मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 16

पातालविवरसुनंदादिमातृगणोत्पत्तिवर्णनम्

ईश्वर उवाच

पातालविवरस्यापि माहात्म्यं शृणु सांप्रतम् ॥

पूर्वपृष्टं महादेवि ब्रह्मणा विश्वकर्मणा

॥१॥

तमोभावे समुत्पन्ने जातास्तत्रैव राक्षसाः ॥

सूर्यस्य द्वेषिणः सर्वे ह्यसंख्याता महाबलाः

॥२॥

ते तु दृष्ट्वा महात्मानं समुद्यंतं दिवाकरम् ॥

ते धूम्रप्रमुखाः सर्वे जहसुः सूर्यमंजसा

॥३॥

अस्माकमंतकः कोऽयं विद्यते पापकर्मकृत् ॥

इत्यूचुर्विविधा वाचः सूर्यस्याग्रे स्थितास्तदा

॥४॥

इति श्रुत्वा तदा देवः क्रोधस्फुरिताधरः ॥

राक्षसानां वचश्चैव भक्ष्यमाणो दिवाकरः

॥५॥

ततः क्रोधाभिभूतेन चक्षुषा चावलोकयत् ॥

स क्रूररक्षःक्षयकृत्तिमिरद्विपकेसरी

॥६॥

महांशुमान्खगः सूर्यस्तद्विनाशमचिंतयत् ॥

अजानन्नंततश्छिद्रं राक्षसानां दिवस्पतिः

॥७॥

स धर्मविच्युतान्दृष्ट्वा पापोपहतचेतसः ॥

एवं संचिंत्य भगवान्दध्यौ ध्यानं प्रभाकरः ॥

अजानंस्तेजसा ग्रस्तं त्रैलोक्यं रजनीचरैः ॥

ततस्ते भानुना दृष्टाः क्रोधाध्मातेन चक्षुषा

॥९॥

निपेतुरंबरभ्रष्टाः क्षीणपुण्या इव ग्रहाः ॥

राक्षसैर्वेष्टितो धूम्रो निपतञ्छुशुभेंऽबरात्

॥१०॥

अर्द्धपक्वं यथा तालफलं कपिभिरावृतम् ॥

यदृच्छया निपेतुस्ते यंत्रमुक्ता यथोपलाः

॥११॥

ततो वायु वशाद्भ्रष्टा भित्त्वा भूमिं रसातलम् ॥

जग्मुस्ते क्षेत्रमासाद्य प्रभासं वरवर्णिनि

॥१२॥

यत्र चार्कस्थलो देवः सर्वसिद्धिप्रदायकः ॥

तत्सान्निध्यस्थितं देवि पातालविवरं महत्

॥१३॥

अन्यानि कोटिशः संति तानि लुप्तानि भामिनि ॥

कृतस्मरात्समारभ्य यावदर्कस्थलो रविः

॥१४॥

देवमातुर्वरं प्राप्य सिद्धयोऽष्टौ व्यवस्थिताः ॥

एतस्मिन्नंतरे देवि सूर्यक्षेत्रमुदाहृतम्

॥१५॥

सूर्यस्य तेजसो देवि मध्यभागं हि तत्स्मृतम् ॥

सर्वं हेममयं देवि नापुण्यस्तत्र वीक्षते

॥१६॥

विवराणां शतं चैकं स्पर्शाश्चैव तु कोटिशः ॥

तत्र संति महादेवि सिद्धेशस्तु प्ररक्षति

॥१७॥

इदं क्षेत्रं महादेवि प्रियं सूर्यस्य सर्वदा ॥

सूर्यपर्वणिसंप्राप्ते कुरुक्षेत्राधिकं प्रिये

॥१८॥

ब्राह्मी चैव हिरण्या च संगमश्च महोदधेः ॥

एतत्त्रिसंगमं देवि कोटितीर्थ फलप्रदम्

॥१९॥

देवमाता च तत्रैव मंकीशस्तत्र तिष्ठति ॥

नागस्थानं नगस्थानं तत्रैव समुदाहृतम् ।

इति संक्षेपतः प्रोक्तमर्कस्थलम- होदयम् ॥

राक्षसानां च संपातादभूच्च विवरं यथा

॥२१॥

अन्यानि तत्र देवेशि लुप्तानि विवराणि वै ॥

एवं तु प्रकटं तत्र दृश्यतेऽद्यापि भामिनि

॥२२॥

श्रीमुखं नाम तद्द्वारं रक्ष्यते मातृभिः प्रिये ॥

वर्षमेकं चतुर्द्दश्यां नियमाद्यस्तु पूजयेत्

॥२३॥

तत्र मातृगणान्देवि सुनंदाद्यान्विधानतः ॥

पशुपुष्पोपहारैश्च धूपदीपैस्तथोत्तमैः ॥

विप्राणां भोजनैर्देवि तस्य सिद्धिर्भविष्यति

॥२४॥

तस्मात्सर्वप्रयत्नेन तत्रार्कस्थलसंनिधौ ॥

पूजयेन्मातरः सर्वा यदीच्छेत्सिद्धिमात्मनः

॥२५॥

एतास्तु मातरो देवि सुनंदागणनामतः ॥

ख्यातिं यांति प्रभासे तु क्षेत्रेस्मिन्वरवर्णिनि

॥२६॥

एतत्संक्षेपतः प्रोक्तं पातालोत्तरमध्यतः ॥

तच्छ्रुत्वा मुच्यते देवि सर्वापद्भ्यो नरोत्तमः

॥२७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये अर्कस्थलमाहात्म्ये पातालविवरसुनंदादिमातृगणोत्पत्तिवर्णनंनाम षोडशोऽध्यायः ॥ १६ ॥