मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २५४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 254

घंटेश्वरमाहारत्म्यवर्णनम्

ईश्वर उवाच

तत्रैव संस्थितं पश्येत्सर्वपातकनाशनम् ॥

घण्टेश्वरमिति ख्यातं देवदानववन्दितम् ॥

पूजितं ह्यृषिभिः सिद्धैर्वांछितार्थफलप्रदम्

॥१॥

वारे सोमस्य चाष्टम्यां यस्तं पूजयते नरः ॥

स लभेद्वांछितान्कामान्मुक्तः स्यात्पातकेन हि

॥२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये घंटेश्वरमाहारत्म्यवर्णनंनाम चतुष्पञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५४ ॥