ततो गच्छेन्महादेवि देवं पाशुपतेश्वरम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवं पाशुपतेश्वरम् ॥
उग्रसेनेश्वराद्देवि पूर्वभागे व्यवस्थितम्
॥१॥गोपादित्यात्तथाग्नेय्यां ध्रुवेशाद्दक्षिणां श्रितम् ॥
सर्वपापहरं देवि पूर्वभागे व्यवस्थितम्
॥२॥गोपादित्यात्तथा लिंगं दर्शनात्सर्वकामदम् ॥
अस्मिन्युगे समाख्यातं संतोषेश्वरसंज्ञितम्
॥३॥संतुष्टो भगवान्यस्मात्तेषां तत्र तपस्विनाम् ॥
तेन संतोषनाम्ना तु प्रख्यातं धरणीतले
॥४॥युगलिंगं महादेवि सिद्धिस्थानं महाप्रभम् ॥
स्थानं पाशुपतानां च भेषजं पापरोगिणाम्
॥५॥चत्वारो मुनयः सिद्धास्तस्मिँल्लिंगे यशस्विनि ॥
वामदेवस्तु सावर्णिरघोरः कपिलस्तथा ॥
तस्मिँल्लिंगे तु संसिद्धा अनादीशे निरंजने
॥६॥तस्य देवस्य सामीप्ये वने श्रीमुखसंज्ञितम् ॥
लक्ष्मीस्थानं महादेवि सिद्धयोगैस्तु सेवितम्
॥७॥तत्र पाशुपताः श्रेष्ठा मम लिंगार्चने रताः ॥
तेषां चैव निवासार्थं तद्देव्या निर्मितं वनम्
॥८॥तस्य मध्ये तु सुश्रोणि लिंगं पूर्वमुखं स्थितम् ॥
तस्मिन्पाशुपताः सिद्धा अघोराद्या महर्षयः ॥
अनेनैव शरीरेण गतास्ते शिवमन्दिरम्
॥९॥तत्र प्राभासिके क्षेत्रे सुरसिद्धनिषेविते ॥
रोचते मे सदा वासस्तस्मिन्नायतने शुभे ॥
सर्वेषामेव स्थानानामतिरम्यमतिप्रियम्
॥१०॥तत्र पाशुपता देवि मम ध्यानपरायणाः ॥
मम पुत्रास्तु ते सर्वे ब्रह्मचर्येण संयुताः
॥११॥दान्ताः शांता जितक्रोधा ब्राह्मणास्ते तपस्विनः ॥
तल्लिंगस्य प्रभावेन सिद्धिं ते परमां गताः
॥१२॥तस्मात्तं पूजयेन्नित्यं क्षेत्रवासी द्विजोत्तमः
॥१३॥देव्युवाच
भगवन्देवदेवेश संसारार्णवतारक ॥
प्रभासे तु महाक्षेत्रे त्वदीयव्रतचारिणाम्
॥१४॥स्थानं तेषां महत्पुण्यं योगं पाशुपतं तथा ॥
कथयस्व प्रसादेन लिंगमाहात्म्यमुत्तमम्
॥१५॥किमादिनाम देवस्य कथं पूज्यो नरोत्तमैः ॥
कथं पाशुपतास्तत्र सदेहाः स्वर्गमागताः
॥१६॥एतत्कथय देवेश दयां कृत्वा मम प्रभो
॥१७॥ईश्वर उवाच
यस्त्वया पृछ्यते भद्रे योगः पाशुपतो महान् ॥
तेषां चैव प्रभावो यस्तथा लिंगस्य सुव्रते
॥१८॥अनादीशस्य देवस्य आदिनाम महाप्रभे ॥
तस्मिँल्लिंगे तु ये देवि मदीयव्रतमाश्रिताः
॥१९॥चिरं नियोगं सुश्रोणि व्रतं पाशुपतं महत् ॥
धारयंति यथोक्तं तु मम विस्मयकारकम् ॥
तेषामनुग्रहार्थाय मम चित्तं प्रधावति
॥२०॥सूत उवाच
हरस्य वचनं श्रुत्वा देवी विस्मयमागता ॥
उवाच वचनं विप्राः सर्वलोकपतिं पतिम्
