मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २०९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 209

मार्कण्डेयेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि मार्कण्डेयेशमुत्तमम् ॥

तस्मादुत्तरदिग्भागे मार्कण्डेन प्रतिष्ठितम्

॥१॥

सावित्र्याः पूर्वभागे तु नातिदूरे व्यवस्थितम् ॥

महर्षिरभवत्पूर्वं मार्कण्डेय इति श्रुतः

॥२॥

अजरश्चामरश्चैव प्रसादात्पद्मयोनिनः ॥

स गत्वा तत्र विप्रेन्द्रो देवदेवस्य शूलिनः ॥

लिंगं तु स्थापयामास ज्ञात्वा तत्क्षेत्रमुत्तमम्

॥३॥

स तं पूज्य विधानेन स्थित्वा दक्षिणतो मुनिः ॥

पद्मासनधरो भूत्वा ध्यानावस्थस्तदाऽभवत्

॥४॥

तस्य ध्यानरतस्यैव प्रयुतान्यर्बुदानि च ॥

युगानां समतीतानि न जानाति मुनीश्वरः

॥५॥

अथ लोपं समापन्नः प्रासादः शांकरः स्थितः ॥

कालेन महता देवि पांसुभिर्मारुतोद्भवैः

॥६॥

कस्यचित्त्वथ कालस्य प्रबुद्धो मुनिसत्तमः ॥

अपश्यत्पांसुभिर्व्याप्तं तत्सर्वं शिवमन्दिरम्

॥७॥

ततः कृच्छ्रात्स निष्क्रान्तः खनित्वा मुनिपुंगवः ॥

अकरोत्सुमहाद्वारं पूजार्थं तस्य भामिनि

॥८॥

प्रविश्य तत्र यो भक्त्या पूजयेद्वृषभध्वजम् ॥

स याति परमं स्थानं यत्र देवो महेश्वरः

॥९॥

देव्युवाच

अमरत्वं कथं प्राप्तो मार्कंण्डो मुनिसत्तमः ॥

अभवत्कौतुकं ह्येतत्तस्मात्त्वं वक्तुमर्हसि

॥१०॥

अमरत्वं यतो नास्ति प्राणिनां भुवि शंकर ॥

देवानामपि कल्पांते स कथं न मृतो मुनिः

॥११॥

ईश्वर उवाच

अथातस्त्वां प्रव क्ष्यामि यथासावमरोऽभवत् ॥

आसीन्मुनिः पुराकल्पे मृकण्ड इति विश्रुतः

॥१२॥

भृगोः पुत्रो महाभागः सभार्यस्तपसि स्थितः ॥

तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे

॥१३॥

स पाञ्चवार्षिको भूत्वा बाल एव गुणान्वितः ॥

कस्यचित्त्वथ कालस्य ज्ञानी तत्र समागतः

॥१४॥

तेन दृष्टस्तदा बालः प्रांगणे विचरन्प्रिये ॥

स्मृत्वाऽहसच्चिरं कालं भाव्यर्थं प्रति नोदितः

॥१५॥

तस्य पित्रा स दृष्टस्तु सामुद्रज्ञो विदुत्तमः ॥

हास्यस्य कारणं पृष्टो विस्मयान्वितचेतसा

॥१६॥

कस्मान्मे सुतमालोक्य स्मितं विप्र कृतं त्वया ॥

तत्र मे कारणं ब्रह्मन्यथावद्वक्तुमर्हसि

॥१७॥

इति तस्य वचः श्रुत्वा ज्ञानी विप्रो वचोऽब्रवीत्

॥१८॥

अयं पुत्रस्तव मुने सर्वलक्षणसंयुतः ॥

अद्यप्रभृति षण्मासमध्ये मृत्युमवाप्स्यति

॥१९॥

यदि जीवेत्पुनरयं चिरायुर्वै भविष्यति ॥

अतो मया कृतं हास्यं विचित्रा कर्मणो गतिः

॥२०॥

एतच्छ्रुत्वा वचो रौद्रं ज्ञानिना समुदाहृतम् ॥

व्रतोपनयनं चक्रे बालकस्य पिता तदा

॥२१॥

आह चैनमृषिः पुत्रं दृष्ट्वा ब्राह्मणमागतम् ॥

अभिवाद्यास्त्रयो वर्णास्ततः श्रेयो ह्यवाप्स्यसि

॥२२॥

एवमुक्तः स वै विप्रः करोत्येवाभिवादनम् ॥

