मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १५७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 157

सत्यभामेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि सत्यभामेश्वरं शुभम् ॥

रत्नेश्वराद्दक्षिणे तु धनुषांतरमास्थितम्

॥१॥

सर्वपापप्रशमनं स्थापितं सत्यभामया ॥

कृष्णस्य कान्तया देवि रूपौदार्यसमेतया

॥२॥

स्नात्वा तद्वैष्णवं स्थानं नृणां पातकनाशनम्

॥३॥

माघे मासि तृतीयायां नारी वा पुरुषोऽपि वा ॥

यस्तं पूजयते भक्त्या स मुक्तः पातकैर्भवेत्

॥४॥

दौर्भाग्यदुःखशोकेभ्यस्तथा विघ्नैश्च दुःखितः ॥

मुच्यते नात्र संदेहः सत्यभामान्वितो भवेत्

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सत्यभामेश्वरमाहात्म्यवर्णनंनाम सप्तपञ्चाशदुत्तरशततमोऽध्यायः ॥ १५७ ॥