गन्धर्वकन्यावृत्तान्तवर्णनम्
ईश्वर उवाच
स गन्धर्वस्तदा देवि आरिराधयिषुर्भवम् ॥
सोमवारव्रतंनाम पप्रच्छ मुनिसत्तमम्
॥१॥गन्धर्व उवाच
कथं सोमव्रतं कार्यं विधानं तस्य कीदृशम् ॥
कस्मिन्काले च तत्कार्यं सर्वं विस्तरतो वद
॥२॥गोशृंग उवाच
साधुसाधु महाप्राज्ञ सर्वसत्त्वोपकारकम् ॥
यन्न कस्यचिदाख्यातं तदद्य कथयामि ते
॥३॥सर्वरोगहरं दिव्यं सर्वसिद्धिप्रदायकम् ॥
सोमवारव्रतंनाम सर्वकामफलप्रदम्
॥४॥सर्वकालिकमादेयं वर्णानां शुभकारकम् ॥
नारी नरैः सदा कार्यं दृष्ट्वादृष्ट्वा फलोदयम्
॥५॥ब्रह्मविष्ण्वादिभिर्देवैः कृतमेतन्महाव्रतम् ॥
पुनस्तु सोमराजेन दक्षशापहतेन च
॥६॥आराधितोऽनेन शंभुः शंभुध्यानपरेण तु ॥
ततस्तुष्टो महादेवः सोमराजस्य भक्तितः
॥७॥तेनोक्तं यदि तुष्टोऽसि प्रतिष्ठास्थो निरंतरम्
॥८॥यावच्चंद्रश्च सूर्यश्च यावत्तिष्ठंति भूधराः ॥
तावन्मे स्थापितं लिंगमुमया सह तिष्ठतु
॥९॥स्थापितं तु तदा तेन प्रार्थयित्वा महेश्वरम् ॥
आत्मनामांकितं कृत्वा ततो रोगैर्व्यमुच्यत
॥१०॥ततः शुद्धशरीरोऽसौ गगनस्थो विराजते
॥११॥तदाप्रभृति ये केचित्कुर्वंति भुवि मानवाः ॥
तेऽपि तत्पदमायांति विमलांगाश्च सोमवत्
॥१२॥अथ किं बहुनोक्तेन विधानं तस्य कीर्त्तये ॥
यस्मिन्कस्मिंश्च मासे वा शुक्ले सोमस्य वासरे
॥१३॥दंतकाष्ठं पुरा ब्राह्मे कृत्वा स्नानं समाचरेत् ॥
स्वधर्मविहितं कर्म कृत्वा स्थाने मनोरमे
॥१४॥सुसमे भूतले शुद्धे न्यस्य कुम्भं सुशोभितम् ॥
चूतपल्लवविन्यस्ते चंदनेन सुचित्रिते
॥१५॥श्वेतवस्त्रपरीधाने सर्वाभरणभूषिते ॥
आदौ पात्रे तु संन्यस्य आधारसहितं शिवम्
॥१६॥अष्टमूर्त्यष्टकं दिक्षु सोमनाथं सशक्तिकम् ॥
उमया सहितं तत्र श्वेतपुष्पैश्च पूजयेत्
॥१७॥विविधं भक्ष्यभोज्यं च फलं वै बीजपूर कम् ॥
अनेनैव तु मंत्रेण सर्वं तत्रैव कारयेत्
॥१८॥ओं नमः पंचवक्त्राय दशबाहुत्रिनेत्रिणे ॥
श्वेतं वृषभमारूढ श्वेताभरणभूषित
॥१९॥उमादेहार्द्धसंयुक्त नमस्ते सर्वमूर्तये ॥
अनेनैव तु मंत्रेण पूजां होमं च कारयेत्
॥२०॥कृत्वैवं च दिने रात्रौ पश्यंश्चैवं स्वपेन्नरः ॥
दर्भशय्या समारूढो ध्यायन्सोमेश्वरं हरम्
॥२१॥एवं कृतेऽष्टादशानां कुष्ठानां नाशनं भवेत् ॥
