ततो गच्छेन्महादेवि विश्वेशं दुर्गकूटकम्
ईश्वर उवाच
ततो गच्छेन्महादेवि विश्वेशं दुर्गकूटकम् ॥
भल्लतीर्थस्य पूर्वेण योगिनीचक्रदक्षिणे
॥१॥आराधितोऽसौ भीमेन सर्वकामप्रदोऽभवत् ॥
फाल्गुनस्य चतुर्थ्यां तु शुक्लपक्षे विधानतः
॥२॥यस्तं पूजयते देवं गन्धपुष्पैः समोदकैः ॥
निर्विघ्नं जायते तस्य वर्षमेकं न संशयः
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये दुर्गकूटगणपतिमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३४९ ॥