सोमवारव्रतमाहात्म्यवर्णनम्
देव्युवाच
कस्मिन्काले जगन्नाथ तत्र लिंगं प्रतिष्ठितम् ॥
कथमाराधनं चक्रे कृतार्थो रोहिणीपतिः
॥१॥ईश्वर उवाच
त्रेतायुगे च दशमे मनोर्वैवस्वतस्य हि ॥
संजातो रोहिणीनाथो युक्तो दुर्वाससा प्रिये
॥२॥तस्मिन्काले तदा तत्र गते वर्षसहस्रके ॥
ततः कृत्वा तपश्चायं प्रत्यक्षीकृतशंकरः
॥३॥लिंगं प्रतिष्ठयामास ब्रह्मणा लोककर्तॄणा ॥
पुनर्वर्षसहस्रं तु पूजयामास शंकरम्
॥४॥ततः संपूज्य विधिना निजकार्यार्थसिद्धये ॥
स्तुतिं चक्रे निशानाथः प्रत्यक्षीकृतशंकरः
॥५॥चंद्र उवाच
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः ॥
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः
॥६॥यं पठंति सदा सांख्याश्चितयंति च योगिनः ॥
परं प्रधानं पुरुषं तस्मै ज्ञेयात्मने नमः
॥७॥उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः ॥
देवासुरमनुष्याणां तस्मै ज्ञानात्मने नमः
॥८॥यमव्ययमनाद्यंतं यं नित्यं शाश्वतं ध्रुवम् ॥
निष्कलं परमं ब्रह्म तस्मै योगात्मने नमः
॥९॥यः पवित्रं पवित्राणामादिदेवो महेश्वरः ॥
पुनाति दर्शनादेव तस्मै तीर्थात्मने नमः
॥१०॥यतः प्रवर्त्तते सर्वं यस्मिन्सर्वं विलीयते ॥
पालयेद्यो जगत्सर्वं तस्मै सर्वात्मने नमः
॥११॥अनिष्टोमादिभिर्यज्ञैर्यं यजंति द्विजातयः ॥
संपूर्णदक्षिणैरेव तस्मै यज्ञात्मने नमः
॥१२॥ईश्वर उवाच
एवं स संस्तुते यावद्दिवारात्रौ निशाकरः ॥
अब्रवीद्भगवान्प्रीतः प्रहसन्निव शंकरः
॥१३॥शंकर उवाच
परितुष्टोऽस्मि ते वत्स स्तोत्रेणानेन शीतगो ॥
वरं वरय भद्रं ते भूयो यत्ते मनोगतम्
॥१४॥चंद्र उवाच
यदि देयो वरोऽस्माकं यदि तुष्टोऽसि मे प्रभो ॥
सांनिध्यं कुरु देवेश लिंगेऽस्मिन्सर्वदा विभो
॥१५॥ये त्वां पश्यंति चात्रस्थं भक्त्या परमया युताः ॥
तेषां तु परमा सिद्धिस्त्वत्प्रसादात्सुरेश्वर
॥१६॥शंभुरुवाच
अग्रे तु मम सांनिध्यमस्मिँल्लिंगे महाप्रभो ॥
विशेषतोऽधुना चंद्र तव भक्त्या निरंतरम्
॥१७॥स्थातव्यमद्यप्रभृति क्षेत्रेऽस्मिन्नुमया सह ॥
यस्मात्त्वया प्रभा लब्धा क्षेत्रेऽस्मिन्मत्प्रसादतः ॥
तस्मात्प्रभासमित्येवं नामास्य प्रभविष्यति
॥१८॥यस्मात्प्रतिष्ठितं लिंगं त्वया सोम शुभं मम ॥
सोमनाथेति मे नाम तस्मात्ख्यातिं गमिष्यति
॥१९॥यन्ममाग्रेतनं नामख्यातं ब्रह्मावसानिकम् ॥
सोमनाथेति च पुनस्तदेव प्रचरिष्यति ॥
द्रक्ष्यंति हि नरा ये मामत्रस्थं भक्तितत्पराः
॥२०॥शृणु तेषां फलं वत्स भविष्यति निशाकर ॥
न तेषां जायते व्याधिर्न दारिद्र्यं न दुर्गतिः ॥
न चेष्टेन वियोगश्च मम चंद्र प्रभावतः
