मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 39

ततो गच्छेन्महादेवि लिगं केदारसंस्थितम्

ईश्वर उवाच

अथ संपूज्य विधिना देवदेवं कपर्द्दिनम् ॥

ततो गच्छेन्महादेवि लिगं केदारसंस्थितम्

॥१॥

तस्यैवाग्नेयभागस्थं भीमेश्वरसमीपगम् ॥

स्वयंभूतं महादेवि कल्पलिंगं मम प्रियम्

॥२॥

मया संपूजितं देवि वृद्धिलिंग महाप्रभम् ॥

निराहारस्तु यस्तत्र करोत्येकं प्रजागरम्

॥३॥

चतुर्दश्यां विशेषेण तस्य लोकाः सनातनाः ॥

रुद्रेश्वरेति देवस्य त्वासीन्नाम पुरा युगे

॥४॥

तिष्येस्मिंस्तु पुनः प्राप्ते म्लेच्छस्पर्शभयातुरः ॥

अस्मिँल्लिंगे लयं यातः केदारश्चाब्धिसंनिधौ

॥५॥

तेन केदारनामेति तस्य ख्यातं धरातले ॥

माघे मासि यताहारः स्नात्वा तु लवणोदधौ

॥६॥

पद्मके तु महाकुंडे मध्येस्य लवणांभसः ॥

रुद्रेशाद्दक्षिणे भागे धनुषां दशके स्थिते

॥७॥

स्नात्वा विधानतो देवि रुद्रेशं चार्चयिष्यति ॥

सम्यक्केदारया त्रायाः फलं तस्य भविष्यति

॥८॥

ब्रह्महत्यादिपापानां पूजनान्नाशनं महत् ॥

अथ तस्यैव देवस्य इतिहासं पुरातनम्

॥९॥

सर्वकामप्रदं नृणां कथ्यते ते सुरप्रिये ॥

आसीद्राजा पुरा देवि शशबिंदुरिति श्रुतः

॥१०॥

सार्वभौमो महीपालो विपक्षगणसूदनः ॥

कलिद्वापरयोः संधौ सभूतः पृथिवीपतिः

॥११॥

तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥

न देवी न च गन्धर्वी नासुरी न च पन्नगी

॥१२॥

तादृग्रूपा वरारोहे यथाऽस्य शुभलोचना ॥

तस्य हेममयं पद्मं शतपत्रं मनोरमम्

॥१३॥

खेचरं वेगि नित्यं च तस्य राज्ञो महात्मनः ॥

स तेन पर्यटँल्लोकान्सर्वान्देवि स्वकामतः

॥१४॥

एकदा फाल्गुने मासि शुक्लपक्षे वरानने ॥

चतुर्द्दश्यां तु संप्राप्तः प्रभासक्षेत्रमुत्तमम्

॥१५॥

अथापश्यदृषीन्सर्वाञ्छ्रीसोमेशपुरःस्थितान् ॥

रात्रौ जागरणार्थाय जपहोमपरायणान्

॥१६॥

स दृष्ट्वा सोमनाथं तु प्रणिपत्य विधानतः ॥

पूजयामास सर्वां स्तान्यथार्हं भक्तिसंयुतः

॥१७॥

ततः केदारमासाद्य संस्नाप्य विधिवत्प्रिये ॥

पूजयित्वा विचित्राभिः पुष्पमालाभिरीश्वरम्

॥१८॥

नैवेद्यैर्विविधैर्वस्त्रैर्भूषणैश्च मनोहरैः ॥

ततोऽत्र कारयामास जागरं सुसमाहितः

॥१९॥

ततस्ते मुनयः सर्वे कुतूहलसमन्विताः ॥

च्यवनो याज्ञवल्क्यश्च शांडिल्यः शाकटायनः

॥२०॥

