इदं देयमिदं देयमिति प्रोक्तं तु यच्छ्रुतौ
देव्युवाच
इदं देयमिदं देयमिति प्रोक्तं तु यच्छ्रुतौ ॥
दानादानविशेषांस्तु श्रोतुमिच्छामि तत्त्वतः
॥१॥कानि दानानि शस्तानि कस्मै देयानि कान्यपि ॥
कालं देशं च पात्रं च सर्वमाचक्ष्व मे विभो
॥२॥ईश्वर उवाच
वृथा जन्मानि चत्वारि वृथा दानानि षोडश ॥
सुजन्मानि च चत्वारि महादानानि षोडश
॥३॥देव्युवाच
एतद्विस्तरतो ब्रूहि देवदेवजगत्पते
॥४॥ईश्वर उवाच
वृथा जन्मानि चत्वारि यानि तानि निबोध मे ॥
कुपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः ॥
प्रवासं ये च गच्छंति परदाररताः सदा
॥५॥परपाकं च येऽश्नंति पर दाररताश्च ये ॥
अप्रत्याख्यं वृथा दानं सदोषं च तथा प्रिये
॥६॥आरूढपतिते चैव अन्यायोपार्जितं धनम् ॥
वृथा ब्रह्महने दानं पतिते तस्करे तथा
॥७॥गुरोश्चाप्रीतिजनने कृतघ्ने ग्रामयाजके ॥
ब्रह्मबन्धौ च यद्दत्तं यद्दत्तं वृषलीपतौ
॥८॥वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ॥
स्त्रीनिर्जिते च यद्दत्तं वृथादानानि षोडश
॥९॥सुजन्म च सुपुत्राणां ये च धर्मे रता नराः ॥
प्रवासं न च गच्छंति परदारपराङ्मुखाः
॥१०॥गावः सुवर्णं रजतं रत्नानि च सरस्वती ॥
तिलाः कन्या गजोश्वश्च शय्या वस्त्रं तथा मही
॥११॥धान्यं पयश्च च्छत्रं च गृहं चोपस्करान्वितम् ॥
एतान्येव महादेवि महादानानि षोडश
॥१२॥गर्वावृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ॥
भुंक्ते दानफलं तद्धि गर्भस्थो नात्र संशय
॥१३॥बालत्वेऽपि च सोऽश्नाति यद्दत्तं दंभकारणात् ॥
मन्युना मंतुना चैव तथैवार्थस्य कारणात्
॥१४॥देशे काले च पात्रे च शुद्धेन मनसा तथा ॥
न्यायार्जितं च यो दद्याद्यौवने स तदश्नुते
॥१५॥अन्यायेनार्जितं द्रव्यमपात्रे प्रतिपादितम् ॥
क्लिष्टं च विधिहीनं च वृद्धभावे तदश्नुते
॥१६॥तस्माद्देशे च काले च सुपात्रे विधिना नरः ॥
शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः
॥१७॥स्वाध्यायाढ्यं योगवंतं प्रशांतं पुराणज्ञं पापभीरुं वदान्यम् ॥
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्रान्तं तादृशं पात्रमाहुः
॥१८॥सत्यं दमस्तपः शौचं सन्तोषोऽनैर्ष्यमार्जवम् ॥
ज्ञानं शमो दया दानमेतत्पात्रस्य लक्षणम्
॥१९॥एवंविधे तु यत्पात्रे गामेकां तु प्रयच्छति ॥
समानवत्सां कपिलां धेनुं सर्वगुणान्विताम्
॥२०॥रौप्यपादां स्वर्णशृङ्गीं रुद्रलोके महीयते ॥
एकां गां दशगुर्दद्याद्गोशती च तथा दश
॥२१॥शतं सहस्रगुर्दद्यात्सर्वे समफलाः स्मृताः ॥
सुशीला सोमसंपन्ना तरुणी च पयस्विनी ॥
सवत्सा न्यायलब्धा च प्रदेया ब्राह्मणाय गौः
॥२२॥वंध्या सरोगा हीनांगी दुष्टा वृद्धा मृतप्रजा ॥
अन्यायलब्धा दूरस्था नेदृशी गां प्रदापयेत्
॥२३॥यो हीदृशीं गां ददाति देवोद्देशेन मानवः ॥
प्रत्युताधोगतिं याति क्लिश्यते च महेश्वरि
॥२४॥रुष्टा क्लिष्टा दुर्बला व्याधिता च न दातव्या या च मूल्यैरदत्तैः ॥
लेशो विप्रेभ्यो यया जायते वै तस्या दातुश्चाफलाः सर्वलोकाः
॥२५॥अतिथये प्रशान्ताय सीदते चाहिताग्नये ॥
श्रोत्रियाय तथैकापि दत्ता बहुगुणा भवेत्
॥२६॥गां विक्रीणाति चेद्देवि ब्राह्मणो ज्ञानदुर्बलः ॥