॥२१॥यात्रां कुर्वंति ये भक्त्या मम दर्शनकांक्षिणः ॥
पदे पदेश्वमेधस्य तेषां फलमुदाहृतम्
॥२२॥किं कृतैर्बहुभिर्यज्ञैरुपवासैर्निशाकर ॥
सकृत्पश्यंति मां येऽत्र ते सर्वे लेभिरे फलम्
॥२३॥एकमासोपवासं तु कुरुते भक्तितत्परः ॥
यावद्वर्षसहस्रं तु एकः पश्यंति मामिह
॥२४॥द्वाभ्यामपि फलं तुल्यं नास्ति काचिद्विचारणा
॥२५॥एको भवेद्ब्रह्मचारी यावज्जीवं निशाकर ॥
सकृत्पश्यति मामत्र समं ताभ्यां फलं स्मृतम्
॥२६॥एको दानानि सर्वाणि प्रयच्छति द्विजातये ॥
एकः पश्यति मामत्र समं ताभ्यां फलं स्मृतम्
॥२७॥एको व्रतानि सर्वाणि कुरुते मृगलांछन ॥
अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम्
॥२८॥एकस्तीर्थानि कुरुते जपजाप्यानि भूरिशः ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्
॥२९॥एको ज्ञानादियोगेन मुमुक्षुर्जायते ध्रुवम् ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्
॥३॥एकस्तु भृगुपातेन याति मृत्युं निशाकर ॥
अन्यः पश्यति मामत्र समं ताभ्यां फलं स्मृतम्
॥३१॥एकः स्नाति सदा माघं प्रयागे नरसत्तमः ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम् ३२ ॥
एकः पिण्डप्रदानं च पितृतीर्थे समाचरेत् ॥
अन्यः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्
॥३३॥गोसहस्रप्रदो ह्येको ब्राह्मणे वेदपारगे ॥
एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्
॥३४॥पञ्चाग्निं साधयेदेको ग्रीष्मकाले सुदारुणे ॥
एकः पश्यति मामत्र फलं ताभ्यां समं स्मृतम्
॥३५॥स्नातः सोमग्रहे चन्द्र सोमवारे च भक्तितः ॥
यो मां पश्यति सर्वेषामेतेषां लभते फलम्
॥३६॥सरस्वती समुद्रश्च सोमः सोमग्रहस्तथा ॥
दर्शनं सोमनाथस्य सकाराः पञ्च दुर्ल्लभाः
॥३७॥नैरंतर्येण षण्मासान्विधिना यः प्रपूजयेत् ॥
पुण्यं तदेव सफलं लभते विषुवार्चनात्
॥३८॥एतदेव तु विज्ञेयं ग्रहणे चोत्तरायणे ॥
संक्रांतिदिनच्छिद्रेषु षडशीतिमुखेषु च
॥३९॥मासैश्चतुर्भिर्यत्पुण्यं विधिनाऽऽपूज्य शंकरम् ॥
कार्त्तिक्यां स लभेत्पुण्यं चैत्र्यां तद्द्विगुणं स्मृतम् ॥
पुण्यमेतत्तु फाल्गुन्यामाषाढ्यामेवमेव तु
॥४०॥एको दद्याद्गवां लक्षं दोग्ध्रीणां वेदपारगे ॥
एको ममार्चयेल्लिंगं तस्य पुण्यं ततोऽधिकम्
॥४१॥मासेमासे च योऽश्नीयाद्यावज्जीवं सुरेश्वरि ॥
यश्चार्च्चयेत्सकृल्लिंगं सममेतन्न संशयः
॥४२॥तपःशीलगुणोपेते पात्रे वेदस्य पारगे ॥
सुवर्णकोटिं यद्दत्त्वा तत्फलं कुसुमेन तु
॥४३॥अर्कपुष्पेऽपि चैकस्मिञ्छिवाय विनिवेदिते ॥
दश दत्त्वा सुवर्णानि यत्फलं तदवाप्नुयात्
