सोमवरप्रदानवर्णनम्
ईश्वर उवाच
दक्षेणैवमनुज्ञातः शोचन्कर्म स्वकं तदा ॥
दुःखशोकपरीतात्मा प्रभासं क्षेत्रमागतः
॥१॥स गत्वा दक्षिणं तीरं सागरस्य समीपतः ॥
ददर्श पर्वतं तत्र कृतस्मरमिति श्रुतम्
॥२॥यक्षविद्याधराकीर्णं किन्नरैरुपशोभितम् ॥
चंदनागुरुकर्पूरैरशोकैस्तिलकैः शुभैः
॥३॥कल्हारैः शतपत्रैश्च पुष्पितैः फलितैः शुभैः ॥
आम्रजम्बूकपित्थैश्च दाडिमैः पनसैस्तथा
॥४॥निंबुजम्बीरनागैश्च कदलीखंडमंडितैः ॥
क्रमुकैर्नागवल्ल्याद्यैः शालैस्तालैस्तमालकैः
॥५॥बीजपूरकखर्जूरैर्द्राक्षामधुरपाटलैः ॥
बिल्वचंपकतिंद्वाद्यैः कदंबककुभैस्तथा
॥६॥धवाशोकशिरीषाद्यैर्नानावृक्षैश्च शोभितम् ॥
कामं कामफलैर्वृक्षैः पुष्पितैः फलितैः शुभैः
॥७॥हंसकारंडवाकीर्णं चक्रवाकोपशोभितम् ॥
कोकिलाभिः शुकैश्चैव नानापक्षिनिनादि तम्
॥८॥जातिस्मराः पक्षिणश्च व्याजह्रुर्मानुषीं गिरम् ॥
गंधर्वकिंनरयुगैः सिद्धविद्याधरोरगैः [
॥९॥क्रीडद्भिर्विविधैर्दिव्यैः शोभितं पर्वतोत्तमम् ॥
देवगंधर्वनृत्यैश्च वेणुवीणानिनादितम्
॥१०॥वेदध्वनितघोषेण यज्ञहोमाग्निहोत्रजैः ॥
समावृतं सर्वमाज्यगंधिभिरुच्छ्रितम्
॥११॥शोभितं चर्षिभिर्दिव्यैश्चातुर्विद्यैर्द्विजोत्तमैः ॥
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः
॥१२॥भृगुश्चैव मरीचिश्च भरद्वाजोऽथ कश्यपः ॥
मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ
॥१३॥आपस्तंबोऽथ संवर्तः कात्यः कात्यायनो मुनिः ॥
गौतमः शंखलिखितौ तथा वाचस्पतिर्मुनिः
॥१४॥जामदग्न्यो याज्ञवल्क्य ऋष्यशृंगो विभांडकः ॥
गार्ग्यशौनकदाल्भ्याश्च व्यास उद्दालकः शुकः
॥१५॥नारदः पर्वतश्चैव दुर्वासा उग्रतापसः ॥
शाकल्यो गालवश्चैव जाबालिर्मुद्गलस्तथा
॥१६॥विश्वामित्रः कौशिकश्च जह्नुर्विश्वावसुस्तथा ॥
धौम्यश्चैव शतानन्दो वैशंपायनजिष्णवः
॥१७॥शाकटायनवार्द्धिक्यावग्निको बादरायणः ॥
वालखिल्या महात्मानो ये च भूमण्डले स्थिताः
॥१८॥ते सर्वे तत्र तिष्ठंति पर्वते तु कृतस्मरे ॥
तेजस्विनो ब्रह्मपुत्रा ऋषयो धार्मिकाः प्रिये
॥१९॥ज्वलंतस्तपसा सर्वे निर्द्धूमा इव पावकाः ॥
मासोपवासिनः केचित्केचित्पक्षोपवासिनः
॥२०॥त्रैरात्रिकाः सांतपना निराहारास्तथा परे ॥
केचित्पुष्प फलाहाराः शीर्णपर्णाशिनस्तथा
॥२१॥केचिद्गोमयभक्षाश्च जलाहारास्तथा परे ॥
साग्निहोत्राः सुविद्वांसो मोक्षमार्गार्थचिन्तकाः
॥२२॥इति हासपुराणादिश्रुतिस्मृतिविशारदाः ॥
एते चान्ये च बहवो मार्कंडेयपुरोगमाः
॥२३॥प्रभासं क्षेत्रमासाद्य संस्थिता कृतपर्वते ॥
एवं कृतस्मरस्तत्र सर्वदेवनिषेवितः ॥
मन्वंतरेस्मिन्यो देवि निर्दग्धो वडवाग्निना
॥२४॥तं दृष्ट्वा पर्वतं रम्यं दृष्ट्वा चैव महोदधिम् ॥