रैभ्योऽथ जैमिनिः क्रौंचो नारदः पर्वतः शिलः ॥

मार्कंडं पुरतः कृत्वा जग्मुस्तस्य समीपतः

॥२१॥

चक्रुः कथाः सुविचित्रा इतिहासानि भूरिशः ॥

कीर्त्तयंतः स्थितास्तत्र पप्रच्छू राजसत्तमम्

॥२२॥

ऋषय ऊचुः

कस्मात्सोमेश्वरं देवं परित्यज्य नराधिप ॥

केदारस्य पुरोऽकार्षीर्जागरं तद्ब्रवीहि नः ॥

नूनं वेत्सि फलं चास्य लिंगस्य त्वं महोदयम्

॥२३॥

राजोवाच

शृण्वंतु ब्राह्मणाः सर्वे अन्यदेहोद्भवं मम ॥

पुराऽहं शूद्रजातीय आसं ब्राह्मणपूजकः

॥२४॥

सौराष्ट्रविषये शुभ्रे धनधान्यसमाकुले ॥

अथ कालांतरे तत्र अनावृष्टिरभूद्द्विजाः

॥२५॥

ततोऽहं क्षुधयाविष्टः प्रभासं क्षेत्रमास्थितः ॥

अथापश्यं सरः शुभ्रं हरिणीमूलसंस्थितम्

॥२६॥

तच्च रामसरोनाम पद्मिनीषण्डमंडितम् ॥

क्षीरोदांबुधिसंकाशं दृष्ट्वा स्नातः क्लमान्वितः

॥२७॥

संतर्प्य च पितॄन्देवान्पीत्वा स्वच्छमथोदकम् ॥

ततोऽहं भार्यया प्रोक्तो गृहाणेमान्सरोरुहान्

॥२८॥

एतत्समीपतो रम्यं दृश्यते स्थानमुत्तमम् ॥

विक्रीणीमोऽत्र गत्वा तु येन स्याद्भोजनं विभो

॥२९॥

अथावतीर्य सलिलं गृहीतानि मया द्विजाः ॥

कमलानि सुभू रीणि प्रस्थितश्च पुरं प्रति

॥३०॥

तत्र गत्वा च रथ्यासु चत्वरेषु त्रिकेषु च ॥

प्रफुल्लकमलान्येव क्रेतुं वै मुनिसत्तमाः

॥३१॥

न कश्चित्प्रति गृह्णाति अस्तं प्राप्तो दिवाकरः ॥

प्रासादं कंचिदासाद्य सुप्तोहं सह भार्यया

॥३२॥

तत्र सुप्तस्य मे बुद्धिः श्रुत्वा गीतध्वनिं तदा ॥

समुत्पन्ना सभा र्यस्य क्षुधार्तस्य विशेषतः ॥

नूनं जागरणं ह्येतत्कस्मिंश्चिद्विबुधालये

॥३३॥

सरोरुहाणि चादाय व्रजाम्यत्र सुरालये ॥

यदि कश्चित्प्रगृह्णाति प्राणयात्रा ततो भवेत्

॥३४॥

अथोत्थाय समायातो ह्यत्राहं मुनिपुंगवाः ॥

अपश्यं लिंगमेतत्तु पूजितं कुसुमैः शुभैः

॥३५॥

रुद्रेश्वराभिधमिदं वृद्धलिंगं स्वयंभुवम् ॥

वेश्यानंगवतीनाम्नी शिवरात्रिपरायणा

॥३६॥

जागर्त्ति पुरतस्तस्य गीतनृत्योत्सवादिना ॥

ततः कश्चिन्मया दृष्टः किमेतद्रात्रिजागरम्

॥३७॥

केयं स्त्री दृश्यतेऽत्यर्थं गीतनृत्योत्सवे रता ॥

सोऽब्रवीच्छिवधर्मोक्ता शिवरात्रिः सुधर्मदा

॥३८॥

तां चानंगवतीनाम्नी वेश्येयं धर्मसंयुता ॥

जागर्त्ति परमं श्रेयः शिवरात्रिव्रतं शुभम्

॥३९॥

शिवरात्रिव्रतं ह्येतद्यः सम्यक्कुरुते नरः ॥

