मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ९६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 96

ततोगच्छेन्महादेवि कामेश्वरमिति स्मृतम्

ईश्वर उवाच

ततोगच्छेन्महादेवि कामेश्वरमिति स्मृतम् ॥

तस्यैवोत्तरदिग्भागे धनुषां त्रितये स्थितम् ॥

रतीश्वरमिति ख्यातं त्रेतायां तत्सुरे श्वरि

॥१॥

यस्मिन्दृष्टे मनुष्याणां पूजिते तु वरानने ॥

नश्येच्च सप्तजन्माघं गृहभंगश्च नो भवेत्

॥२॥

देव्युवाच

केनायं स्थापितो देव कस्मात्प्रोक्तो रतीश्वरः ॥

दर्शनेनास्य किं श्रेयः सर्वं विस्तरतो वद

॥३॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥

रतिर्नामाभवत्साध्वी कामपत्नी यशस्विनी

॥४॥

दग्धे मनसिजे पूर्वं देवेन त्रिपुरारिणा ॥

तदर्थाय तपस्तेपे तस्मिन्देशे रतिः किल

॥५॥

अंगुष्ठाग्रेण तिष्ठन्त्या यावद्युगचतुष्टयम् ॥

आराधितो महादेवः शांतेन मनसा प्रिये

॥६॥

कस्मिंश्चिदथ काले तु निर्भिद्य धरणीतलम् ॥

तदग्रतः समुत्तस्थौ लिगं माहेश्वरं प्रिये

॥७॥

एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥

आह्लादयंती सहसा तस्याश्चित्तं वरानने

॥८॥

यस्मान्माहेश्वरं लिंगं त्वद्भक्त्या सहसोत्थितम् ॥

पूजयेस्तन्महाभागे ततः कांतमवाप्स्यसि

॥९॥

एतच्छुत्वा तु सा साध्वी देवदूतस्य भाषितम् ॥

तल्लिंगं पूजयामास स भक्त्या परमया युता

॥१०॥

ततः कामः समुत्तस्थौ सुप्तोत्थित इव प्रिये ॥

ततः प्रभृति तल्लिंगं कामेश्वरमिति श्रुतम्

॥११॥

ततः सा कामदयिता वाक्यमेतदुवाच ह ॥

प्रहृष्टा कामदेवाप्त्या पुरतः पुष्पधन्वनः

॥१२॥

पूजयिष्यंति ये चान्ये लिंगमेतत्समाहिताः ॥

एवं ते वांछितां सिद्धिं भूयो यास्यंति सद्गतिम्

॥१३॥

मनोऽभीष्टं तथा सर्वं यद्यपि स्यात्सदुर्ल्लभम् ॥

तत्प्राप्स्यंति न संदेहो लिंगस्यास्य प्रसादतः

॥१४॥

एवमुक्त्वा गता साध्वी रतिः कामेन संयुता ॥

स्वस्थाने पूर्णकामा सा प्रहृष्टेनांतरात्मना

॥१५॥

एनं चैत्रत्रयोदश्यां शुक्लायां यः समर्चति ॥

सकामवद्भवेन्नृणां श्रुतं सौभाग्यदायकम्

॥१६॥

हृति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनंनाम षण्णवतितमोऽध्यायः

॥९६॥