॥४४॥अर्कपुष्पसहस्रेभ्यः करवीरं विशिष्यते ॥
करवीर सहस्रेभ्यो द्रोणपुष्पं विशिष्यते
॥४५॥द्रोणपुष्पसहस्रेभ्यो ह्यपामार्गं विशिष्यते ॥
अपामार्गसहस्रेभ्यः कुशपुष्पं विशिष्यते ॥
कुशपुष्प सहस्रेभ्यः शमीपुष्पं विशिष्यते
॥४६॥शमीपुष्पं बृहत्याश्च कुसुमं तुल्यमुच्यते ॥
करवीरसमा ज्ञेया जातीविजयपाटलाः
॥४७॥श्वेतमंदार कुसुमं सितंपद्मसमं भवेत् ॥
नागचंपकपुन्नागधत्तूरकुसुमं स्मृतम्
॥४८॥केतकीजातिमुक्तं च कन्दयूथीमदन्तिकाः ॥
शिरीषसर्जजंबूककुसुमानि विवर्ज्जयेत्
॥४९॥आकुलीकुसुमं पत्रं करंजेन्द्रसमुद्भवम् ॥
बिभीतकानि पुष्पाणि कुसुमानि विवर्ज्जयेत्
॥५०॥कनकानि कदंबानि रात्रौ देयानि शंकरे ॥
देवशेषाणि पुष्पाणि दिवा रात्रौ च मल्लिका
॥५१॥प्रहरं तिष्ठते मल्ली करवीरमहर्निशम् ॥
कीटकेशापविद्धानि रात्रौ पर्युषितानि च
॥५२॥स्वयं पतितपुष्पाणि त्यजेदुपहतानि च ॥
तुलसी शतपत्रं च गन्धारी दमनस्तथा
॥५३॥सर्वासां पत्रजातीनां श्रेष्ठो मरुबकः स्मृतः ॥
एतैः पुष्पविशेषैस्तु पूज्यः सोमेश्वरः सदा
॥५४॥यात्रायाः फलमाप्नोति स्वर्गलोके महीयते ॥
एतावदुक्त्वा वचनं तत्रैवान्तरधीयत
॥५५॥चन्द्रमा यक्ष्मणा मुक्तः स्वस्थाननिरतोऽभवत् ॥
आहूय विश्वकर्माणं प्रासादं पर्यकल्पयत् ॥
शुद्धस्फटिकसंकाशं गोक्षीरधवलोज्ज्वलम्
॥५६॥प्रासादं मेरुनामानं हेमप्राकारतोरणम् ॥
चतुर्दशान्ये परितः प्रासादाः परिकल्पिताः ॥
तेषां नामानि वक्ष्यामि प्रत्येकं तानि मे शृणु
॥५७॥केसरी सर्वतोभद्रो नदनो नन्दिशालकः ॥
नन्दीशो मन्दरश्चैव श्रीवृक्षो ह्यमृतोद्भवः
॥५८॥हिमवान्हेमकूटश्च कैलासः पृथिवीजयः ॥
इन्द्रनीलो महानीलो भूधरो रत्नकूटकः
॥५९॥वैडूर्यः पद्मरागश्च वज्रको मुकुटोज्ज्वलः ॥
ऐरावतो राजहंसो गरुडो वृषभस्तथा
॥६०॥मेरुः प्रासादराजा च देवानामालयो हि सः ॥
आदौ पञ्चाण्डको ज्ञेयः केसरीनामतः स्थितः
॥६१॥चतुर्थांशा च तद्वृद्धिर्यावन्मेरुः प्रकीर्तितः
॥६२॥एवं पृथक्कारयित्वा प्रासादांश्च चतुर्दश ॥
ब्रह्मादीनां देवतानां समीपस्थानवासिनाम्
॥६३॥दश चान्यान्भूधरादीन्वृषभान्तान्वरानने ॥
आदौ कपर्द्दिनं कृत्वा प्रासादान्पर्यकल्पयत्
॥६४॥मेरुः प्रासादराजो वै स तु सोमेश्वरे कृतः ॥
त्रेतायुगे तु दशमे मनोवैर्वस्वतस्य च
॥६५॥कारयित्वा मंडपांश्च प्रतिष्ठाप्य यथाविधि ॥
नदानां तु शतं कृत्वा वापीकूप सहस्रकम्
॥६६॥गृहाणां तु सहस्राणि दीनानाथाश्रयाणि च ॥
कारयित्वा विधानेन विप्रेभ्यः प्रददौ पृथक्
॥६७॥निवेश्य नगरं सोमः श्रीसोमेश्वरसन्निधौ ॥
स्वकर्मणां प्रचारार्थमथाभ्यर्थयत द्विजान्
