मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३१९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 319

ततो गच्छेन्महादेवि ह्युन्नतस्थानमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि ह्युन्नतस्थानमुत्तमम् ॥

तस्यैवोत्तरदिग्भाग ऋषितोयातटे शुभे

॥१॥

एतत्स्थानं महादेवि विप्रेभ्यः प्राददां बलात् ॥

सर्वसीमासमायुक्तं चंडीगणसुरक्षितम्

॥२॥

देव्युवाच

कथमुन्नतनामास्य बभूव सुरसत्तम ॥

कथं त्वया बलाद्दत्तं कियत्सीमासमन्वितम्

॥३॥

एतत्सर्वं ममाचक्ष्व संक्षेपान्नातिविस्तरात्

॥४॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि कथां पापप्रणाशिनीम् ॥

यां श्रुत्वा मानवो देवि मुच्यते सर्वपातकैः

॥५॥

एतत्सर्वं पुरा प्रोक्तं स्थानसंकेतकारणम् ॥

तृतीये ब्रह्मणः कुंडे सृष्टिसंक्षेपसूचके

॥६॥

तथापि ते प्रवक्ष्यामि संक्षेपाच्छुणु पार्वति

॥७॥

उन्नामितं पुनस्तत्र यत्र लिंगं महोदये ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम्

॥८॥

अथवा चोन्नतं द्वारं पूर्वं प्राभासिकस्य वै ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम्

