शाकल्येश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि शाकल्येश्वरमुत्तमम् ॥
दैत्यसूदनवायव्ये धनुषां त्रिंशता स्थितम्
॥१॥शाकल्येन महादेवि पूजितं सर्वकामदम् ॥
शाकल्योनाम राजर्षिर्यत्र तप्त्वा महत्तपः
॥२॥समाराध्य महादेवं प्रत्यक्षीकृतवान्भवम् ॥
लिंगेऽवतारयामास प्रसन्नं तं महेश्वरम्
॥३॥तस्मिन्दृष्टे वरारोहे सप्तजन्मकृतं नृणाम् ॥
पापं प्रणश्यते शीघ्रं तमः सूर्योदये यथा
॥४॥तत्राष्टम्यां चतुर्द्दश्यां स्नापयेत्पयसा शिवम् ॥
पूजयेच्च विधानेन गन्धपुष्पादिभिः क्रमात्
॥५॥हिरण्यं तत्र दातव्यं सम्यग्यात्राफलेप्सुभिः ॥
चत्वारि तस्य नामानि कथ्यमानानि मे शृणु
॥६॥आदौ कृतयुगे देवि कीर्तितो भैरवेश्वरः ॥
ततः सावर्णिमनुना सम्यगाराधितः प्रिये
॥७॥सावर्णिकेश्वरं नाम त्रेतायां तस्य संज्ञितम् ॥
ततस्तु द्वापरे देवि गालवेन महात्मना ॥
सम्यगाराधितस्तत्र लिंगरूपीवृषध्वजः
॥८॥तृतीयं तस्य देवस्य गालवेश्वरसंज्ञितम् ॥
कलौ युगे तु संप्राप्ते शाकल्योनाम वै मुनिः
॥९॥यत्र सिद्धिमनुप्राप्त ऐश्वर्यं चाणिमादिकम् ॥
शाकल्येश्वरनामेति ततः ख्यातं तुरीयकम्
॥१०॥एवं चातुर्युगं नाम तस्य लिंगस्य कीर्तितम् ॥
पापघ्नं पुण्यदं नॄणां कीर्त्तितं सर्वकामदम्
॥११॥तस्यैव देवदेवस्य क्षेत्रोत्पत्तिं शृणु प्रिये
॥१२॥अष्टादशधनुर्देवि समंतात्परिमण्डलम् ॥
महापापहरं देवि तत्र क्षेत्रनिवासिनाम्
॥१३॥कृमिकीटपतंगानां तिरश्चामपि मोक्षदम् ॥
यत्र कूपादितोयेषु जलं सारस्वतं स्मृतम्
॥१४॥यत्र तत्र नरः स्नात्वा स्वर्गलोके महीयते ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च
॥१५॥तत्फलं समवाप्नोति तस्य लिंगस्य दर्शनात् ॥
सोमपर्वणि संप्राप्ते यस्तत्र शुचिरात्मवान्
॥१६॥अघोरं च जपेत्सम्यगाज्यहोमसमन्वितम् ॥
तल्लिंगस्य समीपस्थो यावन्मासावधिः प्रिये
॥१७॥महापातकयुक्तोऽपि युक्तो वाऽप्युपपातकैः ॥
स सर्वां लभते सिद्धिमुत्तमां वरवर्णिनि
॥१८॥कामिकं तत्स्मृतं लिंगं सर्वकामफलप्रदम् ॥
अघोर वक्त्रं देवस्य तत्रस्थं भैरवं महत्
॥१९॥भैरवेश्वरनामेति पूर्वं ख्यातमभूद्भुवि ॥
अस्मिन्युगे तु संप्राप्ते शाकल्येश्वरनामकम्
॥२०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शाकल्येश्वरमाहात्म्यवर्णनंनाम चतुःसप्ततितमोऽध्यायः ॥ ७४ ॥