मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २८६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 286

बालार्कमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि बालार्कं पापनाशनम् ॥

अगस्त्याश्रमतो देवि उत्तरे नातिदूरतः

॥१॥

बाल एव तु यत्रार्कस्तपस्तेपे पुरा प्रिये ॥

तेन बालार्क इत्येतन्नाम ख्यातं धरातले

॥२॥

तं दृष्ट्वा रविवारेण न कुष्ठी जायते नरः ॥

बालानां रोगजा पीडा न संभूयात्कदाचन

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये बालार्कमाहात्म्यवर्णनंनाम षडशीत्युत्तरद्विशततमोऽध्यायः ॥ २८६ ॥