मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १३३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 133

महाकालीमाहात्म्यवर्णनम्

ईश्वर उवाच

तत्रैव संस्थिता देवि महाकालीति विश्रुता ॥

अधः स्थिते महापीठे पातालविवरान्विते

॥१॥

सर्वदुःखप्रशमनी सर्वशत्रुक्षयंकरी ॥

पूजनीया विधानेन कृष्णाष्टम्यां महानिशि ॥

गन्धैः पुष्पैस्तथा धूपैः क्रव्यैर्बलिभिरेव च

॥२॥

फलतृतीयां नारी च कुर्याद्वै तत्र भाविता ॥

वर्षमेकं सिते पक्षे देवीं पूज्य विधानतः ॥

फलानि ब्राह्मणे देयान्येव नूनं विधानतः

॥३॥

एतानि वर्जयेन्नक्ते ह्यन्नानि सुरसुन्दरि ॥

निष्पावा आढकी मुद्गा माषाश्चैव कुलित्थकाः

॥४॥

मसूरा राजमाषाश्च गोधूमास्त्रिपुटास्तथा ॥

चणका वर्तला वापि मकुष्ठाश्चैवमादयः

॥५॥

न भक्ष्यास्तावत्ते देवि यावद्गौरीव्रतं चरेत् ॥

तस्याः पुण्यफलं वक्ष्ये कथ्यमानं शृणुष्व मे

॥६॥

धनं धान्यं गृहे तस्या न कदाचित्क्षयं व्रजेत् ॥

दुःखिता दुर्भगा दीना सप्त जन्मानि नो भवेत्

॥७॥

महाकालीव्रतं प्रोक्तं देव्या माहात्म्यसंयुतम् ॥

कृतं पातकनाशाय सर्वकामसमृद्धये

॥८॥

एवं देवि समाख्यातं महाकालीमहोदयम् ॥

क्षेत्रपीठं महादेवि मन्त्रसिद्धिप्रदायकम्

॥९॥

आश्वयुक्छुक्लपक्षे तु नवम्यां तत्र जागृयात् ॥

पीठे पूजाबलिं दत्त्वा मन्त्रं कामं जपन्निशि ॥

सौम्यचित्तः समाप्नोति वांछितां सिद्धिमुत्तमाम्

॥१०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालीमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥ १३३ ॥