॥२१॥ममापि कौतुकं देव किमकार्षीत्ततो भवान् ॥
तद्ब्रूहि मे महादेव यद्यहं तव वल्लभा
॥२२॥तस्यास्तद्वचनं श्रुत्वा महादेवो जगाद ताम् ॥
शृणु देवि प्रवक्ष्यामि मम भक्तविचेष्टितम्
॥२३॥दृष्ट्वा चैव तपोनिष्ठां तेषामाद्यः सुरेश्वरः ॥
उवाच वचनं देवः प्रणतान्पार्श्वतः स्थितान्
॥२४॥ईश्वर उवाच
गच्छ शीघ्रं नन्दिकेश यत्र ते मम पुत्रकाः ॥
चरंति च व्रतं घोरं मदीयं चातिदुष्करम्
॥२५॥तत्क्षेत्रस्य प्रभावेन भक्त्या च मम नित्यशः ॥
तेन ते मुनयः सिद्धाः स्वशरीरेण सुव्रताः
॥२६॥तस्मान्मद्वचनान्नन्दिन्गच्छ प्राभासिकं शुभम् ॥
आमन्त्रय त्वं तान्सर्वान्कैलासं शीघ्रमानय
॥२७॥इदं पद्मं गृहाण त्वं सनालं कलिकोज्ज्वलम् ॥
लिंगस्य मूर्ध्नि दत्त्वेदं पद्मनालमिहानय
॥२८॥मुक्तस्तदा स वै नन्दी देवदेवेन शंभुना ॥
कैलासनिलयात्तस्मात्प्रभासं क्षेत्रमागतः
॥२९॥दृष्ट्वा चैव पुनर्लिङ्गं देवदेवस्य शूलिनः ॥
दृष्ट्वा तांश्चैव योगीन्द्रान्परं विस्मयमागतः
॥३०॥केचिद्ध्यानरतास्तत्र केचिद्योगं समाश्रिताः ॥
केचिद्व्याख्यां प्रकुर्वन्ति विचारमपि चापरे
॥३१॥कुर्वन्त्यन्ये लिंगपूजां प्रणामं च तथाऽपरे ॥
प्रदक्षिणं प्रकुर्वन्ति साष्टांगं प्रणमन्ति च
॥३२॥केचित्स्तुतिं प्रकुर्वन्ति भावयज्ञैस्तथा परे ॥
केचित्पूजां च कुर्वन्ति अहिंसाकुसुमैः शुभैः
॥३३॥भस्मस्नानं प्रकुर्वंति गण्डुकैः स्नापयन्ति च ॥
एवं व्याकुलतां यातं तपस्विगणमण्डलम्
॥३४॥तत्तादृशमथालोक्य नन्दी विस्मयमागतः ॥
चिन्तयामास मनसा सर्वं तेषां निरीक्ष्य च
॥३५॥आगतोऽहमिमं देशं न कश्चिन्मां निरीक्षते ॥
न केनचिदहं पृष्टोऽभ्यागतः कुत्र कस्य च
॥३६॥अहंकारावृताः सर्वे न वदन्ति च मां क्वचित् ॥
एवं मनसि संधाय लिंगपार्श्वमुपागतः
॥३७॥दत्तं लिंगस्य तत्पद्मनालं छित्त्वा तु नन्दिना ॥
अर्चयित्वा तु तन्नन्दी लिंगं पाशुपतेश्वरम् ॥
नालं गृहीत्वा यत्नेन ऋषीन्वचनमब्रवीत्
॥३८॥नन्दिकेश्वर उवाच
शासनाद्देवदेवस्य भवतां पार्श्वमागतः ॥
आज्ञापयति देवेशस्तपस्विगणमण्डलम्
॥३९॥युष्माभिस्तत्र गन्तव्यं यत्र देवः सनातनः ॥
युष्मान्सर्वान्समादाय गमिष्यामि भवालयम्
॥४०॥उत्तिष्ठताशु गच्छामः कैलासं पर्वतोत्तमम् ॥
तूष्णींभूतास्ततः सर्वे प्रोचुस्ते संज्ञया द्विजाः ॥
गम्यतामग्रतो नन्दिन्पश्चादेष्यामहे वयम्
॥४१॥एवमुक्तस्तु मुनिभिर्नन्दी शीघ्रतरं गतः ॥
कथयामास तत्सर्वं कुपितेनान्तरात्मना
