लक्ष्मीश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
तस्यैव पूर्वदिग्भागे धनुषां पंचके स्थितम् ॥
लक्ष्मीश्वरेति विख्यातं दारिद्र्यौघविनाशनम्
॥१॥यत्र देव्या समानीता लक्ष्मीर्देत्यान्निहत्य च ॥
तेन लक्ष्मीश्वरं नाम स्वयं देव्या प्रतिष्ठितम्
॥२॥यस्तं पूजयते भक्त्या श्रीपंचम्यां विधानतः ॥
न विमुक्तो भवेल्लक्ष्म्या यावन्मन्वतरं प्रिये
॥३॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये लक्ष्मीश्वरमाहात्म्यवर्णनंनाम चतुःषष्टितमोऽध्यायः ॥ ६४ ॥