मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ७६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 76

लकुलीशलिंगद्वयमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्यैव देवदेवस्य समीपस्थं विराजते ॥

लिंगद्वयं महापुण्यं लकुलीशप्रतिष्ठितम्

॥१॥

लकुले श्वरनामास्ति तस्य लिंगद्वयस्य वै ॥

तद्दृष्ट्वा देवदेवस्य लिंगद्वयमनुत्तमम्

॥२॥

मुच्यते सकलात्पापादाजन्ममरणांतिकात् ॥

तत्र शुक्लचतुर्द्दश्यां मासि भाद्रपदे प्रिये

॥३॥

उपवासपरो भूत्वा यः करोति प्रजागरम् ॥

मूर्त्तिमंतं तु संपूज्य लकुलीशं महाप्रभम्

॥४॥

ततः संपूज्य विधिना तत्र लिंगद्वयं पृथक् ॥

सम्यक्पूजाविधानेन स्तुतिमंत्रैरनुक्रमात् ॥

स याति परमं स्थानं यत्र देवो महेश्वरः

॥५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरमाहात्म्ये कलकलेश्वरसमीपवर्ति लकुलीशलिंगद्वयमाहात्म्यवर्णनंनाम षट्सप्ततितमोऽध्यायः ॥ ७६ ॥