प्रदक्षिणं ततश्चक्रे सप्तकृत्वो निशाकरः ॥
गिरेः प्रदक्षिणां कृत्वा गतो यत्र महेश्वरः
॥२५॥समीपे तु समुद्रस्य स्पर्शलिंगस्वरूपवान् ॥
प्रसादयामास विभुं प्रसन्नेनांतरात्मना
॥२६॥मरणं वेति संध्याय शरणं वा महेश्वरम् ॥
वरं शापाभिघातार्थं मृत्युं वा शंकरान्मम
॥२७॥इति सोमो मतिं कृत्वा तपसाऽऽ राधयञ्छिवम् ॥
यावद्वर्षसहस्रं तु फलमूलाशनोऽभवत्
॥२८॥पूर्णे वर्षसहस्रे तु चतुर्थे वरवर्णिनि ॥
तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह
॥२९॥परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत ॥
किं ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम्
॥३०॥एवं प्रत्यक्षमापन्नं दृष्ट्वा देवं वृषध्वजम् ॥
प्रणम्य तं यथाभक्त्या स्तुतिं चक्रे निशाकरः
॥३१॥चंद्र उवाच
ॐ नमो देवदेवाय शिवाय परमात्मने ॥
अप्रमेयस्वरूपाय ब्यक्ताव्यक्तस्वरूपिणे
॥३२॥त्वं पतिर्योगिनामीश त्वयि सर्वं प्रतिष्ठितम् ॥
त्वं यज्ञस्त्वं वषट्कारस्त्वमोंकारः प्रजापतिः
॥३३॥चतुर्विंशत्यधिकं च भुवनानां शतद्वयम् ॥
तस्योपरि परं ज्योतिर्जागर्ति तव केवलम्
॥३४॥कल्पांत आदिवाराहमुक्तब्रह्मांडसंस्थितौ ॥
आधारस्तंभभूताय तेजोलिंगाय ते नमः
॥३५॥नमोऽनामयनाम्ने ते नमस्ते कृत्तिवाससे ॥
नमो भैरवनाथाय नमः सोमेश्वराय ते
॥३६॥इति संज्ञाभिरेताभिः स्तुत्याभिरमृतेश्वरः ॥
भूतैर्भव्यैर्भविष्यैश्च स्तूयसे सुरसत्तमैः
॥३७॥आद्यो विरंचिनामाभूद्ब्रह्मा लोकपितामहः ॥
मृत्युञ्जयेति ते नाम तदाऽभूत्पार्वतीपते
॥३८॥द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः ॥
तदा कालाग्निरुद्रेति तव नाम प्रकीर्तितम्
॥३९॥तृतीयोऽभूद्यदा ब्रह्मा स्वयंभूरिति विश्रुतः ॥
अमृतेशेति ते नाम कीर्तितं कीर्तिवर्द्धनम्
॥४०॥चतुर्थोऽभूद्यदा ब्रह्मा परमेष्ठीति विश्रुतः ॥
अनामयेति देवेश तव नाम स्मृतं तदा
॥४१॥पंचमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति श्रुतः ॥
कृत्तिवासेति ते नाम बभूव त्रिपुरांतक
॥४२॥षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति स्मृतः ॥
तदा भैरवनाथेति तव नाम प्रकीर्तितम्
॥४३॥अधुना वर्त्तते योऽसौ शतानंद इति श्रुतः ॥
आदिसोमेन यश्चासौ वामनेत्रोद्भवेन ते
॥४४॥प्रतिष्ठार्थं तु लिंगस्य आनीतश्चाष्टवार्षिकः ॥
बालरूपी तदा तेन सोमनाथेति कीर्तितम्
॥४५॥तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम्
॥१४॥सहस्रद्वितयं चैव शतं चैव षडुत्तरम्
॥४६॥सप्तमोऽहं महादेव आत्रेय इति विश्रुतः ॥
प्राचेतसेन दक्षेण शप्तस्त्वां शरणं गतः ॥
रक्ष मां देवदेवेश क्षयिणं पापरोगिणम्
॥४७॥इति संस्तुवतस्तस्य चंद्रस्य करुणाकरः ॥
तुतोष भगवान्रुद्रो वाक्यं चेदमुवाच ह