द्वितीये सोमवारे तु करंजं दन्तधावनम्
॥२२॥देवं संपूजयेत्सूक्ष्मं ज्येष्ठाशक्तिसमन्वितम् ॥
शतपत्रैः पूजयित्वा मधु प्राश्य यथाविधि
॥२३॥नारंगं तत्र दत्त्वा तु शेषं पूर्ववदाचरेत् ॥
एवं कृते द्वितीये तु गोलक्षफलमाप्नुयात्
॥२४॥सोमवारे तृतीये तु अपामार्गसमुद्भवम् ॥
दंतकाष्ठादिकं कृत्वा त्रिनेत्रं च प्रपूजयेत्
॥२५॥फलं च दाडिमं दद्याज्जातीपुष्पैश्च पूजयेत् ॥
रजन्यामंगुरं प्राश्य सिद्धियुक्तं तु पूजयेत्
॥२६॥चतुर्थे सोमवारे तु काष्ठमौदुम्बरं स्मृतम् ॥
पूजयेत्तत्र गौरीशं सूक्ष्मया सहितं तथा
॥२७॥नारिकेलफलं दद्याद्दमनेन प्रपूजयेत् ॥
शर्करां प्राशयेद्रात्रौ जागरं चैव कारयेत्
॥२८॥पञ्चमे सोमवारे तु पूजयेच्च गणाधिपम् ॥
विभूत्या सहितं देवं कुन्दपुष्पैः प्रपूजयेत्
॥२९॥आश्वत्थं दन्तकाष्ठं च अर्घ्यं वै द्राक्षया तथा ॥
मोचं च प्राशयेद्रात्रावश्वमेधफलं लभेत्
॥३०॥षष्ठे सोमस्य वारे तु सुरूपं नाम पूजयेत् ॥
कर्पूरं प्राशयेत्तत्र भक्त्या परमया युतः
॥३१॥सप्तमे सोमवारे तु दन्तकाष्ठं च मल्लिका ॥
सर्वज्ञं पूजयेत्तत्र दीप्तया सहितं तथा
॥३२॥जम्बीरं च फलं दद्याज्जातीपुष्पैश्च पूजयेत् ॥
लवङ्गं प्राशयेत्तत्र तस्यानन्तफलं भवेत्
॥३३॥अष्टमे सोमवारे तु अमोघायुतमीश्वरम् ॥
कदलीफलकेनार्घ्यं मरुबकेन पूजयेत् ॥
रात्रौ तु प्राशयेद्दुग्धमग्निष्टोमफलं लभेत्
॥३४॥गंगास्नाने कृते सम्यक्कोटिधा यत्फलं स्मृतम् ॥
दशहेमसहस्राणां कुरुक्षेत्रे रवेर्ग्रहे
॥३५॥ब्राह्मणे वेदविदुषे यद्दत्त्वा फल माप्नुयात् ॥
तत्पुण्यं कोटिगुणितमस्मिन्नाचरिते व्रते
॥३६॥गजानां तु शते दत्ते लक्षे च रथवाजिनाम् ॥
तत्फलं कोटिगुणितं सोमवारव्रते कृते
॥३७॥गुग्गुलोर्धूपनं कृत्वा कोटिशो यत्फलं लभेत् ॥
तत्पुण्यं तु भवेत्तस्य सोमवारव्रते कृते
॥३८॥सर्वैश्वर्यसमायुक्तः शिवतुल्यपराक्रमः ॥
रुद्रलोके वसेत्तावद्ब्रह्मणः प्रलयावधि
॥३९॥संप्राप्ते नवमे वारे कुर्यादुद्यापनं शुभम् ॥
यथा भवति गन्धर्व तथा वक्ष्यामि तेऽधुना
॥४०॥मंडलं मंडपं कुण्डं पताकाध्वजशोभितम् ॥
तोरणानि च चत्वारि कुण्डं कृत्वा विधानतः
॥४१॥मध्ये वेदिः प्रकर्त्तव्या चतुरस्रा सुशोभना ॥
निष्पाद्य मंडलं तत्र मध्ये पद्मं प्रकल्पयेत्