नासौ प्रशस्यते पात्रं ब्राह्मणो नैव स स्मृतः
॥२७॥बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ॥
विभक्ता दक्षिणा ह्येषा दातारं नोपतिष्ठति
॥२८॥प्रासादा यत्र सौवर्णाः शय्या रव्रोज्ज्वलास्तथा ॥
वराश्चाप्सरसो यत्र तत्र गच्छंति गोप्रदाः
॥२९॥नास्ति भूमिसमं दानं नास्ति गंगासमा सरित् ॥
नास्ति सत्यात्परो धर्मो नान्यो देवो महेश्वरात्
॥३०॥उच्चैः पाषाणयुक्ता च न समा नैव चोषरा ॥
न नदीकूलविकटा भूमिर्देया कदाचन
॥३१॥षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ॥
आच्छेत्ता चानुमंता च तान्येव नरकं व्रजेत्
॥३२॥कुरुते पुरुषः पापं यत्किञ्चिद्वृत्तिकर्शितः ॥
अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति
॥३३॥छत्रं शय्यासनं शंखो गजाश्वाश्चामराः स्त्रियः ॥
भूमिश्चैषां प्रदानस्य शिवलोकः फलं स्मृतम्
॥३४॥आदित्येऽहनि संक्रांतौ ग्रहणे चन्द्र सूर्ययोः ॥
पारणैश्चैव गोदाने नोपोष्यः पौत्रवान्गृही
॥३५॥इन्दुक्षये तु संक्रान्त्यामेकादश्यां शते कृते ॥
उपवासं न कुर्वीत यदीच्छेत्संततिं ध्रुवम्
॥३६॥यथा शुक्ला तथा कृष्णा न विशेषोऽस्ति कश्चन ॥
तथापि वर्धते धर्मः शुक्लायामेव सर्वदा
॥३७॥दशम्येकादशीविद्धा द्वादशी च क्षयं गता ॥
नक्तं तत्र प्रकुर्वीत नोपवासो विधीयते
॥३८॥उपोष्यैकादशीं यस्तु त्रयोदश्यां तु पारणम् ॥
करोति तस्य नश्येत्तु द्वादश दद्वादशीफलम्
॥३९॥उपवासे तथा श्राद्धे न खादेद्दन्तधावनम् ॥
दन्तानां काष्ठसंगाच्च हन्ति सप्तकुलानि वै
॥४०॥दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम् ॥
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते
॥४१॥हानिश्च संततेः प्रोक्ता दौर्भाग्यं समवाप्नुयात् ॥
द्रव्याभावेथ श्राद्धस्य विधिं वक्ष्यामि तत्त्वतः
॥४२॥एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत् ॥
षडर्घ्यान्पारयेत्तत्र तेभ्यो दद्याद्यथाविधि
॥४३॥पिता भुंक्ते द्विज करे मुखे भुंक्ते पितामहः ॥
प्रपितामहस्तालुस्थः कण्ठे मातामहः स्मृतः
॥४४॥प्रमातामहस्तु हृदये वृद्धो नाभौ तु संस्थितः ॥
अलाभे ब्राह्मणस्यैव कुशः कार्यो द्विजः प्रिये ॥
इदं सर्वपुराणेभ्यः सारमुद्धत्य चोच्यते
॥४५॥न चैतन्नास्तिके देयं पिशुने वेदनिन्दके ॥
प्रातःप्रातरिदं श्राव्यं पूजयित्वा महेश्वरम्
॥४६॥कुलीनं सर्वशास्त्रज्ञं यथा देवं महेश्वरम् ॥
अस्य धर्मस्य वक्तारं छत्रं दद्यात्प्रपूजयेत्
॥४७॥अपूज्याद्वाचकाद्यस्तु श्लोकमेकं शृणोति च ॥
नासौ पुण्यमवाप्नोति शास्त्रचौरः स्मृतो हि सः
॥४८॥तस्मात्सर्वप्रयत्नेन पूजयेद्वाचकं बुधः ॥
अन्यथा निष्फलं तस्य पुस्तकश्रवणं भवेत्
॥४९॥यस्यैव तिष्ठते गेहे शास्त्रमेतत्सदुर्लभम् ॥
तस्य देवि गृहे तीर्थैः सह तिष्ठेच्छिवः स्वयम्
॥५०॥बहुनात्र किमुक्तेन भवेन्मोक्षस्य भाजनम् ॥
न चैतत्पिशुने देयं नास्तिके दंभसंयुते
॥५१॥इदं शान्ताय दान्ताय देयं शैवद्विजन्मने
॥५२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे दानपात्रब्राह्मणमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमो ऽध्यायः ॥ २०८ ॥