॥४८॥परितुष्टोऽस्मि ते चंद्र वरं वरय सुव्रत ॥
कि ते कामं करोम्यद्य ब्रूहि यत्स्यात्सुदुर्ल्लभम्
॥४९॥मम नामानि गुह्यानि मम प्रियतराणि च ॥
पठिष्यंति नरा ये तु दास्ये तेषां मनोगतम्
॥५०॥अतीता ये चंद्रमसो भविष्यंति च येऽधुना ॥
तेषां पूज्यमिदं लिंगं यावदन्योऽष्टवार्षिकः
॥५१॥आः परं चतुर्वक्त्रो ब्रह्मा यो भविता यदा ॥
प्राणनाथेति देवस्य तदा नाम भविष्यति
॥५२॥प्राणास्तु वायवः प्रोक्तास्तदाराधननाम तत् ॥
प्राणनाथेति संप्रोक्तं मेऽधुना तद्भविष्यति
॥५३॥तस्मादग्नीशनामेति कालरुद्रेत्यनंतरम् ॥
तारकेति ततो नाम भविष्यत्येव कीर्तितम्
॥५४॥मृत्युञ्जयेति देवस्य भविता तदनंतरम् ॥
त्र्यंबकेशस्त्वितीशेति भुवनेशेत्यनन्तरम्
॥५५॥भूतनाथेति घोरेति ब्रह्मेशेत्यथ नामकम् ॥
भविष्यं पृथिवीशेति आदिनाथेत्यनंतरम्
॥५६॥कल्पेश्वरेति देवस्य चंद्रनाथेत्यनन्तरम् ॥
नाम देवस्य यद्भावि सांप्रतं ते प्रकाशितम् ॥
५७ [।
इत्येवमादि नामानि स्वसंख्यातानि षोडश ॥
गतानि संभविष्यंति कालस्यानंतभावतः
॥५८॥एकैकं वर्तते नाम ब्रह्मणः प्रलयावधि ॥
ततोन्यज्जायते नाम यथा नामानुरूपतः
॥५९॥अथ किं बहुनोक्तेन रहस्यं ते प्रकाशितम् ॥
वत्स यत्कारणेनेह तपस्तप्तं त्वयाऽखिलम् ॥
तन्मे निःशेषतो ब्रूहि दास्ये तुष्टोऽस्मि ते वरम्
॥६०॥चन्द्र उवाच
अहं शप्तस्तु दक्षेण कस्मिंश्चित्कारणांतरे ॥
यक्ष्मणा च क्षयं नीतस्तस्मात्त्वं त्रातुमर्हसि
॥६१॥शंभुरुवाच
अधुना भोः समं पश्य सर्वास्ता दक्षकन्यकाः ॥
क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति
॥६२॥पूर्वोचितां प्रभां सोम प्राप्स्यसे मत्प्रसादतः ॥
प्राचेतसस्य दक्षस्य तपसा हतपाप्मनः
॥६३॥तस्यान्यथा वचः कर्तुं शक्यं नान्यैः सुरैरपि ॥
ब्राह्मणाः कुपिता हन्युर्भस्मीकुर्युः स्वतेजसा
॥६४॥देवान्कुर्युरदेवांश्च नाशयेयुरिदं जगत् ॥
ब्राह्मणाश्चैव देवाश्च तेज एकं द्विधा कृतम्
॥६५॥प्रत्यक्षं ब्राह्मणा देवाः परोक्षं दिवि देवताः ॥
न विना ब्राह्मणा देवैर्न देवा ब्राह्मणैर्विना
॥६६॥एकत्र मन्त्रा स्तिष्ठन्ति तेज एकत्र तिष्ठति ॥
ब्राह्मणा देवता लोके ब्राह्मणा दिवि देवताः ॥
त्रैलोक्ये ब्राह्मणाः श्रेष्ठा ब्राह्मणा एव कारणम्
॥६७॥पितुर्नियुक्ताः पितरो भवंति क्रियासु दैवीषु भवंति देवाः ॥
द्विजोत्तमा हस्तनिषक्ततोयास्तेनैव देहेन भवंति देवाः
॥६८॥षट्क र्मतत्त्वाभिरतेषु नित्यं विप्रेषु वेदार्थकुतूहलेषु ॥
न तेषु भक्त्या प्रविशंति घोरं महाभयं प्रेतभवं कदाचित्
॥६९॥यद्ब्राह्मणाः स्तुत्यतमा वदन्ति तद्देवता कर्मभिराचरंति ॥
तुष्टेषु तुष्टाः सततं भवन्ति प्रत्यक्षदेवेषु परोक्षदेवाः ॥
7.1.22.७० [।
यथा रुद्रा यथा देवा मरुतो वसवोऽश्विनौ ॥
