मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ९२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 92

रुद्रमाहात्म्येऽघोरेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि अघोरेश्वरमुत्तमम् ॥

षष्ठं लिंगं समाख्यातं तद्वक्त्रं भैरवं स्मृतम्

॥१॥

त्र्यंबकेश्वरवायव्ये धनुषां पंचके स्थितम् ॥

सर्वकामप्रदं पुण्यं कलिकल्मषनाशनम् ॥

. यस्तं पूजयते भक्त्या स्नानपूजादिभिः क्रमात् ॥

मेरुदानस्य कृत्स्नस्य स लभेन्मनुजः फलम्

॥३॥

दक्षिणामूर्तिमास्थाय यत्किंचित्तत्र दीयते ॥

अघोरेश्वरदेवस्य तत्सर्वं चाक्षयं भवेत्

॥४॥

यः श्राद्धं कुरुते तत्र अघोरेश्वरदक्षिणे ॥

आकल्पं तृप्तिमायांति पितरस्तस्य तर्पिताः

॥५॥

किं श्राद्धेन गयातीर्थे वाजिमेधेन किं प्रिये ॥

तत्र श्राद्धेन तत्सर्वं फलमभ्यधिकं लभेत्

॥६॥

त्रुटिमात्रमपि स्वर्णं यात्रायां यः प्रयच्छति ॥

स सर्वं फलमाप्नोति महादानस्य भूरिशः

॥७॥

ब्रह्मकूर्चं चरेद्यस्तु सोमाष्टम्यां विधानतः ॥

अघोरेश्वरसांनिध्ये अघोरेणाभिमंत्रितम् ॥

षडब्दस्य महत्तेन प्रायश्चित्तं कृतं भवेत्

॥८॥

इति संक्षेपतः प्रोक्तमघोरेशमहोदयम् ॥

माहात्म्यं सर्वपापघ्नं श्रुतं सर्वार्थसाधकम्

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादश रुद्रमाहात्म्येऽघोरेश्वरमाहात्म्यवर्णनंनाम द्विनवतितमोऽध्यायः ॥ ९२ ॥