मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ६७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 67

कामेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गछेन्महालिंगं कामेश्वरमिति श्रुतम् ॥

कामेनाराधितं पूर्वं दैत्यसूदनपश्चिमे

॥१॥

धनुषां सप्तके तत्र स्थितं देवि महाप्रभम् ॥

निर्दग्धस्तु यदा काम स्तृतीयेनाग्निना मम

॥२॥

तदा वर्षसहस्रं तु समाराध्य महेश्वरम् ॥

प्रपेदे कामनासर्गं यत्रानंगः पुरा किल

॥३॥

तेन कामेश्वरंनाम ख्यातं लिंगं धरातले ॥

सर्वपापहरं देवि सर्वकामफलप्रदम्

॥४॥

त्रयोदश्यां विधानेन शुक्लायां मासि माधवे ॥

संपूज्य तं विधानेन स स्त्रीणां कामवद्भवेत्

॥५॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कामेश्वरमाहात्म्यवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ ६७ ॥