मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ९८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 98

ततो गच्छेन्महादेवि चंडेश्वरमिति श्रुतम्

ईश्वर उवाच

ततो गच्छेन्महादेवि चंडेश्वरमिति श्रुतम् ॥

सोमेशाद्वायवे भागे धनुषां षष्टिभिः स्थितम्

॥१॥

दिव्यं लिंगं महादेवि सर्वपातकनाशनम् ॥

तत्पूर्वे तु युगे ख्यातं मनोः स्वायंभुवांतरे

॥२॥

त्रेतायुगमुखे देवि पृथिव्या संप्रतिष्ठितम् ॥

पूर्वमन्वंतरे चास्मिँल्लिङ्गं पृथ्वीश्वरं प्रिये

॥३॥

पुनश्चंद्रेण तत्प्राप्तं लिंगं चंद्रेश्वरं प्रिये ॥

ब्रह्महत्यादिपापानां नाशनं पुण्यवर्द्धनम्

॥४॥

तं दृष्ट्वा मानवो देवि सप्तजन्मसमुद्भवैः ॥

मुच्यते कल्मषैः सर्वैः कृतकृत्यस्तु जायते

॥५॥

देव्युवाच

कथं पृथ्वीश्वरं ख्यातं तल्लिंगं पाप नाशनम् ॥

कथं पुनः समाख्यातं चन्द्रेश्वरमिति प्रभो ॥

एतद्विस्तरतो ब्रूहि श्रोतुकामाहमादरात्

॥६॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि कथा पापप्रणाशिनीम् ॥

यां श्रुत्वा मुच्यते जंतुस्त्रिविधैः कर्मबन्धनैः

॥७॥

आसीत्पूर्वं महादेवि दैत्यभारार्द्दिता मही ॥

साऽधो व्रजंती सहसा गोरूपा संबभूव ह

॥८॥

इतस्ततो धावमाना न लेभे निर्वृतिं क्वचित् ॥

ततो वर्षशते पूर्णे भ्रममाणा क्वचित्क्वचित्

॥९॥

आससाद महाक्षेत्रं प्रभासमिति विश्रुतम् ॥

देवदानवगंधर्वैः सेवितं पापनाशनम्

॥१०॥

तत्र स्थित्वा महाक्षेत्रे कृत्वा मनसि निश्चयम् ॥

लिंगं प्रतिष्ठयामास भक्त्या परमया युता

॥११॥

वर्षाणां च शतं साग्रं कृते तपसि दुश्चरे ॥

तुतोष भगवान्रुद्रो धरित्रीं वाक्यमब्रवीत्

॥१२॥

देवि विश्वंभरे सर्वं तपः सुचरितं त्वया ॥

मा शोकं कुरु कल्याणि भविष्यति तवेप्सितम्

॥१३॥

दैत्या नाशं गमिष्यंति विष्णुना निहता भुवि ॥

भवित्री त्वं महादेवि दैत्यभारविवर्जिता

॥१४॥

इदं त्वया स्थापितं यल्लिंगं परमशोभनम् ॥

धरित्रीनाम्ना विख्यातं लोके ख्यातिं गमिष्यति

॥१५॥

अत्राहं संस्थितो नित्यं लिंगरूपी महाप्रभुः ॥

स्थास्यामि कल्पेकल्पे वै नृणां पापापहारकः

॥१६॥

मूर्त्यष्टकसमायुक्तो लिंगे ऽस्मिन्संस्थितः सदा ॥

नृणां नाशयिता पापं पूर्वजन्मशतार्जितम्

॥१७॥

भाद्रे कृष्णतृतीयायां यश्चैतं पूजयिष्यति ॥

सोऽश्वमेधसहस्रस्य फलमाप्स्यत्यसंशयम्

॥१८॥

सर्वतीर्थाभिषेकस्य सर्वेषां दानकर्मणाम् ॥

भविष्यति फलं तस्य लिंगस्यैवास्य पूजनात्

॥१९॥

धनुषां षोडशं यावत्समंतात्परिमंडलम् ॥

क्षेत्रमस्य समाख्यातं प्राणिनां मुक्तिदायकम्

॥२०॥

तस्मिन्मृताः प्राणिनो ये कामतो वाप्यकामतः ॥

कृमि कीटसमा वापि ते यांति परमां गतिम्

॥२१॥

यो दद्यात्काञ्चनं मेरुं कृत्स्नां वाऽपि वसुन्धराम् ॥

यः पूजयति पृथ्वीशं स तयोरधिकः स्मृतः

॥२२॥

ईश्वर उवाच

इति दत्त्वा वरान्देवस्तत्रैवांतरधीयत ॥

पृथिवीश्वरनामाभूत्तत्प्रभृत्येव शंकरः

॥२३॥

पुनरस्मिन्महाकल्पे वाराह इति विश्रुते ॥

कदाचिद्दक्षशापेन क्षीणश्चन्द्रो बभूव ह

॥२४॥

पपात भूतले देवि यक्ष्मणा पीडितः शशी ॥

क्षेत्रं प्रभासमासाद्य तन्महोदधिसंनिधौ

॥२५॥

दृष्ट्वा पृथ्वीश्वरं लिंगं सप्रभावं महाप्रभम् ॥

तत्पूजानिरतो भूत्वा वर्षाणां तु सहस्रकम्

॥२६॥

अतपत्स तपो रौद्रं शीर्णपर्णांबुभक्षकः ॥

यतः समभवद्दीप्त्या सर्वाह्लादकरः शशी

॥२७॥

तल्लिंगस्यैव माहात्म्यात्ततश्चंद्रेश्वरोऽभवत् ॥

तस्य लिंगस्य माहात्म्याच्चंद्रमा गतकल्मषः

॥२८॥

अवाप सिद्धिमत्युग्रां स्पर्शलिंगप्रकाशिनीम् ॥

सोमनाथेति यां प्राहुः प्रसिद्धां लिंगरूपिणीम्

॥२९॥

इति संक्षेपतः प्रोक्तं माहात्म्यं चन्द्रदैवतम् ॥

श्रुतं हरति पापानि तथाऽऽरोग्यं प्रयच्छति

॥३०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां पृथ्वीश्वर( चंद्रेश्वर)माहात्म्यवर्णनंनामाष्टनवतितमोध्यायः ॥ ९८ ॥