ततो गच्छेन्महादेवि सिद्धेश्वरमनुत्तमम्
ईश्वर उवाच
ततो गच्छेन्महादेवि सिद्धेश्वरमनुत्तमम् ॥
तस्यैव पूर्वदिग्भागे नातिदूरे व्यवस्थितम्
॥१॥यदा देवैः समेत्याशु शिवलिंगं प्रतिष्ठितम् ॥
संगालेश्वर नामाढ्यं सर्वपापहरं शुभम्
॥२॥तदा सिद्धगणाः सर्वे समाराध्य वृषध्वजम् ॥
स्थापयांचक्रिरे लिंगं सर्वसिद्धिप्रदायकम्
॥३॥तत्सिद्धेश्वर नामाढ्यं महापातकनाशनम् ॥
तुष्टुवुर्विविधैः स्तोत्रैस्तदा सिद्धगणाः शिवम्
॥४॥ततस्तुष्टो महादेवो याच्यतां वरमुत्तमम् ॥
नमस्कृत्य ततः सर्वे प्रोचुश्च शशिशेखरम्
॥५॥इहागत्य नरो यस्तु स्नात्वा च विधिपूर्वकम् ॥
अर्चयेत्सिद्धनाथं च जपेच्च शतरुद्रियम्
॥६॥अघोरं वा जपेन्मन्त्रं गायत्र्यं च महेश्वरम् ॥
षण्मासाभ्यन्तरेणैव जपेच्च मुनिसत्तमाः ॥
अणिमादिगुणैश्वर्यं संसिद्धिं प्राप्नुयाद्ध्रुवम्
॥७॥ईश्वर उवाच
एवं भविष्यतीत्युक्त्वा ह्यंतर्धानं गतो हरः ॥
सिद्धेश्वरं तु संपूज्य ह्यघोरं च जपेन्नरः
॥८॥आश्वयुक्कृष्णपक्षे तु चतुर्दश्यां महानिशि ॥
धैर्यमालंब्य निर्भीकः स सिद्धिं प्राप्नुयान्नरः
॥९॥इत्येतत्कथितं देवि माहात्म्यं पापनाशनम् ॥
सिद्धेश्वरस्य देवस्य सर्वकामफलप्रदम्
॥१०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य सिद्धेश्वरमाहात्म्यवर्णनंनामैकोत्तरत्रिशत तमोऽध्यायः ॥ ३०१ ॥