॥६८॥सोमोऽस्मि भवतां राजा प्रसादात्परमेष्ठिनः ॥
तथापि विनयेनैव भक्त्या विज्ञापयामि वः
॥६९॥धनं हिरण्यरत्नादि धान्यं व्रीहियवादिकम् ॥
गोमहिष्यादिपशवो वस्त्राणि विविधानि च
॥७०॥कदलीनालिकेराणि तांबूलीपूगमालिनः ॥
मनोऽभिरामचरमा आरामाः परितः स्थिताः
॥७१॥जंबूद्वीपाधिपाः सर्वे भवतामत्रवासि नाम् ॥
आदेशं च करिष्यंति शिरस्याधाय शोभनम्
॥७२॥द्वीपांतरादागतैश्च कर्पूरागुरुचंदनैः ॥
अन्यैश्च विविधैर्द्रव्यैः संपूर्णा भवतां गृहाः
॥७३॥पण्यानां शतसंख्यानां व्यवहारनिदर्शिनः ॥
ब्रह्मोत्तराणि तन्वंति वणिजो लाभकांक्षिणः
॥७४॥भवत्सु भृत्यभावेन वर्त्तमाना हितैषिणः ॥
ते चान्ये च तथा पौरा नावसीदंति कर्हिचित्
॥७५॥एवं संपूर्णविभवैर्भवद्भिः श्रेयसे मम ॥
क्रतुक्रिया वितन्यंतां विधिवद्भूरिदक्षिणाः
॥७६॥ब्रह्मादीनि च सर्वाणि प्रवर्तंतामहर्निशम् ॥
दीनांधकृपणादीनां क्रियतामार्तिनाशनम्
॥७७॥अभ्यागतानामौचित्यादातिथ्यं च विधीयताम् ॥
तीर्थयात्राप्रसंगेन समेतानां महात्मनाम्
॥७८॥ब्रह्मर्षीणामाश्रमेषु दीयतामाश्रयाः सदा ॥
मयात्र स्थापितं लिंगं सर्वकालं दृढव्रताः
॥७९॥पवित्रैरुपचारैश्च पूजयंतु द्विजोत्तमाः ॥
अष्टौ प्रमाणपुरुषाः पौराणां कार्यदर्शिनः
॥८०॥व्यवहारानवेक्षध्वं स्मृत्याचारविशारदाः ॥
व्यवस्थां मत्कृतामेतां भवंतोऽत्र द्विजोत्तमाः
॥८१॥धारयंतु महात्मानो दिग्गजा इव मेदिनीम् ॥
एवं प्रभुत्वमास्थाय स्थानेऽस्मिञ्छिवशालिनि
॥८२॥श्रुतिस्मृतिपुराणोक्तान्धर्मानाचरत द्विजाः ॥
निशम्य सोमस्य वचो विनीतमिति ते द्विजाः
॥८३॥उवाच कौशिकस्तेषु गोत्राणां प्रथमो द्विजः ॥
साधूपदिष्टमस्माकं द्विजराजेन सर्वथा
॥८४॥सर्वमेतत्करिष्यामः किंतु किंचिन्निशामय ॥
नियोगतः पूजयतां शिवनिर्माल्यसेविनाम्
॥८५॥पातित्यं जायतेऽस्माकं श्रुतिस्मृतिविगर्हितम् ॥
श्रुतिस्मृती हि रुद्रस्य यस्मादाज्ञाद्वयं महत्
॥८६॥कस्तदुल्लंघयेन्मूढः प्राणैः कंठग तैरपि
॥८७॥अष्टमूर्तेः पुनर्मूर्त्तावग्नौ देवमुखे मखान् ॥
कुर्वाणाः श्रुतिमार्गेण प्रीणयामोऽखिलं जगत्
॥८८॥जगद्भगवतो रूपं व्यक्तमेत त्पुरद्विषः ॥
मिथो विभिन्नमित्येतदभिन्नं पुनरीश्वरात्
॥८९॥अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ॥
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः
॥९०॥श्रुतिस्मृतिपुराणादिसदभ्यासप्रसंगिनाम् ॥
तत्तदर्थेषु पुण्यार्थं प्रवृत्ताखिलकर्मणाम्
॥९१॥अस्माकमवकाशोऽपि विरलो लिंग पूजने ॥
रुद्रजाप्यैर्महायज्ञैर्यजानाश्चैवमीश्वरम्
॥९२॥यथाक्षणं यथाकालं लिंगं वेदमुपास्महे ॥
