मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 140

चित्रपथानदीमाहात्म्यवर्णनम्

ततो गच्छेन्महादेवि नदीं चित्रपथां ततः ॥

ब्रह्मकुण्डसमीपस्थां चित्रादित्यस्य मध्यतः

॥१॥

यदा च चित्रः संनीतो यमदूतैः सुरप्रिये ॥

सशरीरो महाप्राज्ञो यमादेशपरायणैः

॥२॥

एवं ज्ञात्वा तु तत्रस्था भगिनी तस्य दुःखिता ॥

चित्रा नदी ततो भूत्वा स्वसा तस्य महात्मनः

॥३॥

प्रविष्टा सागरे देवि अन्वेषन्ती च बांधवम् ॥

ततश्चित्रपथानाम तस्याश्चक्रुर्द्विजातयः

॥४॥

एवं तत्र समुत्पन्ना सा नदी वरवर्णिनि

॥५॥

तस्यां स्नात्वा नरो यस्तु चित्रादित्यं प्रपश्यति ॥

स याति परमं स्थानं यत्र देवो दिवाकरः

॥६॥

अस्मिन्कलियुगे देवि अंतर्धानं गता नदी ॥

प्रावृट्काले च दृश्येत दुर्लभं तत्र दर्शनम्

॥७॥

स्नानं दानं विशेषेण सर्वपातकनाशनम्

॥८॥

भुक्तो वाप्यथवाऽभुक्तो रात्रौ वा यदि वा दिवा ॥

पर्वकालेऽथवाऽकाले पवित्रोऽप्यथवाऽशुचिः

॥९॥

यदैव दृश्यते तत्र नदी चित्रपथा प्रिये ॥

प्रमाणं दर्शनं तस्या न कालस्तत्र कारणम्

॥१०॥

दृष्ट्वा नदीं महादेवि पितरः स्वर्गसंस्थिताः ॥

गायंति तत्र सामानि नृत्यन्ति च हसंति च

॥११॥

अस्माकं वंशजः कश्चिच्छ्राद्धमत्र करिष्यति ॥

यावत्कल्पं तथाऽस्माकं प्रीतिमुत्पादयिष्यति

॥१२॥

एवं ज्ञात्वा नरस्तत्र स्नानं श्राद्धं च कारयेत् ॥

सर्वपापविनाशार्थं पितॄणां प्रीतये तथा

॥१३॥

इत्येतत्कथितं देवि यथा चित्रपथा नदी ॥

प्रभासक्षेत्रमासाद्य संस्थिता पापनाशिनी

॥१४॥

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रपथानदीमाहात्म्यवर्णनंनाम चत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४० ॥