ब्रह्मा च सोमसूर्यौ च तथा लोके द्विजोत्तमाः
॥७१॥देवाधीनाः प्रजाः सर्वा यज्ञाधीनाश्च देवताः ॥
ते यज्ञा ब्राह्मणाधीनास्तस्माद्देवा द्विजोत्तमाः
॥७२॥ब्राह्मणानर्चयेन्नित्यं ब्राह्मणांस्तर्पयेत्सदा ॥
ब्राह्मणास्तारका लोके ब्राह्मणात्स्वर्गमश्नुते
॥७३॥अभेद्यमच्छेद्यमनादिमक्षयं विधिं पुराणं परिपालयन्ति ॥
महामतिस्तानभिपूज्य वै द्विजान्भवेदजेयो दिवि देवराडिव
॥७९॥शक्यं हि कवचं भेत्तुं नाराचेन शरेण वा ॥
अपि वज्र सहस्रेण ब्राह्मणाशीः सुदुर्भिदा
॥७५॥हुतेन शाम्यते पापं हुतमन्नेन शाम्यति ॥
अन्नं हिरण्यदानेन हिरण्यं ब्राह्मणाशिषा
॥७६॥य इच्छेन्नरकं गंतुं सपुत्रपशुबांधव ॥
देवेष्वधिकृतं कुर्याद्ब्राह्मणेषु च गोषु च
॥७७॥ब्राह्मणान्द्वेष्टि यो मोहाद्देवान्गाश्च मखान्यदि ॥
नैव तस्य परो लोको नाऽयं लोको दुरात्मनः
॥७८॥अनिन्द्या ब्राह्मणा गावः कांचनं सलिलं स्त्रियः ॥
पृथिवी तु षडेतानि यो निन्दति स पातकी
॥७९॥अग्रं धर्मस्य राजानो मूलं धर्मस्य ब्राह्मणाः ॥
तस्मान्मूलं न हिंसीत मूले ह्यग्रं प्रतिष्ठितम्
॥८०॥फलं धर्मस्य राजानः पुष्पं धर्मस्य ब्राह्मणाः ॥
तस्मात्पुष्पं न हिंसीत पुष्पात्संजायते फलम्
॥८१॥राजा वृक्षो ब्राह्मणास्तस्य मूलं पौराः पर्णं मन्त्रिणस्तस्य शाखाः ॥
तस्माद्राज्ञा ब्राह्मणा रक्षणीया मूले गुप्ते नास्ति वृक्षस्य नाशः
॥८२॥आसन्नो हि दहत्यग्निर्दूराद्दहति ब्राह्मणः ॥
प्ररोहत्यग्निना दग्धं ब्रह्मदग्धं न रोहति
॥८३॥ब्राह्मणानां च शापेन सर्वभक्षो हुताशनः ॥
समुद्रश्चाप्यपेयस्तु विफलश्च पुरंदरः
॥८४॥त्वं चन्द्र राजयक्ष्मी च पृथिव्यामूषराणि च ॥
सूर्याचन्द्रमसोः पातः पुनरुद्धरणं तयोः
॥८५॥वनस्पतीनां निर्यासो दानवानां पराजयः ॥
नागानां च वशीकारः क्षत्रस्योत्सादनं तथा ॥
देवोत्पत्ति विपर्यासो लोकानां च विपर्ययः
॥८६॥एवमादीनि तेजांसि ब्राह्मणानां महात्मनाम् ॥
तस्माद्विप्रेषु नृपतिः प्रणमेन्नित्यमेव च
॥८७॥परा मप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ॥
ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम्
॥८८॥प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥
एवं विद्वानविद्वान्वा ब्राह्मणो दैवतं महत्
॥८९॥श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ॥
हूयमानश्च यज्ञेषु भूय एवाभिवर्द्धते
॥९०॥एवं यद्यप्य निष्टेषु वर्त्तते सर्वकर्मसु ॥
सर्वेषां ब्राह्मणः पूज्यो दैवतं परमं महत्
॥९१॥क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणानां प्रभावतः ॥
ब्राह्मं हि परमं पूज्यं क्षत्रं हि ब्रह्मसंभवम्
॥९२॥अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ॥
तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति
॥९३॥यान्समाश्रित्य तिष्ठन्ति देवलोकाश्च सर्वदा ॥
ब्रह्मैव वचनं येषां को हिंस्यात्ताञ्जिजीविषुः
॥९४॥म्रियमाणोऽप्याददीत न राजा ब्राह्मणात्करम् ॥
न च क्षुधा ऽस्य संसीदेद्ब्राह्मणो विषये वसन्
॥९५॥यस्य राज्ञश्च विषये ब्राह्मणः सीदति क्षुधा ॥
तस्य तच्छतधा राष्ट्रमचिरादेव सीदति
॥९६॥यद्राजा कुरुते पापं प्रमादाद्यच्च विभ्रमात् ॥
वसन्तो ब्राह्मणा राष्ट्रे श्रोत्रियाः शमयन्ति तत्
॥९७॥पूर्वरात्रांतरात्रेषु द्विजैर्यस्य विधीयते ॥
स राजा सह राष्ट्रेण वर्धते ब्रह्मतेजसा
॥९८॥ब्राह्मणान्पूजयेन्नित्यं प्रातरुत्थाय भूमिपः ॥
ब्राह्मणानां प्रसादेन दीव्यन्ति दिवि देवताः
॥९९॥अथ किं बहुनोक्तेन ब्राह्मणा मामकी तनुः ॥
ये केचित्सागरांतायां पृथिव्यां कीर्तिता द्विजाः ॥
तदूपं देवदेवस्य शिवस्य परमात्मनः
॥१००॥एतान्द्विषंति ये मूढा ब्राह्मणान्संशितव्रतान् ॥
ते मां द्विषंति वै नूनं पूजनात्पूजयन्ति माम्
॥१०१॥न प्रद्वेषस्ततः कार्यो ब्राह्मणेषु विजानता ॥
प्रद्वेषेणाशु नश्यन्ति ब्रह्मशापहता नराः
॥१०२॥इत्येवं कथितश्चन्द्र ब्राह्मणानां गुणार्णवः ॥
कुरुष्वानन्तरं कार्य्यं यद्ब्रवीम्यहमेव ते
॥१०३॥शापस्यानुग्रहो दत्तो मया तव निशाकर ॥
न चान्यथा वचः कर्त्तुं शक्यं तेषां द्रिजन्मनाम्
॥१०४॥शापानुग्रहदैः सर्वै देवैरपि सवासवैः ॥
तस्माच्चन्द्र त्वया शोको नैव कार्यो विजानता
॥१०८५॥क्षयस्ते भविता पक्षं पक्षं वृद्धिर्भविष्यति ॥
अथान्यद्वचनं चन्द्र शृणु कार्यं यथा त्वया
॥१०६॥इदं यत्सागरोपांते तिष्ठते लिंगमुत्तमम् ॥
धरामध्यगतं तच्च देवानां दृष्टिगोचरम्
॥१०७॥कुक्कुटांडसमप्रख्यं सर्पमेखलमंडितम् ॥
ममाद्यं परमं तेजो न चान्यो वेद कश्चन
॥१०८॥इतः सागरमध्ये तु धनुषां च शतत्रये ॥
तिष्ठते तत्र लिंगं तु सुगुप्तं लक्षणान्वितम्
॥१०९॥आदिकल्पे महर्षीणां शापेन पतितं मम ॥
लिंगं सागरमध्ये तु तत्त्वं शीघ्रं समानय
॥११०॥स्पर्शाख्यं यत्र मे लिंगं तत्र स्थाने निवेशय ॥
निवेश्य तु प्रयत्नेन सहितो विश्वकर्मणा
॥१११॥ततो ब्रह्माणमाहूय समेतं तु मुनीश्वरैः ॥
प्रतिष्ठां कारय विभो इष्ट्वा तत्र महामखैः
॥११२॥एवमुक्त्वा स भगवांस्तत्रैवांतरधीयत ॥
ततः प्रभां पुनर्लेभे रात्रिनाथो वरानने
॥११३॥ततः प्रभृति तत्क्षेत्रं प्रभासमिति विश्रुतम् ॥
निष्प्रभस्य प्रभा दत्ता प्रभासं तेन चोच्यते
॥११४॥दक्षस्य तु वृथा शापो न कृतस्तेन लांछनम् ॥
सोमः प्रभासते लोकान्वरं प्राप्य महेश्वरात् ॥
व्यक्तीभूतः स देवेशः सोमस्यैव महात्मनः
॥११५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमवरप्रदानवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