यत्तु तेऽभिमतं सोम श्रीसोमेश्वरपूजनम् ॥
तच्च संपादयिष्यामः सविशेषं महामते
॥९३॥येन त्वदीप्सितं सिध्येत्तमुपायं निशामय ॥
गौरीशंकरसंवादं श्रुत्वा भगवतो मुखात्
॥९४॥नारदः प्राह नः पूर्वं कथयामस्तमेव ते ॥
ब्रह्मदेवद्विषः पूर्वं शतशो दैत्यदानवाः ॥
तपोभिरुग्रैर्विविधैः शंकरं प्रतिपेदिरे
॥९५॥तेषामत्युग्रतपसामनन्यासक्तचेतसाम् ॥
प्रसादमीश्वरश्चक्रे कारुण्यामृतसागरः
॥९६॥स हि त्रिभुवनस्वामी देवदेवो महेश्वरः ॥
अपेक्षते वरं दातुं भक्तिमेवानपायिनीम्
॥९७॥ददौ स भुवनैश्वर्य्यप्रायानभिमतान्वरान् ॥
तेषां भक्त्यैव संतुष्टो देवब्रह्मद्विषामपि
॥९८॥ब्रह्मणा विष्णुना चापि यस्यांतो नाधिगम्यते ॥
तस्यातर्क्यप्रभावस्य को नु वेदाशयं प्रभोः
॥९९॥दुर्वृत्तेभ्योऽपि दैत्येभ्यस्तपोभिर्वरदायिनम् ॥
पप्रच्छ स्वच्छ्हृदया पार्वती परमेश्वरम्
॥१००॥पार्वत्युवाच
भगवन्प्रसादं ते प्राप्य धृष्यंतो भुवनत्रयम् ॥
उपद्रवंतींद्रमुखान्देवान्संक्षोभयंति च
॥१०१॥वरं ददासि किं तेषां तादृशानां दुरात्मनाम् ॥
जगतः स्वस्तये येषां न मनागपि चेष्टितम्
॥१०२॥त्वया दत्तवरानेतान्दिव्यान्भोगोपभोगिनः ॥
अवधीर्य तवैश्वर्यं कथं विष्णुर्निहंति च
॥१०३॥हतानां च पुनस्तेषां का गतिः स्याद्वद प्रभो
॥१०४॥ईश्वर उवाच
सात्त्विका राजसाश्चैव तामसाश्चेति वै त्रिधा ॥
भवंति लोकास्तेष्वेते तमःप्राया दुरासदाः
॥१०५॥सुरैः सह स्पर्धमानास्तपोभिरपि तामसैः ॥
मां भजंते मुहुर्मोहाज्जगदुत्सादनोद्यताः
॥१०६॥वरं ददामि यत्तेषां भक्तिस्तत्र तु कारणम् ॥
अहं हि भक्त्या सुग्राह्यो नात्र कार्या विचारणा
॥१०७॥तपोनुरूपानासाद्य वरांस्ते पापकारिणः ॥
विष्णुना यन्निहन्यते तच्च देवि निबोध मे
॥१०८॥अहं हरिश्च यद्भिन्नौ गुणभागोऽत्र कारणम् ॥
परमार्थादभिन्नौ च रहस्यं परमं ह्यदः
॥१०९॥आराध्याराधकादिश्च भेदः सामान्य एव नौ ॥
तथा ह्यहमिमां गंगां विष्णोः पादाग्रनिःसृताम्
॥११॥वहामि शिरसा भक्त्या त्वदीक्षाशंकितोऽपि सन् ॥
अपि विष्णुस्त्रिभुवनं परित्रातुं व्यवस्थया
॥१११॥मामुपास्य चिरं लेभे चक्रं दुष्टनिबर्हणम् ॥
त्वां च तस्य महामायामप्रमेयात्मनो हरेः
॥११२॥आराधयामि तद्भक्त्या त्रिजगजन्मकारणम् ॥
शिरस्याधाय चान्यां मे शक्तिरूपां तथा हरिः
॥११३॥अजोऽपि जन्मान्यासाद्य लोकरक्षां करोति वै ॥
हंतुं हिरण्यकशिपुं नरसिंहवपुश्च सः
॥११४॥जगज्जिघांसुः शमितो मया शरभ रूपिणा ॥
मां च बाणपरित्राणे त्रिशूलोद्यमकारिणम्
॥११५॥मानुष्येऽप्यवतारेऽसौ स्तंभयित्वा स लीलया ॥
प्रभावं महिमानं च वर्द्धयन्मामकं हरिः ॥
