स्नात्वा तत्राग्नितीर्थेषु कं देवं पूर्वमर्च्चयेत्
देव्युवाच
स्नात्वा तत्राग्नितीर्थेषु कं देवं पूर्वमर्च्चयेत् ॥
निर्विघ्ना जायते येन यात्रा नृणां सुरेश्वर ॥
तन्मे यात्राविधानं तु यथावद्वक्तुमर्हसि
॥१॥ईश्वर उवाच
एवं स्नात्वा विधानेन दत्त्वार्घ्यं च महोदधौ ॥
संपूज्य गंधपुष्पैश्च वस्त्रैः पुष्पावलेपनैः
॥२॥हिरण्मयं यथाशक्त्या प्रक्षिपेत्तत्र कंकणम् ॥
ततः पितॄंस्तर्पयित्वा गच्छेद्देवं कपर्दिनम्
॥३॥पुष्पैर्धूपैस्तथा गन्धैर्वस्त्रैः संपूज्य भक्तितः ॥
गणानां त्वेति मन्त्रेण अर्घ्यं चास्मै निवेदयेत्
॥४॥शूद्राणामथ देवेशि मंत्रश्चाष्टाक्षरः स्मृतः ॥
तत्र सोमेश्वरं गच्छेद्देवं पापहरं परम्
॥५॥स्नापयित्वा विधानेन जपेच्च शतरुद्रियम् ॥
तथा रुद्रान्सपञ्चांगास्तथान्या रुद्रसंहिताः
॥६॥स्नापयेत्पयसा चैव दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत्
॥७॥कर्पूरोशीरमिश्रेण मृगनाभियुतेन च ॥
चन्दनेन सुगन्धेन पूज्यं संपूजयेत्ततः
॥८॥धूपैर्बहुविधैर्देवं धूपयित्वा यथाविधि ॥
वस्त्रैः संवेष्टयेत्पश्चाद्दद्यान्नैवेद्यमुत्तमम्
॥९॥आरार्तिकं ततः कृत्वा नृत्यं कुर्याद्यथेच्छया ॥
अष्टांगं प्रणिपत्यैवं गीतवाद्यादिकं ततः
॥१०॥धर्मश्रवणसंयुक्तं कार्यं प्रेक्षणकं विभोः ॥
ततो दद्याद्द्विजातिभ्यस्तपस्विभ्यश्च शक्तितः
॥११॥दीनांधकृपणेभ्यश्च दानं कार्पटिकेषु च ॥
वृषभस्तत्र दातव्यः प्रवृत्ते क्रूरकर्मणि ॥
उपवासं ततः कुर्यात्तस्मिन्नहनि भामिनि
॥१२॥यस्मिन्नहनि पश्येत देवं सोमेश्वरं नरः ॥
सा तिथिर्वर्षमेकं तु उपोष्या भक्तितत्परैः
॥१३॥एवं कृत्वा नरो भक्त्या लभते जन्मनः फलम् ॥
तथा च सर्वतीर्थानां सकलं लभते फलम्
॥१४॥उद्धरेत्पितृवर्गं च मातृवर्गं च भामिनि ॥
बाल्ये वयसि यत्पापं वार्धक्ये यौवनेऽपि वा
॥१५॥क्षालयेच्चैव तत्सर्वं दृष्ट्वा सोमेश्वरं नरः ॥
न दुःखितो न दारिद्रो दुर्भगो वा न जायते
॥१६॥सप्तजन्मान्तरेणैव दृष्टे सोमेश्वरे विभौ ॥
धनधान्यसमायुक्ते स्फीते सञ्जायते कुले
॥१७॥भक्तिर्भवति भूयोऽपि सोमनाथं प्रति प्रभुम् ॥
क्षीरेण स्नपनं पूर्वं ततो धारासमुद्भवम्
॥१८॥प्रथमे प्रथमे यामे महास्ना नमतः परम् ॥
मध्याह्ने देवदेवस्य ये प्रपश्यन्ति मानवाः ॥
संध्यामारार्तिकं भूयो न जायन्ते च मानुषाः
॥१९॥मत्वा कलियुगं रौद्रं बहुपापं वरानने ॥
नान्येन तरते दुर्गां कर्मणा दुर्गतिं नरः
॥२०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये सोमेश्वरमाहात्म्ये सोमेश्वरपूजामाहात्म्यवर्णनंनाम त्रिंशोध्यायः ॥ ३० ॥