मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ४४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 44

सोमेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

आदित्येशं समभ्यर्च्य पुनः सोमेश्वरं व्रजेत् ॥

तं संपूज्य विधानेन पंचांगेन विशेषतः

॥१॥

दृष्ट्वा सोमेश्वरं चैव साष्टांगं प्रणिपत्य च ॥

प्रदक्षिणादिकं कुर्यात्संपश्येच्च पुनःपुनः

॥२॥

सूर्याचन्द्रमसोर्लिंगं त्रिःकृत्वा प्रयतः शुचिः ॥

अग्नीषोमात्मकं कर्म तेन सर्वं कृतं भवेत्

॥३॥

उमादेवीं ततो गच्छेत्सोमेश्वरसमीपतः ॥

द्वितीयां तु ततो गच्छेद्दैत्यसूदनसन्निधौ

॥४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रमासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४ ॥