वरुणेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि वरुणेश्वरमुत्तमम् ॥
गौरीतपोवनाग्नेय्यां धनुषां विंशतौ स्थितम् ॥
लिंगं महाप्रभावं हि वरुणेन प्रतिष्ठितम्
॥१॥पूर्वं पीतो यदा देवि समुद्रः कुम्भजन्मना ॥
तदा कोपेन सन्तप्तो वरुणः सरितां पतिः
॥२॥कामिकं तु समाज्ञाय क्षेत्रं प्राभासिकं तदा ॥
तत्रातपद्देवि तपः स वै परमदुश्चरम्
॥३॥प्रतिष्ठाप्य महालिंगं संपूजयति भक्तितः ॥
वर्षाणामयुतं साग्रं पूजितो वृषभध्वजः
॥४॥ततः प्रसन्नो देवेशि निजगंगाजलेन तु ॥
पूरयामास तं रिक्तं समुद्रं यादसांपतिम्
॥५॥छंदयामास तं लिंगं वरदानैरनेकधा ॥
तत्प्रभृत्येव ते सर्वे समुद्राः परिपूरिताः
॥६॥वरुणेश्वरनामेति तल्लिंगं तत्प्रभृत्यभूत्
॥७॥को ह्यर्थो बहुभिर्लिंगैर्दृष्टैर्वा सुरसुन्दरि ॥
वरुणेशेन दृष्टेन सर्वतीर्थफलं लभेत्
॥८॥अष्टम्यां च चतुर्दश्यां तद्दध्ना स्नापयेद्यदि ॥
स ब्राह्मणश्चतुर्वेदो जायते नात्र संशयः
॥९॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्ये वरानने ॥
मूकांधबधिरा बालाः स्त्रियश्चैव नपुंसकाः
॥१०॥दृष्ट्वा गच्छंति ते देवि स्वर्गं धर्मपरायणाः ॥
स्नानं जाप्यं बलिं होमं पूजां स्तोत्रं च नर्तनम् ॥
तस्मिन्स्थाने तु यः कुर्यात्तत्सर्वं चाक्षयं भवेत्
॥११॥हैमं पद्मं मौक्तिकं च दानं तत्रैव दापयेत् ॥
सम्यग्यात्राफलापेक्षी स्वर्गापेक्षी तथा नरः
॥१२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वरुणेश्वरमाहात्म्यवर्णनंनाम सप्ततितमोऽध्यायः ॥ ७० ॥