मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २००

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 200

कामकुण्डमाहात्म्यवर्णनम्

ईश्वर उवाच

एवं विध्वंसिते यज्ञे गतास्ते ब्राह्मणा गृहम् ॥

अप्राप्तकामना देवि ये चान्ये तत्र वै गताः

॥१॥

हरोऽपि विगतामर्षः कैलासं पर्वतं गतः

॥२॥

एतस्मिन्नेव काले तु तारकोनाम दानवः ॥

उत्पन्नः स महाबाहुर्देवानां बलदर्पहा

॥३॥

तेन इन्द्रादिकान्सर्वान्सुराञ्जित्वा महाहवे ॥

स्वर्गः स्वैर्व्यापितो देवि ब्रह्मलोकं ततो गताः ॥

ऊचुः सुरा दुःखयुक्ता ब्रह्माणं पर्वतात्मजे

॥४॥

तारकेण सुरश्रेष्ठ स्वर्गान्निर्वासिता वयम् ॥

स्वयमिन्द्रः समभवद्वसवोऽन्ये तथा कृताः

॥५॥

रुद्राः साध्यास्तथा विश्वे अश्विनौ मरुतस्तथा ॥

आदित्याश्च वधोपायं तस्माद्वद पितामह

॥६॥

ब्रह्मोवाच

अवध्यः स तु सर्वेषां देवानामिति मे मतिः ॥

ऋते तु शांकरं तेजो नान्येन विनिपात्यते ॥

तस्माद्गच्छत भद्रं वो देवदेवं महेश्वरम्

॥७॥

तस्य भार्या मृता पूर्वं जाता हिमवतो गृहे ॥

तस्यां च जायते पुत्रः स हनिष्यति तारकम् ॥

तस्मात्प्रसादयध्वं वै तदर्थं शूलपाणिनम्

॥८॥

ततो देवैः समादिष्टः कामदेवो वरानने ॥

मृतभार्यं हरं गत्वा ततः पीडय सायकैः

॥९॥

येनासौ कामसंतप्तो भार्यार्थं यत्नवान्भवेत् ॥

६ अयं गच्छतु ते भ्राता वसंतश्च मनोहरः

॥१०॥

स तथेति प्रतिज्ञाय कैलासं पर्वतं गतः ॥

ततो दृष्ट्वा महादेवः कामदेवं धृतायुधम्

॥११॥

वसन्तसहितं देवि रुद्रोऽन्धकनिषूदनः ॥

गंगाद्वारमनुप्राप्य अपश्यद्यावदग्रतः

॥१२॥

दत्तायुधं कामदेवं दुद्रुवे स भयात्पुनः ॥

ततो वाराणसीं गत्वा नैमिषं पुष्करं तथा

॥१३॥

श्रीकंठं रुद्रकोटिं च कुरुक्षेत्रं गयां तथा ॥

ज्वालामार्गं प्रयागं च विशालामर्बुदं शुभम्

॥१४॥

बहून्वर्षगणानेवं भ्रमन्स धरणीतले ॥

कामदेवभयाद्देवि देवदेवो महेश्वरः

॥१५॥

अवैक्षत तदा कामं विस्फार्य नयनं तदा ॥

तृतीयं देवदेवेशि देवदेवस्त्रिलोचनः

॥१६॥

तस्य तं वीक्षमाणस्य संजाताः पावकार्चिषः ॥

ताभिः स धनुषा युक्तो भस्मसात्समपद्यत

॥१७॥

तं दग्ध्वा भगवाञ्छंभुर्गत्वा रोषस्य निर्णयम् ॥

निवासमकरोत्तत्र क्षेत्रे प्राभासिके शुभे

॥१८॥

तस्मिन्दग्धे तदा कामे रतिः शोकपरायणा ॥

विललाप सुदुःखार्ता पतिभक्तिपरायणा

॥१९॥

हा नाथनाथ भोः स्वामिन्किं जहासि पतिव्रताम् ॥

पतिव्रतां पतिप्राणां कस्मान्मां त्यजसि प्रभो

॥२०॥

एवं विलपतीं तां तु वागुवाचाशरीरिणी ॥

मा त्वं रुद विशालाक्षि पुनरेव पतिस्तव

॥२१॥

प्रसादाद्देवदेवस्य उच्छ्वास्यति शिवस्य तु ॥

एतां वाचं रतिः श्रुत्वा ततः स्वस्था बभूव ह

॥२२॥

ततो देवाः शिवं नत्वा प्रार्थयामासुरीश्वरि ॥

कलत्रसंग्रहं देव कुरु कार्यार्थसंग्रहे

॥२३॥

एष कामस्त्वया दग्धः क्रोधेन महता स्वयम् ॥

विना तेन विभो नष्टा सृष्टिर्वै धरणीतले

॥२४॥

भगवानुवाच

एष कामो मया दग्धः क्रोधेन सुरसत्तमाः ॥

तस्मादनंग एवैष प्रजासु प्रचरिष्यति ॥

तद्वीर्यस्तत्प्रभावश्च विना देहं भविष्यति

॥२५॥

देवा ऊचुः

भगवन्कुरु पूर्वं त्वं संस्मरस्व रतीश्वरम् ॥

हिताय सर्व लोकानां यथा नः प्रत्ययो भवेत्

॥२६॥

ततः स स्मृतवान्कामं स्वयं देवो महेश्वरः ॥

ततस्तच्छाश्वतं लिंगं समुत्तस्थौ महीतले

॥२७॥

कृतस्मरः पुनस्तत्र अनंगो बलवांस्तथा ॥

तेनोढा शैलजा तेन शंकरेण महात्मना

॥२८॥

जातः स्कन्दः सुरश्रेष्ठस्तारको येन सूदितः ॥

पतितेनैव लिंगेन यस्माच्चैव कृतस्मरः

॥२९॥

तस्मात्कृतस्मरो लोके कीर्त्यते स महीतले ॥

तं दृष्ट्वा न जडो नांधो नासुखी न च दुर्भगः ॥

जायते तु कदा मर्त्यो न दरिद्रो न रोगवान्

॥३०॥

एवं ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥

दग्धो यथा स्मरः पूर्वं पुनर्वीर्यान्वितः स्थितः

॥३१॥

ईश्वर उवाच

तत्रैव संस्थितं कुण्डं दक्षिणेन कृतस्मरात् ॥

कामकुंडेति वै नाम यत्रोद्भूतः पुनः स्मरः

॥३२॥

अनंगरूपी देव्यत्र स्नानाद्वै रूपवान्भवेत् ॥

इक्षवस्तत्र वै देयाः सुवर्णं गास्तथैव च ॥

वस्त्राणि चैव विधिवद्ब्राह्मणे वेदपारगे

॥३३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कामकुण्डमाहात्म्यवर्णनंनाम द्विशततमोऽध्यायः ॥ २०० ॥