ततो गच्छेन्महादेवि अक्षमालेश्वरं परम्
ईश्वर उवाच
ततो गच्छेन्महादेवि अक्षमालेश्वरं परम् ॥
सागरार्कादीशकोणे पंचाशद्धनुषान्तरे
॥१॥संस्थितं पापशमनं युगलिंगं महाप्रभम् ॥
अक्षमालेश्वरंनाम पुरा तस्य प्रकीर्तितम् ॥
उग्रसेनेश्वरं नाम ख्यातं तस्यैव साम्प्रतम्
॥२॥देव्युवाच
अक्षमालेश्वरं नाम यत्पूर्वं समुदाहृतम् ॥
कथं तदभवद्देव कथयस्व प्रसादतः
॥३॥ईश्वर उवाच
आसीत्पुरा महादेवि सती चाध मयोनिजा ॥
अक्षमालेति वै नाम्ना सतीधर्मपरायणा
॥४॥कदाचित्समनुप्राप्ते दुर्भिक्षे कालपर्ययात् ॥
ऋषयश्च महादेवि क्षुधाक्रान्ता विचेतसः
॥५॥सर्वे चान्नं परीप्संतो गताश्चण्डालवेश्मनि ॥
ज्ञात्वान्नसंग्रहं तस्य प्रार्थयाञ्चक्रुरन्त्यजम्
॥६॥भोभोऽन्त्यज महाबुद्धे रक्षास्मानन्नदानतः ॥
प्राणसंदेहमापन्नान्कृशांगान्क्षुत्प्रपीडितान्
॥७॥अहो धन्योऽसि पूज्योऽसि न त्वमन्त्यज उच्यसे ॥
यदस्मिन्प्रलये याते स्थितं धान्यं गृहे तव
॥८॥अनावृष्टिहते देशे सस्ये च प्रलयं गते ॥
एकं यो भोजयेद्विप्रं कोटिर्भवति भोजिता
॥९॥अन्त्यज उवाच
अहो आश्चर्यमतुलं यदेतद्दृश्यतेऽधुना ॥
यदेतन्मद्गृहं प्राप्ता ऋषयश्चान्नकांक्षिणः
॥१०॥शूद्रान्नमपि नादेयं ब्राह्मणैः किमुतान्त्यजात्
॥११॥आमं वा यदि वा पक्वं शूद्रान्नं यस्तु भक्षति ॥
स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले
॥१२॥अमृतं बाह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ॥
वैश्यान्नमन्नमित्याहुः शूद्रान्नं रुधिरं स्मृतम्
॥१३॥शूद्रान्नं शूद्रसंपर्कं शूद्रेण च सहासनम् ॥
शूद्रादन्नागमश्चैव ज्वलंतमपि पातयेत्
॥१४॥अग्निहोत्री तु यो विप्रः शूद्रान्नान्न निवर्तते ॥
एते तस्य प्रणश्यंति आत्मा ब्रह्म त्रयोऽग्नयः
॥१५॥शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ॥
षण्मासाभ्यन्तरे विप्रः पिशाचः सोऽभिजायते
॥१६॥शूद्रान्नेन द्विजो यस्तु अग्निहोत्रं जुहोति च ॥
चण्डालो जायते प्रेत्य शूद्राच्चैवेह दैवतः
॥१७॥यस्तु भुञ्जति शूद्रान्नं मासमेकं निरन्तरम् ॥
इह जन्मनि शूद्रत्वं मृतः शूद्रोऽभिजायते
॥१८॥राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ॥
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः
॥१९॥कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ॥
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति
॥२०॥पूयं चिकित्सकस्यान्नं पुंश्चल्याश्चान्नमिन्द्रियम् ॥
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम्
॥२१॥सहस्रकृत्वस्त्वेतेषामन्ने यद्भक्षिते भवेत् ॥
तदेकवारं भुक्तेन कन्याविक्रयिणो भवेत्
॥२२॥सहस्रकृत्वस्तस्यैव भुक्तेऽन्ने यत्फलं भवेत् ॥
तदन्त्यजानामन्नेन सकृद्भुक्तेन वै भवेत्
॥२३॥तत्कथं मम विप्रेन्द्राश्चंडालस्याधमात्मनः ॥
धर्ममेवं विजानन्तो नूनमन्नं जिहीर्षथ
॥२४॥ऋषय ऊचुः
जीवितात्ययमापन्नो योऽन्नमाद्रियते ततः ॥
आकाश इव पंकेन न स पापेन लिप्यते
॥२५॥अजीगर्तः सुतं हंतुमुपसर्पन्बुभुक्षितः ॥
न चालिप्यत पापेन क्षुत्प्रतीघातमाचरन्
॥२६॥भारद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ॥