वरिवस्यति मां नित्यमंतरात्मापि मे विभुः
॥११६॥अथाहं परमात्मानमेनमाद्यंतवर्जितम् ॥
ध्यानयोगैः समाधौ च भावयामि निरंतरम्
॥११७॥तदेवं नावयोर्भेदो विद्यते पारमार्थिकः ॥
भेदं च तारतम्यं च मूढा एव वितन्वते
॥११९॥वैष्णवं रूपमास्थाय दुर्वृत्तान्हन्मि तानहम् ॥
गतिं च तेषामधुना महेश्वरि निशामय
॥११९॥मयि भक्त्यवसाने तु हरेः संदर्शनेन च ॥
क्रोधदर्पाभिभूतत्वान्न मुक्तिं प्राप्नुवंति ते
॥१२०॥आवयोस्तु प्रभावेन ते पुनर्द्धौतकल्मषाः ॥
ब्रह्मर्षीणां कुले जन्म संप्राप्ता मुक्तिहेतुकम्
॥१२१॥ब्रह्मचारिव्रता दूर्ध्वं योगं पाशुपतं श्रिताः ॥
प्राचीनकर्मसंस्कारात्ते पुनर्मामुपासते
॥१२२॥भक्तियोगेन चास्थाय व्रतं पाशुपतादिकम् ॥
श्मशानवासिनो नग्ना अपरे चैकवाससः
॥१२३॥भिक्षाभुजो भूतिभृतो मल्लिंगान्यर्च्चयंति ते ॥
तथा मदेकाग्रधियो मद्ध्यानैकदृढव्रताः
॥१२४॥ये त्वामपि नमस्यंति जगतां मम चेश्वरीम् ॥
देहावसानयोगेन मुक्तिं तेषां ददाम्यहम्
॥१२५॥सारूप्यसालोक्यमयीं मय्यावेशितचेतसाम् ॥
सायुज्यमुक्तये नायं योगः पाशुपतो यतः ॥
स्मृत्याचारेण मुनिभिः स सद्भिस्तेन गर्हितः
॥१२६॥द्विजा ऊचुः
तीर्थयात्राप्रसंगेन तानि होपगतान्द्विजान् ॥
स्वमानमुपनेष्यामो भक्त्यावर्ज्जितमानसान्
॥१२७॥शुचिभिक्षान्नकौपीनकमण्डल्वादिसत्कृताः ॥
अनन्यकार्य्याः सततमिहागत्य तपस्विनः
॥१२८॥भवत्प्रदत्तैर्विविधैरुपहारैरतंद्रिताः ॥
तत्त्वतस्तत्त्वसंख्यास्ते शिवधर्मैकतत्पराः
॥१२९॥श्रीसोमेश्वरमभ्यर्च्य तव श्रेयोऽभिवर्द्धकाः ॥
मुक्तिमंते गमिष्यंति देवस्यातिसुदुर्ल्लभाम्
॥१३०॥ततोऽन्येऽथ ततोऽप्यन्ये ततश्चान्ये तपोधना ॥
परीक्षितास्तु तेऽस्माभिर्भवितारो निशापते
॥१३१॥द्विजा ऊचुः
इत्याह भगवान्देव्या पृष्टः स च त्रिलोचनः ॥
तत्रैव नारदः सर्वं संवादं शिवयेरितम्(?)
॥१३२॥श्रुत्वा नः कथयामास कथां गोष्ठीषु पृच्छताम् ॥
तव चास्माभिरधुना सर्वमेतदुदीरितम्
॥१३३॥एवमुक्तस्तु तैः प्रीतः सोमः स्वभवनं ययौ ॥
तदाज्ञया च तत्सर्वं यथोक्तं तेऽपि कुर्वते
॥१३४॥देव्युवाच
एवं प्रभावो देवेशः सोमेशः पापनाशनः ॥
केनोपायेन तुष्येत व्रतेन नियमेन वा
॥१३५॥ईश्वर उवाच
कथयामि स्फुटं धर्म्मं मानुषाणां हिताय वै ॥
स येन तुष्यते देवः शृणु त्वं सुरसुन्दरि
॥१३६॥नित्योपवासनक्तानि व्रतानि विविधानि च ॥
तीर्थे दानानि सर्वाणि पात्रे दत्तान्यशेषतः
॥१३७॥तपश्च तप्तं तेनैव स्नातं तेनैव पुष्करे ॥
केदारे तु जलं तेन गत्वा पीतं तु निश्चितम्
॥१३८॥तेन दृष्टं वरारोहे ज्योतिर्लिंगं महाप्रभम् ॥