न वर्णावरजं वेत्ति बालभावाद्वरानने

॥२३॥

पंचमासा ह्यतिक्रान्ता दिवसाः पञ्चविंशतिः ॥

एतस्मिन्नेव काले तु प्राप्ताः सप्तर्षयोऽमलाः

॥२४॥

तीर्थयात्राप्रसंगेन तेन मार्गेण भामिनि ॥

कालेन तेन सर्वेऽथ यथावदभिवादनैः ॥

आयुष्मान्भव तैरुक्तः स बालो दण्डवल्कली

॥२५॥

उक्त्वा ते तु पुनर्बालं वीक्ष्य वै क्षीणजीवितम् ॥

दिनानि पंच ते ह्यायुर्ज्ञात्वा भीतास्ततोऽनृतात्

॥२६॥

ब्रह्मचारिणमादाय गतास्ते ब्रह्मणोऽन्तिके ॥

प्रतिमुच्याग्रतो बालं प्रणेमुस्ते पितामहम्

॥२७॥

ततस्तेनापि बालेन ब्रह्मा चैवाभिवादितः ॥

चिरायुर्ब्रह्मणा बालः प्रोक्तोऽसावृषिसन्निधौ

॥२८॥

ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात् ॥

पितामहस्तु तान्दृष्ट्वा ऋषीन्प्रोवाच विस्मितान् ॥

केन कार्येण वाऽऽयाताः केन बालो निवेदितः

॥२९॥

ऋषय ऊचुः

भृगोः पुत्रो मृकण्डस्तु क्षीणायुस्तस्य बालकः ॥

अकालेन पिता ज्ञात्वा बबंधास्य च मेखलाम्

॥३०॥

यज्ञोपवीतं च ततस्तेन विप्रेण बोधितः ॥

यं कञ्चिद्द्रक्ष्यसे लोके भ्रमन्तं भूतले द्विजम्

॥३१॥

तस्याभिवादनं कार्यं नित्यमेव च पुत्रक ॥

ततो वयमनेनैव दृष्टा बालेन सत्तम

॥३२॥

तीर्थयात्राप्रसंगेन दैवयोगात्पितामह ॥

चिरायुरेष वै प्रोक्तो ह्यमीभिश्चाभिवादितैः

॥३३॥

त्वत्सकाशं समानीतस्त्वया चैवमुदाहृतः ॥

कथं वागनृता देव ह्यस्माकं भवता सह

॥३४॥

उवाच बालमुद्दिश्य प्रहसन्पद्मसंभवः ॥

मत्समानायुषो बालो मार्कण्डेयो भविष्यति

॥३५॥

कल्पस्यादौ तथा चान्ते सहायो मे भविष्यति ॥

ततस्तु मुनयः प्रीता गृहीत्वा मुनिदारकम् ॥

तस्मिन्नेव प्रदेशे तु मुमुचुश्चेष्टितं यतः

॥३६॥

तीर्थयात्रां गता विप्रा मार्कण्डेयो गृहं ययौ ॥

गत्वा गृहमथोवाच मृकण्डं मुनिसत्तमम्

॥३७॥

ब्रह्मलोकमहं नीतो मुनिभिस्तात सप्तभिः ॥

उक्तोऽयं ब्रह्मणा कल्पस्यादौ चान्ते च मे सखा

॥३८॥

भविष्यति न संदेहो मत्समायुश्च बालकः ॥

ततस्तैः पुनरानीतो मुक्तश्चैवाश्रमं प्रति

॥३९॥

मत्कृते हि द्विजश्रेष्ठ यातु ते मनसो ज्वरः ॥

मार्कण्डेयवचः श्रुत्वा मृकण्डो मुनिसत्तमः ॥

जगाम परमं हर्षं क्षणमेकं सुदुःसहम्

॥४०॥

ततौ धैर्यं समास्थाय वाक्यमेतदुवाच ह

॥४१॥

अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥

यत्त्वया मे सुपुत्रेण दृष्टो लोकपितामहः

॥४२॥

वाजपेयसहस्रेण राजसूयशतेन च ॥

यं न पश्यन्ति विद्वांसः स त्वया लीलया सुत

॥४३॥

दृष्टश्चिरायुरप्येवं कृतस्तेनाब्जयोनिना ॥

दिवारात्रमहं तात तव दुःखेन दुखितः ॥

न निद्रामनुगच्छामि तन्मेदुःखं गतं महत्

॥४४॥

इति श्रीस्कान्दे महा पुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनंनाम नवोत्तरद्विशततमोऽध्यायः ॥ २०९.॥