॥४२॥नन्दिकेश्वर उवाच
देव तत्र गतोऽहं वै यत्र ते योगिनः स्थिताः ॥
सन्तोषितो न चैवाहं केनचित्तत्र संस्थितः
॥४३॥न मां देव निरीक्षन्ते नालपंति कथंचन ॥
पद्मं तत्र मया देव स्थापितं लिंग मूर्धनि
॥४४॥उक्तं देव मया तेषां योगीन्द्राणां महेश्वर ॥
आज्ञप्ता देवदेवेन इहागच्छत मा चिरम्
॥४५॥एतच्छ्रुत्वा वचः स्वामिन्सर्वे तत्र महर्षयः ॥
आगमिष्याम इति वै पृष्ठतो गच्छ मा चिरम्
॥४६॥इत्युक्ते तैस्तथा देव अहं शीघ्रमिहागतः ॥
शृणु चेमं गृहाण त्वं यथेष्टं कुरु मे प्रभो
॥४७॥एकं मे संशयं देव च्छेत्तुमर्हसि सांप्रतम् ॥
मया विना महादेव आगमिष्यंति ते कथम् ॥
संशयो मे महादेव कथयस्व महेश्वर
॥४८॥ईश्वर उवाच
शृणु नंदिन्यथाश्चर्यं तेषां वै भावितात्मनाम् ॥
न दृश्यन्त इमे सिद्धा मां मुक्त्वाऽन्यैः सुरैरपि
॥४९॥मद्भावभावितास्ते वै योगं विंदंति शांकरम् ॥
पश्यैतत्कौतुकं नंदिन्दर्शयामि तवाधुना
॥५०॥आनीतं यत्त्वया नालं तस्मिन्नाले तु सूक्ष्मवत् ॥
प्रविश्य चागताः सर्वे योगैश्वर्यबलेन च
॥५१॥एवमुक्तस्तदा नंदी विस्मयोत्फुल्ललोचनः ॥
अपश्यन्नालमध्यस्थान्महर्षीन्परमाणुवत्
॥५२॥यथार्करश्मिमध्यस्था दृश्यन्ते परमाणवः ॥
एवं तन्नालमध्यस्था दृश्यंत ऋषयः पृथक्
॥५३॥एवं दृष्ट्वा तदा नंदी विस्मयोत्फुल्ललोचनः ॥
आश्चर्यं परमं गत्वा किञ्चिन्नेवाब्रवीत्पुनः
॥५४॥एवं तत्कौतुकं दृष्ट्वा देवी वचनमब्रवीत् ॥
किं दृश्यते महादेव हृष्टः कस्मान्महेश्वर
॥५५॥इत्युक्ते वचने देव्या प्रोवाचेदं महेश्वरः
॥५६॥ईश्वर उवाच
योगयुक्ता महात्मानो योगे पाशुपते स्थिताः ॥
एते मां च समाराध्य प्रभासक्षेत्रवासिनम् ॥
ईदृशीं सिद्धिमापन्नाः स्वच्छंदगतिचारिणः
॥५७॥इत्युक्तवति देवेश ऋषयस्ते महाप्रभाः ॥
पद्मनालाद्विनिःसृत्य सर्वे वै योगमायया ॥
प्रदक्षिणां प्रकुर्वंति देवं देव्या बहिष्कृतम्
॥५८॥देव्युवाच
किमर्थं मां न पश्यंति दुराचारा इमे द्विजाः ॥
विस्मयोऽयं महादेव कथयस्व प्रसादतः
॥५९॥ईश्वर उवाच
प्रकृतित्वान्न पश्यंति सिद्धा ह्येते महातपाः ॥
एवमुक्ता तु गिरिजा देवेदेवेन शूलिना
॥६०॥चुकोप तेषां सुश्रोणी शशाप क्रोधितानना ॥
स्त्रीलौल्येन दुराचारा नाशमेष्यथ गर्विणः
॥६१॥राजप्रतिग्रहासक्ता वृत्त्या देवार्चने रताः ॥
भविष्यथ कलौ प्राप्ते लिंगद्रव्योपजीविनः
॥६२॥वेश्यासक्ताश्च संभ्रांता सर्वलोकबहिष्कृताः ॥
देवद्रव्यविनाशाय भविष्यथ कलौ युगे