सोमवारव्रतं दिव्यं येन चीर्णं तु संश्रये
॥१३९॥किमन्यैर्बहुभिर्दानैर्दत्तैः पात्रेषु सुन्दरि
॥१४०॥पूजितं येन भावेन सोमवारदिनाष्ट कम् ॥
तेन सर्वं कृतं देवि चीर्णं तत्र महाव्रतम्
॥१४१॥इतिहासमिमं पूर्वं कथयामि तव प्रिये ॥
यथावृत्तं महादेवि सोमवारव्रतं प्रति
॥१४२॥ईश्वर उवाच
कैलासस्य महेशानि उत्तरे च व्यवस्थिता ॥
निषधोपरि विस्तीर्णा पुरी नाम स्वयंप्रभा
॥१४३॥नानारत्नसुशोभाढ्या नानागन्धर्वसंकुला ॥
सर्वावयवसंपूर्णा शक्रस्येवामरावती
॥१४४॥घनवाहननामा च गन्धर्वस्तत्र तिष्ठति ॥
भुंक्ते तत्र महाभोगान्देवैरपि सुदुर्लभान्
॥१४५॥नवयौवनसंयुक्ता भार्या तस्य मनोहरा ॥
प्रौढवाक्या सुशीला च पीनोन्नतपयोधरा
॥१४६॥तया सार्द्धं तु सम्भोगान्भुंक्ते गंधर्वनायकः ॥
उत्पन्ना तस्य कालेन पुत्री पुत्राष्टकोपरि
॥१४७॥सर्वावयवसंपन्ना सर्वविज्ञानवेदिनी ॥
गंधर्वसेना विख्याता नाम्ना सा परमेश्वरि
॥१४८॥कन्यानां तु सहस्रेषु प्रवरा रूपशालिनी ॥
कौतूहलेन सा पित्रा प्रोक्ता क्रीडस्व भामिनि
॥१४९॥उद्याने रमणीयेऽत्र नानाद्रुमलताकुले ॥
वृक्षैरनेकैः संकीर्णे फलपुष्पसमन्विते
॥१५०॥एवं सा रमते नित्यं कन्यापरिवृता सदा ॥
एवं दृष्ट्वा क्रीडमाना माता भर्तारमब्रवीत्
॥१५१॥जीवितं निष्फलं स्वामिन्मम ते सह बांधवैः ॥
यस्येदृशी गृहे कन्या तिष्ठते भर्तृवर्ज्जिता
॥१५२॥इत्युक्तः स तु गंधर्वो भार्यां वचनमब्रवीत् ॥
अन्वेषयामि भर्त्तारं पुत्र्यर्थे तु मनोहरम्
॥१५३॥इत्युक्त्वाऽऽह्वापयामास पुत्रीं तां घनवाहनः ॥
आहूता पितृमातृभ्यां त्वरिताऽऽगत्य सुन्दरि
॥१५४॥अनुक्रमेण सर्वेषां पतिता पादयोः शुभा ॥
आदेशं देहि मे तात कि नु कार्यं मयाऽऽधुना
॥१५५॥उक्तं च घनवाहेन हर्षितेन वचस्ततः ॥
हे पुत्रि तव यः कश्चिद्वरः संप्रति रोचते ॥
दिव्यं द्रक्ष्ये त्वत्सदृशं गंधर्वाणां शिरोमणिम्
॥१५६॥इत्युक्ता क्रोधताम्राक्षी पितरं वाक्यमब्रवीत् ॥
मम रूपस्य कोट्यंशे किं कोप्यस्ति जगत्त्रये ॥
तच्छ्रुत्वा चाद्भुतं वाक्यं पिता माता च मोहितौ
॥१५७॥सर्वे विषादमापन्ना बांधवाश्च परे जनाः ॥
अशोभनमिदं वाक्यं कन्यया यत्प्रभाषितम् ॥
इत्युक्त्वा तु गताः सर्वे जननीजनबांधवाः
॥१५८॥सा तत्रैव महोद्याने रमते सखिसंयुता ॥
हिंडोलके समारूढा वसंते मासि भामिनि
॥१५९॥तावद्दिव्यविमानस्थः शिखण्डी गणनायकः ॥
गच्छन्खे ददृशे कन्यां रूपौदार्य्यसमाकुलाम्
॥१६०॥गीतवाद्येन नृत्येन रमतीं दुदुभिस्वनैः ॥
स माध्याह्निकसंध्यायामवतीर्य विमानतः
॥१६१॥क्रीडमानोऽप्सरोभिस्तु तत्रोद्याने स्थितस्ततः ॥
शुश्राव वाक्यं कन्याया गंधर्वदुहितुस्तदा