न स दुःखमवाप्नोति न दारि द्र्यं न बंधनम्

॥४०॥

दुष्टं चारिष्टयोगं वा न रोगं न भयं क्वचित् ॥

सुखसौभाग्यसंपन्नो जायते सत्कुले नरः

॥४१॥

तेजस्वी च यशस्वी च सर्वकल्याणभाजनम् ॥

भवेदस्य प्रसादेन एवमाहुर्मनीषिणः

॥४२॥

राजोवाच

अथ मे बुद्धिरुत्पन्ना तद्व्रतं प्रति निश्चला ॥

चिंतितं मनसा ह्येतन्मयाब्राह्मणसत्तमाः

॥४३॥

अन्नाभावान्ममोत्पन्न उपवासो बलाद्यतः ॥

तदहं पद्मके तीर्थेस्नात्वा च लवणांभसि

॥४४॥

एतैः सरोरुहैर्देवं पूजयामि महेश्वरम् ॥

ततो मया सभार्येण रुद्रेशः संप्रपूजितः

॥४५॥

पद्मैश्च भक्तियुक्तेन सभार्येण विशेषतः ॥

जाग्रत्स्थितस्तु देवाग्रे तां रात्रिं सह भार्यया

॥४६॥

ततः प्रभातसमय उदिते सूर्यमण्डले ॥

सा वेश्या मामुवाचेदं कलधौतपलत्रयम्

॥४७॥

गृहाणमूल्यं पद्मानां न गृहीतं मया हि तत् ॥

सात्त्विकं भावमास्थाय सभार्येण द्विजोत्तमाः

॥४८॥

ततो भिक्षां समाहृत्य प्राणयात्रा मया कृता ॥

कालेन महता प्राप्तः कालधर्मं मुनीश्वराः

॥४९॥

इयं मे दयिता साध्वी प्राणेभ्योऽपि गरीयसी ॥

मम देहं समादाय प्रविष्टा हव्यवाहनम्

॥५०॥

तत्प्रभावादहं जातः सर्वभौमो महीपतिः ॥

जातिस्मरः सभार्यस्तु सत्यमेतद्द्विजोत्तमाः

॥५१॥

एतस्मात्कारणादस्य भक्तिर्लिंगस्य चोपरि ॥

मम नित्यं सभार्यस्य सत्यमेतद्ब्रवीमि वः

॥५२॥

मया क्रियाविहीनेन भक्तिबाह्येन सत्तमाः ॥

व्रतमेतत्समाचीर्णं तस्येदं सुमहत्फ लम्

॥५३॥

अधुना भक्तियुक्तस्य यथोपकरणान्मम ॥

भविष्ये यत्फलं किंचिन्नो वेद्मि च मुनीश्वराः ॥

येन सोमेशमुत्सृज्य अत्राहं भक्ति तत्परः

॥५४॥

ईश्वर उवाच

एवं श्रुत्वा तु ते विप्रा विस्मयोत्फुल्ललोचनाः ॥

साधुसाध्विति जल्पंतो राजानं संप्रशंसिरे

॥५५॥

पूजयामासुरनिशं लिंगं तत्र स्वयंभुवम् ॥

ततोऽसौ पार्थिवश्रेष्ठो लिंगस्यास्यप्रसादतः ॥

संसिद्धिं परमां प्राप्तो दुर्ल्लभां त्रिदशैरपि

॥५६॥

सा च वेश्या भगवती शिवरात्रिप्रभावतः ॥

तस्य लिंगस्य माहात्म्याद्रंभानामाप्सराऽभवत्

॥५७॥

तस्मात्सर्वप्रयत्नेन तल्लिंगं पूजयेद्बुधः ॥

धर्मकामार्थमोक्षं च यो वांछत्यखिलप्रदम्

॥५८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये केदारेश्वर (रुद्रेश्वर)लिङ्गमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