मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३३२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 332

रुक्मिणीमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्माद्दक्षिणदिग्भागे धनुषां पंचभिः प्रिये ॥

तत्र तप्तोदकुंडानि संत्यद्यापि वरानने

॥१॥

कुण्डतः पूर्वदिग्भागे धनुषां पञ्चविंशतौ ॥

रुक्मिणी संस्थिता देवी सर्वपातकनाशिनी

॥२॥

स्नात्वा तप्तोदके कुण्डे कोटिहत्याविनाशने ॥

ततः संपूजयेद्देवीं रुक्मिणीं रुक्मदायिनीम् ॥

सप्त जन्मानि नारीणां गृहभंगो न जायते

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये रुक्मिणीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरत्रिशततमोऽध्याय ॥ ३३२ ॥