॥१६२॥न कोऽपि सदृशो लोके मम रूपेण दृश्यते ॥
देवो वा दानवो वापि कोट्यंशे मम रूपतः
॥१६३॥इति वाक्यं ततः श्रुत्वा गणः क्रोधसमन्वितः ॥
शशाप तां सुचार्वंगीं साहंकारां गणेश्वरः
॥१६४॥गण उवाच
मां दृष्ट्वा यद्विशालाक्षि रूपसौभाग्यगर्विता ॥
समाक्षिपसि गंधर्वान्देवाद्यांश्चैव गर्विता
॥१६५॥तस्मात्ते गर्वसंयुक्ते कुष्ठमंगे भविष्यति ॥
श्रुत्वा शापं ततः कन्या भयभीता तपस्विनी
॥१६६॥साष्टांगं प्रणिपत्याथानुग्रहार्थमयाचत ॥
भगवन्मम दीनायाः शापस्यानुग्रहं प्रभो ॥
प्रयच्छ त्वं महा भाग नैवं कर्त्री पुनः क्वचित्
॥१६७॥इत्युक्तस्तव कारुण्याच्छिखण्डी गणनायकः ॥
अनुग्रहं ददौ तस्या गंधर्वदुहितुस्तदा
॥१६८॥शिखण्ड्युवाच
जातिरूपेण संयुक्तो विद्याहंकारसंपदा ॥
यो येन गर्वितः प्राणी स तं प्राप्य विनश्यति
॥१६९॥तस्माद्गर्वो नैव कार्यो गर्वस्यैतत्फलं स्मृतम् ॥
शृणुष्वानुग्रहं बाले श्रुत्वा चैवावधारय
॥१७०॥हिमवद्वनमध्यस्थो गोशृंग ऋषिपुंगवः ॥
करिष्यत्युपकारं स एवमुक्त्वा गतः प्रिये
॥१७१॥तावत्संध्या समायाता तत्क्षणाद्भुवनांतरे
॥१७२॥ततो गंधर्व्वतनया भग्नोत्साहा नतानना ॥
परित्यज्य वनं रम्यमागता पितुरंतिके
॥१७३॥कथयामास तत्सर्वं कारणं कुष्ठसंभवम् ॥
तच्छ्रुत्वा शोकसंतप्तौ पितरौ विगतप्रभौ
॥१७४॥हिमवंतं गिरिं प्राप्तौ त्वरितौ सुतया सह ॥
गोशृंगस्य ऋषेस्तत्र ददृशाते तथाश्रमम्
॥१७५॥तत्र मध्यस्थितं दृष्ट्वा गोशृंगमृषिपुंगवम् ॥
प्रणम्य दण्डवद्भूमौ स्तुत्वा स्तोत्रैरनेकधा
॥१७६॥उपविष्टोग्रतस्तस्य प्रणिपत्य पुनःपुनः ॥
प्रोवाच वचनं तत्र पूर्ववृत्तं यथाऽभवत्
॥१७७॥कथिते चैव वृत्तांते पुनः पप्रच्छ कारणम् ॥
पृष्टे तु कारणे तत्र गंधर्वः प्रोक्तवांस्तदा
॥१७८॥गंधर्व उवाच
दुहितुर्मे शरीरं तु व्याधिकुष्ठेनपीडितम् ॥
येनोपशमनं याति तत्त्वं कर्त्तुमिहार्हसि
॥१७९॥प्रसादं कुरु विप्रर्षे मम दीनस्य सांप्रतम् ॥
यथा कुष्ठं शमं याति मम पुत्र्यास्तु कारणम्
॥१८०॥गोशृंग उवाच
भारते तु महातेजास्तिष्ठत्युदधिसन्निधौ ॥
देवः सोमेश्वरोनाम सर्वदेवनमस्कृतः
॥१८१॥क्षणं कृत्वा हि संपूज्य एकाहारेण मानवैः ॥
सर्वव्याधिविनाशाय सर्वकार्यार्थसिद्धये
॥१८२॥सोमवारव्रतेनेशं समाराधय शंकरम् ॥
एवं कृते व्याधिनाशस्तव पुत्र्या भविष्यति
॥१८३॥ईश्वर उवाच
इति तद्वचनं श्रुत्वा महर्षेर्भावितात्मनः ॥
तत्र गंतुं मनश्चक्रे सोमेशाराधनं प्रति
॥१८४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वर वर्णने सोमवारव्रतमाहात्म्यवर्णनंनाम चतुर्विंशोऽध्यायः ॥ २४ ॥