कंकालभैरवक्षेत्रपालमाहात्म्यवर्णनम्
ईश्वर उवाच
तत्रैव संस्थितं पश्येत्क्षेत्रपालमनुत्तमम् ॥
कंकालभैरवंनाम भैरवेण नियोजितम् ॥
तस्य क्षेत्रस्य रक्षार्थं प्राणिनां दुष्टचेतसाम्
॥१॥श्रावणे शुक्लपञ्चम्यामष्टम्यामाश्विनस्य च ॥
यस्तं पूजयते भक्त्या बलिपुष्पादिभिः क्रमात्
॥२॥तस्य क्षेत्रे निवसतः पुष्करस्य महात्मनः ॥
निर्विघ्नकारी भवति तथा रक्षति पुत्रवत्
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कंकालभैरवक्षेत्रपालमाहात्म्यवर्णनंनाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥ १३७ ॥