बह्वीर्गा उपजग्राह बृहज्ज्योतिर्महामनाः
॥२७॥क्षुधार्तो गीतमभ्यागाद्विश्वामित्रः श्वजाघनीम् ॥
चण्डालहस्तादादाय धर्माधर्मविचक्षणः
॥२८॥श्वमांसमिच्छन्नर्तौ तु धर्मान्न च्ययते स्म सः ॥
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान्
॥२९॥एवं ज्ञात्वा धर्मबुद्धे सांप्रतं मा विचारय ॥
ददस्वान्नं ददस्वान्नमस्माकमिह याचताम्
॥३०॥चंडाल उवाच
यद्येवं भवतां कार्यमिदमंगीकृतं धुवम् ॥
तदियं मत्सुता कन्या भवद्भिः परिगृह्यताम्
॥३१॥भवतां योग्रणीर्ज्येष्ठः स चेमामुद्वहेद्ध्रुवम् ॥
दास्ये वर्षाशनं पश्चादीप्सितं भवतां द्विजाः
॥३२॥ईश्वर उवाच
इत्युक्ता ऋषयो देवि लज्जयाऽऽनतकन्धराः ॥
प्रत्यालोच्य यथान्यायं वसिष्ठं समनूद्वहन्
॥३३॥वसिष्ठोऽपि समाख्याय आपद्धर्मं महामनाः ॥
कालस्यानन्तरप्रेक्षी प्रोद्ववाहाऽन्त्यजाङ्गनाम् ॥
अक्षमालेति वै नाम्नीं प्रसिद्धा भुवनत्रये
॥३४॥यदा स्वकीयतेजोभिरर्कबिंबमरुन्धत ॥
अरुंधती तदा जाता देवदानव वंदिता
॥३५॥यादृशेन तु भर्त्रा स्त्री संयुज्येत यथाविधि ॥
सा तादृगेव भवति समुद्रेणेव निम्नगा
॥३६॥अक्षमाला वसिष्ठेन संयुक्ताऽधम योनिजा ॥
शार्ङ्गीव मन्दपालेन जगाम ह्यर्हणीयताम्
॥३७॥एवं कालक्रमेणैव प्रभासं क्षेत्रमागताः ॥
सप्तर्षयो महात्मानो ह्यरुंधत्या समन्विताः
॥३८॥तीर्थानि प्रेषयामासुः सर्वसिद्धिप्रदानि ताम्
॥३९॥एषामन्वेषमाणानां तव देवी ह्यरुंधती ॥
अपश्यल्लिंगमेकं तु वृक्षजालांतरे स्थितम्
॥४०॥तं दृष्ट्वा देवदेवेशमेवं जातिस्मराऽभवत् ॥
पूर्वस्मिञ्जन्मनि मया रजोभावांतरस्थया
॥४१॥अज्ञानभावाद्देवेशो नूनं चात्रार्चितः।
शिवः ॥
तस्मात्कर्मफलं प्राप्तमन्त्यजत्वं द्विजन्मना
॥४२॥कस्तेन सदृशो देवः शंभुना भुवनत्रये ॥
राज्यं नियमिनामेवं यो रुष्टोऽपि प्रयच्छति
॥४३॥इति संचिंत्य मनसा तत्रैव निरताऽभवत् ॥
पूजयामास तल्लिंगं दिव्याब्दानां शतं प्रिये
॥४४॥एवं तस्य प्रभावेन दृश्यते गगनांतरे ॥
अरुंधती सती ह्येषा दृष्टा दुष्कृतनाशिनी
॥४५॥अक्षमालेश्वरस्त्वेवं यथावत्कथितस्तव ॥
ततस्तु द्वापरस्यान्ते कलौ संध्यांशके गते
॥४६॥अंधासुरसुतश्चासीदुग्रसेन इति श्रुतः ॥
स प्रभासं समासाद्य पुत्रार्थं लिंगमेयिवान्
॥४७॥अक्षमालेश्वरं नाम ज्ञात्वा माहात्म्यमद्भुतम् ॥
समाराध्य महादेवं नव वर्षाणि पंच च ॥
संप्राप्तवांस्तदा पुत्रं कंसासुरमिति श्रुतम्
॥४८॥तत्कालान्तरमारभ्य उग्रसेनेश्वरोऽभवत् ॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि
॥४९॥ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
महान्ति पातकान्याहुर्नश्यंति तस्य दर्शनात्
॥५०॥तत्रैव ऋषिपञ्चम्यां प्राप्ते भाद्रपदे शुभे ॥
अक्षमालेश्वरं पूज्य मुच्यते नारकाद्भयात्
॥५१॥गोप्रदानं प्रशंसंति तत्रान्नमुदकं तथा ॥
सर्वपापविनाशाय प्रेत्यानंतसुखाय च
॥५२॥इति ते कथितं देवि ह्यक्षमालेश्वरोद्भवम् ॥
माहात्म्यं पापशमनं श्रुतं दुःखनिबर्हणम्
॥५३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उग्रसेनेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥ १२९ ॥