वृषभध्वजेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवं त्रैलोक्यपूजितम् ॥
वृषध्वजेश्वरं नाम स्थितं दक्षिणतस्तथा
॥१॥यत्तदक्षरमव्यक्तं परं यस्मान्न विद्यते ॥
योगगम्यमनाद्यंतं वृषभध्वज संमितम्
॥२॥सर्वाश्चर्यमयं देवि बुद्धिग्राह्यं निरामयम् ॥
विश्वतः पाणिपादं च विश्वतोऽक्षिशिरोमुखम्
॥३॥तं च देवं चिरं स्थाणुं वृषभध्वजसंज्ञितम् ॥
पृथुर्मरुच्च भरतः शशबिन्दुर्गयः शिबिः
॥४॥रामोंऽबरीषो मांधाता दिलीपोऽथ भगीरथः ॥
सुहोत्रो रंतिदेवश्च ययातिः सगरस्तथा
॥५॥षोडशैते नृपा धन्याः प्रभासं क्षेत्रमाश्रिताः ॥
वृषध्वजेशमाराध्य यज्ञैरिष्ट्वा दिवं गताः
॥६॥सत्यं वच्मि हितं वच्मि सारं वच्मि पुनःपुनः ॥
असारे दग्धसंसारे सारं तत्र शिवार्चनम्
॥७॥पुनर्जन्म पुनर्मृत्युः पुनः क्लेशः पुनर्जरा ॥
अहरहर्घटीन्यायो न कदाचिदपीदृशः
॥८॥तदा श्वेतस्य संसारग्रन्थेरत्यन्तदुर्भिदः ॥
परं निर्मूलविच्छेदि क्रियतां तद्भवार्चनम्
॥९॥तस्य चिन्तामणिर्गेहे तस्य कल्पद्रुमः कुले ॥
कुबेरः किंकरस्तस्य भक्तिर्यस्य शिवे स्थिता
॥१०॥सेयं लक्ष्मीः पुरा पुंसां सेयं भक्तिः समीहिता ॥
सेयं श्रेयस्करी मूर्तिर्भक्तिर्या वृषभध्वजे
॥११॥पुष्पैः पंचभिरप्यत्र पूजयित्वा महेश्वरम् ॥
दशानामश्वमेधानां फलं प्राप्नोति मानवः
॥१२॥वृषभस्तत्र दातव्यो वृषभध्वज संनिधौ ॥
सर्वपातकनाशार्थं सम्यग्यात्राफलेप्सुभिः
॥१३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये वृषभध्वजेश्वरमाहात्म्यवर्णनंनाम विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२० ॥