मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ११३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 113

जानकीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि जानकीश्वरमुत्तमम् ॥

रामेशान्नैऋते भागे धनुस्त्रिंशकसंस्थितम्

॥१॥

पापघ्नं सर्वजंतूनां जानक्याऽऽराधितं पुरा ॥

प्रतिष्ठितं विशेषेण सम्यगाराध्यशंकरम्

॥२॥

पूर्वं तस्यैव लिंगस्य वसिष्ठेशेति नाम वै ॥

तत्पश्चाज्जानकीशेति त्रेतायां प्रथितं क्षितौ

॥३॥

ततः षष्टिसहस्राणि वालखिल्या महर्षयः ॥

तत्र सिद्धिमनुप्राप्तास्तेन सिद्धेश्वरेति च

॥४॥

ख्यातं कलौ महादेवि युगलिंगं महाप्रभम् ॥

तद्दृष्ट्वा मुच्यते पापैर्दुःखदौर्भाग्यसंभवैः

॥५॥

यस्तं पूजयते भक्त्या नारी वा पुरुषोऽपि वा ॥

संस्नाप्य विधिवद्भक्त्या स मुक्तः पातकैर्भवेत्

॥६॥

स्नात्वा च पुष्करे तीर्थे यस्तल्लिगं प्रपूजयेत् ॥

नियतो नियताहारो मासमेकं निरन्तरम्

॥७॥

दिनेदिने भवेत्तस्य वाजिमेधाधिकं फलम् ॥

माघे मासि तृतीयायां या नारी तं प्रपूजयेत् ॥

तदन्वयेऽपि दौर्भाग्यं दुःखं शोकश्च नो भवेत्

॥८॥

इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥

श्रुतं हरति पापानि सौभाग्यं संप्रयच्छति

॥९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जानकीश्वरमाहात्म्यवर्णनंनाम त्रयोदशोत्तरशततमोऽध्यायः ॥ ११३ ॥