तस्यैव संनिकृष्टे तु लिंगं ज्वालेश्वरं स्मृतम्
ईश्वर उवाच
तस्यैव संनिकृष्टे तु लिंगं ज्वालेश्वरं स्मृतम् ॥
शरः पाशुपतो यत्र ज्वलन्वै त्रिपुरारिणा
॥१॥पातितो यत्प्रदेशे तु तेन ज्वालेश्वरः स्मृतः ॥
तं दृष्ट्वा मानवो देवि मुच्यते सर्वपातकैः
॥२॥इति श्रीस्कांदे महापुराण एकाशातिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये ज्वालेश्वरमाहात्म्यवर्णनंनामैकसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७१ ॥