मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 155

रत्नेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि रत्नेश्वरमनुत्तमम् ॥

तत्र तप्त्वा तपो देवि विष्णुना प्रभविष्णुना ॥

स्थापितं तत्र तल्लिंगं सर्वकामप्रदं प्रिये

॥१॥

रत्नकुंडे नरः स्नात्वा यस्तं पूजयते सदा ॥

सर्वोपचारैर्भक्त्या स प्राप्नुयादीप्सितं फलम्

॥२॥

अत्र कृत्वा तपो घोरं कृष्णेनामिततेजसा ॥

प्राप्तं सुदर्शनं चक्रं सर्वदैत्यान्तकारकम्

॥३॥

एतत्स्थानं महादेवि सदा प्रियतरं मम ॥

वसामि तत्र देवेशि प्रलयेऽपि न संत्यजे

॥४॥

स्मृतं तद्वैष्णवं क्षेत्रं नाम्ना देवि सुदर्शनम् ॥

धन्वंतराणि षट्त्रिंशत्समंतात्परिमण्डलम्

॥५॥

एतदन्तरमासाद्य ये केचित्प्राणिनोऽधमाः ॥

मृताः कालवशाद्देवि ते यास्यंति परं पदम्

॥६॥

कांचनं तत्र गरुडं पीतानि वसनानि च ॥

विष्णुमुद्दिश्य यो दद्यात्स तु यात्राफलं लभेत्

॥७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये रत्नेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशदु त्तरशततमोऽध्यायः ॥ १५५ ॥