मेघेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
तस्यैव पूर्वभागे तु नैर्ऋते पापमोचनात् ॥
मेघेश्वरेति विख्यातं सर्वपातकनाशनम्
॥१॥अनावृष्टिभये जाते शांतिं तत्रैव कारयेत् ॥
वारुणीं विप्रमुख्यैस्तु भावयेदुदकैर्महीम्
॥२॥मेघैः प्रतिष्ठितं लिंगं यत्र नित्यं प्रपूज्यते ॥
अनावृष्टिभयं किंचिन्न च तत्र प्रजायते
॥३॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मेघेश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरद्विशततमोऽध्यायः ॥ २२६ ॥