्रिविष्टपं पुण्यजनाधिवासम्
॥१५०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रभासक्षेत्रमाहात्म्ये देवीप्रश्नवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