॥४२॥कलशानष्टदिग्भागे सहिरण्यान्पृथक्पृथक् ॥
स्थापयित्वा तु शक्तिस्ता वामाद्याः पूर्वतः क्रमात्
॥४३॥कर्णिकायां तु पद्मस्य श्रीसोमेशं महाप्रभम् ॥
प्रतिमारूपसंपन्नं हेमजं शक्तिसंयुतम्
॥४४॥रुक्मशय्यासमारूढं मनोन्मन्या समन्वितम् ॥
हेमपात्रादिके पात्रे मधुना परिपूरिते
॥४५॥रुक्मशय्यासमाच्छन्ने तत्रस्थं पूजयेत्क्रमात् ॥
अनंतादिशिखंड्यंतैर्नामभिः क्रमशोऽर्चयेत्
॥४६॥गन्धस्रग्धूपदीपैश्च नैवेद्यैश्च पृथग्विधैः ॥
वस्त्रालंकारतांबूलच्छत्रचामरदर्प्पणम्
॥४७॥दीपघंटावितानं च पर्यंकं च सतू लिकम् ॥
सोमेश्वरं समुद्दिश्य देयं पौराणिके गुरौ
॥४८॥भूषयित्वा तथाऽऽचार्य्यं होमं तत्रैव कारयेत् ॥
बलिकर्मावसाने च रात्रौ तत्रैव जागृयात्
॥४९॥पञ्चगव्यं ततः पीत्वा ध्यायेत्सोमेश्वरं हृदि ॥
प्रभाते तु ततः स्नात्वा ध्यायेत्तं च विधानतः
॥५०॥ततो भक्त्या च गंधर्व क्षीरखण्डादिनिर्म्मितम् ॥
भक्ष्यभोज्यैरनेकैश्च भोजयेद्ब्राह्मणानथ
॥५१॥वस्त्रयुग्मं ततो दत्त्वा गां च दत्त्वा विसर्जयेत्
॥५२॥एवं चीर्णव्रतः सम्यग्लभते पुण्यमक्षयम् ॥
धनधान्यसमृद्धात्मा पुत्रदारसमन्वितः
॥५३॥न कुले जायते तस्य दरिद्रो दुःखितोऽपिवा ॥
अपुत्रो लभते पुत्रान्वन्ध्या पुत्रवती भवेत्
॥५४॥काकवंध्या तु या नारी मृतवत्सा च दुर्भगा ॥
कन्याप्रसूश्च या कार्यमाभिरेतद्विशेषतः
॥५५॥एवं कृते विधाने तु देहपाते शिवं व्रजेत् ॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
भुंक्तेऽसौ विपुलान्भो गान्यावदाभूतसंप्लवम्
॥५६॥इति ते कथितं सर्वं सोमवारव्रतं क्रमात् ॥
गच्छ शीघ्रं महाभाग यत्र सोमेश्वरः स्थितः
॥५७॥ईश्वर उवाच
इत्युक्तः सच गन्धर्वः पुत्र्या सह वरानने ॥
सर्वोपहारसंयुक्तः प्रभासक्षेत्रमाश्रितः
॥५८॥तत्र सोमेश्वरं दृष्ट्वा आनन्दाश्रुपरिप्लुतः ॥
यात्राक्रमेण संपूज्य चक्रे सोमव्रतं क्रमात्
॥५९॥पुत्र्या सह महाभागस्तस्य तुष्टो महेश्वरः ॥
सर्वरोगविनाशं च सर्वकामसमृद्धिदम् ॥
ददौ गन्धर्वराज्यं च भक्तिं चैवात्मनस्तथा
॥६९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये सोमेश्वरमाहात्म्यवर्णने गन्धर्वकन्यावृत्तान्तवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