मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 291

तस्मादुत्तरभागे तु स्थानात्कौबेरसंज्ञकात्

ईश्वर उवाच

तस्मादुत्तरभागे तु स्थानात्कौबेरसंज्ञकात् ॥

भद्रकाली महादेवि वांछितार्थप्रदायिनी

॥१॥

दक्षयज्ञस्य विध्वंसे वीरभद्रसमन्विता ॥

भद्रकाली महादेवी दक्षयज्ञविनाशिनी

॥२॥

चैत्रे मासि तृतीयायां देवीं तां यस्तु पूजयेत् ॥

नवकोट्यस्तु चामुण्डा भविष्यंति सुपूजिताः ॥

सौभाग्यं विजयं चैव तस्य लक्ष्मीर्भविष्यति

॥३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये भद्रकालीमाहात्म्यवर्णनंनामैकनवत्युत्तरद्विशततमोऽध्यायः ॥ २९१ ॥