मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३६२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 362

एकादशरुद्रलिंगमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि गोष्पदस्योत्तरे स्थितम् ॥

गव्यूतिद्वितयेनैव वलाय इति विश्रुतम्

॥१॥

तत्रैकादशरुद्राणां स्थानलिंगान्यपि प्रिये ॥

अजैकपादहिर्बुध्न्यः संतीत्यादीनि नामतः ॥

पूजयेत्तानि विधिवन्मुच्यते सर्वपातकैः

॥२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रलिंगमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६२ ॥