मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २२४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 224

इन्द्रेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगमिंद्रप्रतिष्ठितम् ॥

पापमोचननामाढ्यं दक्षिणे पुरुषोत्तमात्

॥१॥

वृत्रं हत्वा पुरा शक्रो ब्रह्महत्यासमन्वितः ॥

अब्रवीत्स ऋषीन्दिव्यान्कथमेषा गमिष्यति

॥२॥

ब्रह्महत्या हि दुष्प्रेक्ष्या विवर्णजननी मम ॥

दुर्गंधचारिणी चैव सर्वतेजोविनाशिनी

॥३॥

अथोचुस्तं सुरगणा नारदाद्या महर्षयः ॥

प्रभासं गच्छ देवेश क्षेत्रं पापहरं हि तत्

॥४॥

तत्राराध्य महादेवं मोक्ष्यसे ब्रह्महत्यया ॥

स तथेति प्रतिज्ञाय गतस्तत्र वरानने

॥५॥

लिंगं संस्थापयामास देवदेवस्य शूलिनः ॥

तस्य पूजारतो नित्यं धूपगंधानुलेपनैः

॥६॥

ततोऽस्य गात्रदौर्गंध्यं नाशमाश्वभ्यगच्छत ॥

विवर्णत्वं गतं सर्वं वपुश्चाभूत्तथोत्तमम्

॥७॥

अथ हृष्टमना भूत्वा वाक्यमेतदुवाच ह ॥

तत्रागत्य नरो भक्त्या यश्चैनं पूजयिष्यति

॥८॥

ब्रह्महत्यादिकं पापं नाशं तस्य प्रयास्यति ॥

एवमुक्त्वा सहस्राक्षः प्रहृष्टस्त्रिदिवं ययौ

॥९॥

ब्रह्महत्याविनिर्मुक्तः पूज्यमानो दिवौकसैः ॥

गोदानं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥

ब्रह्महत्यापनोदार्थं तत्र श्राद्धं समाचरेत्

॥१०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य इन्द्रेश्वरमाहात्म्यवर्णनंनाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२४ ॥