मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १७४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 174

कुन्तीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कुन्तीश्वरमनुत्तमम् ॥

सावित्र्याः पूर्वभागस्थं खातमध्ये व्यवस्थितम्

॥१॥

कुन्त्या प्रतिष्ठितं देवि क्षेत्रे प्राभासिके प्रिये ॥

पाण्डवास्तु यदा पूर्वं प्रभासक्षेत्रमागताः

॥२॥

तीर्थयात्राप्रसंगेन कुन्त्या चैव समन्विताः ॥

तस्मिन्काले महादेवि ज्ञात्वा क्षेत्रमनुत्तमम्

॥३॥

कुन्त्या प्रतिष्ठितं लिंगं सर्वपापभयापहम् ॥

कार्तिक्यां तु विशेषेण यस्तं पूजयते नरः ॥

स सर्वकामतृप्तात्मा रुद्रलोके महीयते

॥४॥

वाचिकं मानसं पापं कर्मणा यदुपार्जितम् ॥

तत्सर्वं नश्यते देवि तस्य लिंगस्य दर्शनात्

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुन्तीश्वरमाहात्म्यवर्णनंनाम चतुःसप्तत्युत्तरशततमोऽध्यायः ॥ १७४ ॥