॥६३॥इति दत्ते तदा शाप ऋषीणां च महात्मनाम् ॥
गौरीं प्रसादयामासुस्ते च सर्वे सुरेश्वराः
॥६४॥देवदेवस्य वचनात्प्रसन्ना साऽभवत्पुनः ॥
नालं देवोऽपि संगृह्य दक्षिणाशां समाक्षिपत्
॥६५॥पतितं तच्च वै नालं प्रभासक्षेत्रमध्यतः ॥
तदेव लिंगं संजातं महानालेति विश्रुतम्
॥६६॥कलौ युगे च संप्राप्ते तद्ध्रुवेश्वरसंज्ञितम् ॥
संस्थितं चोत्तरेशाने तस्मात्पाशुपतेश्वरात्
॥६७॥पुराऽनादीशनामेति पश्चात्पाशुपतेश्वरः ॥
प्रभासे तु महाक्षेत्रे स्थितः पातकनाशनः
॥६८॥इदं स्थानं परं श्रेष्ठं मम व्रतनिषेवणम् ॥
इदं लिंगं परं ब्रह्म अनादीशेति संज्ञितम्
॥६९॥अत्र सिद्धिश्च मुक्तिश्च ब्राह्मणानां न संशयः ॥
अनेनैव शरीरेण षड्भिर्मासस्तु सिद्ध्यति
॥७०॥संसारस्य विमोक्षार्थमिदं लिंगं तु दृश्यताम् ॥
दुर्लभं सर्वलोकानामिदं मोक्षप्रदं परम् ॥
इदं पाशुपतं ज्ञानमस्मिँल्लिंगे प्रतिष्ठितम्
॥७१॥यश्चैनं पूजयेद्भक्त्या माघे मासि निरंतरम् ॥
सर्वेषां वै क्रतूनां च दानानां लभते फलम्
॥७२॥हिरण्यं तत्र दातव्यं सम्यग्यात्राफलेप्सुभिः
॥७३॥इत्येतत्कथितं देवि माहात्म्यं पापनाशनम् ॥
पशुपाशविमोक्षार्थं सम्यक्पाशुपतेश्वरम्
॥७४॥चतुर्णामपि वर्णानां पूज्यो ब्राह्मण उच्यते ॥
तस्य चैवाधिकारोऽस्ति चास्मिन्पाशुपतेश्वरे
॥७५॥यद्देवतानां प्रथमं पवित्रं विश्वव्रतं पाशुपतं बभूव ॥
अयं पन्था नैष्ठिको वै मयोक्तो येन देवा यांति भुवनानि विश्वा
॥७६॥सुरां पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्राह्मणं चापि हत्वा ॥
भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते पातकेभ्यः
॥७७॥अग्निरित्यादिना भस्म गृहीत्वांगानि संस्पृशेत् ॥
गृह्णीयात्संयते चाग्नौ भस्म तद्गृहवासिनाम्
॥७८॥अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म सर्वं ह वा इदं भस्माभवत् ॥
एतानि चक्षूंषि नादीक्षितः संस्पृशेत्
॥७९॥ब्राह्मणैश्च समादेयं न तु शूद्रैः कदाचन ॥
नाधिकारोऽस्ति शूद्रस्य व्रते पाशुपते सदा
॥८०॥ब्राह्मणेष्वधिकारोऽस्ति व्रते पाशुपते शुभे ॥
ब्राह्मणीं तनुमास्थाय संभवामि युगेयुगे
॥८१॥चण्डालवेश्मन्यथ वा स्मशाने राज्ञश्च मार्गेश्वथ वर्त्ममध्ये ॥
करीषमध्ये निःसृता नराधमाः शैवं पदं यांति न संशयोऽत्र
॥८२॥इति श्रीस्कांदे महापुराण एकाशी तिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पाशुपतेश्वरमाहात्म्यवर्णनंनाम त्रिंशदुत्तरशततमोध्यायः ॥ १३० ॥