मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २५१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 251

ततो गच्छेन्महादेवि शंकरादित्यमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि शंकरादित्यमुत्तमम् ॥

गंगेश्वरस्य पूर्वेण शंकरेण प्रतिष्ठितम्

॥१॥

षष्ठ्यां चैव तु शुक्लायामेनं यः पूजयिष्यति ॥

गमिष्यति परं स्थानं यत्र देवो दिवाकरः

॥२॥

रक्तचंदनमिश्रैश्च रक्तपुष्पैः समाहितः ॥

ताम्रपात्रे समाधाय योऽर्घ्यं दास्यति मानवः ॥

स यास्यति परां सिद्धिं न च याति दरिद्रताम्

॥३॥

तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे वरानने ॥

पूजयेच्छंकरादित्यं सर्वकामफलप्रदम्

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५१ ॥