॥९॥

विद्यया तपसा चैव यत्रोत्कृष्टा महर्षयः ॥

तदुन्नतमिति प्रोक्तं स्थानं स्थानवतां वरम्

॥१०॥

यदा देवकुले विप्रा मूलचंडीशसंज्ञकम् ॥

प्रसाद्य च महादेवं पुनः प्राप्ता महोदयम्

॥११॥

षष्टिवर्षसहस्राणि तपस्तेपुर्महर्षयः ॥

ध्यायमाना महेशानमनादिनिधनं परम्

॥१२॥

तेषु वै तप्यमानेषु कोटिसंख्येषु पार्वति ॥

ऋषितोयातटे रम्ये पवित्रे पापनाशने ॥

भिक्षुर्भूत्वा गतश्चाहं पुनस्तत्रैव भामिनि

॥१३॥

त्रिकालं दर्शिभिस्तत्र दोषरागविवर्जितैः ॥

तपस्विभिस्तदा सर्वैर्लक्षितोऽहं वरानने

॥१४॥

दृष्टमात्रस्तदा विप्रैर्विरराम महेश्वरः ॥

क्व यासि विदितो देव इत्युक्त्वानुययुर्द्विजाः

॥१५॥

यावदायांति मुनय ईशेशेति प्रभाषकाः ॥

धावमानाः स्वतपसा द्योतयन्तो दिशोदश

॥१६॥

लिंगमेव प्रपश्यंति न पश्यंति महेश्वरम्

॥१७॥

येये च ददृशुर्लिंगं मूलचण्डीशसंज्ञकम् ॥

तदा च मुनयः सर्वे सदेहाः स्वर्गमाययुः

॥१८॥

यदा त्रिविष्टपं व्याप्तं दृष्टं वै शतयज्वना ॥

आयांति च तथैवान्ये मुनयस्तपसोज्वलाः

॥१९॥

एतदंतरमासाद्य समागत्य महीतले ॥

लिंगमाच्छादयामास वज्रेणैव शतक्रतुः

॥२०॥

अष्टादशसहस्राणि मुनीनामूर्ध्वरेतसाम् ॥

स्थितानि न तु पश्यंति लिंगमेतदनुत्तमम्

॥२१॥

शक्रस्तु सहसा दृष्टो वज्रेणैव समन्वितः ॥

यावद्वदंति शापं ते तावन्नष्टः पुरंदरः

॥२२॥

दृष्ट्वा तान्कोपसंयुक्तान्भगवांस्त्रिपुरांतकः ॥

उवाच सांत्वयन्देवो वाचा मधुरया मुनीन्

॥२३॥

कथं खिन्ना द्विजश्रेष्ठाः सदा शांतिपरायणाः ॥

प्रसन्नवदना भूत्वा श्रूयतां वचनं मम

॥२४॥

भवद्भिर्ज्ञानसंयुक्तैः स्वर्गः किं मन्यते बहु ॥

यत्रैके वसवः प्रोक्ता आदित्याश्च तथा परे

॥२५॥

रुद्रसंज्ञास्तथा चैके ह्यश्विनावपि चापरौ ॥

एतेषामधिपः कश्चिदेक इन्द्रः प्रकीर्तितः

॥२६॥

स्वपुण्यसंख्यया प्राप्ते यस्माद्विभ्रश्यते नरैः ॥

एवं दुःखसमायुक्तः स्वर्गो नैवेष्यते बुधैः

॥२७॥

एतस्मात्कारणाद्विप्राः कुरुध्वं वचनं मम ॥

गृह्णीध्वं नगरं रम्यं निवासाय महाप्रभम्

॥२८॥

हूयंतामग्निहोत्राणि देवताः सर्वदा द्विजाः ॥

इज्यंतां विविधैर्यागैः क्रियतां पितृपूजनम्

॥२९॥

आतिथ्यं क्रियता नित्यं वेदाभ्यासस्तथैव हि

॥३०॥

एवं हि कुर्वतां नित्यं विना ज्ञानस्य संचयैः ॥

प्रसादान्मम विप्रेन्द्राः प्रांते मुक्तिर्भविष्यति

॥३१॥

ऋषय ऊचुः

असमर्थाः परित्राणे जिताहारास्तपोन्विताः ॥

नगरेणेह किं कुर्मस्तव भक्तिमभीप्सवः

॥३२॥

ईश्वर उवाच

भविष्यति सदा भक्तिर्युष्माकं परमेश्वरे ॥

गृह्णीध्वं नगरं रम्यं कुरुध्वं वचनं मम

॥३३॥

इत्युक्त्वा भगवान्देव ईषन्मीलितलोचनः ॥

सस्मार विश्वकर्माणं सर्वशिल्पवतां वरम्

॥३४॥

स्मृतमात्रो विश्वकर्मा प्रांजलिश्चाग्रतः स्थितः ॥

आज्ञापयतु मां देवो वचनं करवाणि ते

॥३५॥

ईश्वर उवाच

नगरं क्रियतां त्वष्टर्विप्रार्थं सुंदरं शुभम्

॥३६॥

इत्युक्तो विश्वकर्मा स भूमिं वीक्ष्य समंततः ॥

उवाच प्रणतो भूत्वा शंकरं लोकशंकरम्

॥३७॥

परीक्षिता मया भूमिर्न युक्तं नगरं त्विह ॥

अत्र देवकुलं साक्षाल्लिंगस्य पतनं तथा

॥३८॥

यतिभिश्चात्र वस्तव्यं न युक्तं गृहमेधिनाम्

॥३९॥

त्रिरात्रं पंचरात्रं वा सप्तरात्रं महेश्वर ॥

पक्षं मासमृतुं वापि ह्ययनं यावदेव च ॥

पुत्रदारयुतैस्तीर्थे वस्तव्यं गृहमेधिभिः

॥४०॥

वसत्यूर्ध्वं तु षण्मासाद्यदा तीर्थे गृहाधिपः ॥

अवज्ञा जायते तस्य मनश्चापल्यभावतः ॥

तदा धर्माद्विनश्यंति सकला गृहमेधिनः

॥४१॥

इत्युक्तः स तदा देवस्तेन वै विश्वकर्मणा ॥

पुनः प्रोवाच तं तस्य प्रशस्य वचनं शिवः

॥४२॥

रोचते मे न वासोऽत्र विप्राणां गृहमेधिनाम् ॥

यत्र चोन्नामितं लिंगमृषितोयातटे शुभे ॥

तत्र निर्मापय त्वष्टर्नगरं शिल्पिनां वर

॥४३॥

तस्य तद्वचनं श्रुत्वा विश्वकर्मा त्वरान्वितः ॥

गत्वा चकार नगरं शिल्पिकोटिभिरावृतः

॥४४॥

उन्नतं नाम यल्लोके विख्यातं सुरसुन्दरि ॥

ततो हृष्टमना भूत्वा विलोक्य नगरं शिवः ॥

आहूय ब्राह्मणान्सर्वानुवाचानतकन्धरः

॥४५॥

इदं स्थानं वरं रम्यं निर्मितं विश्वकर्मणा ॥

ग्रामाणां च सहस्रैस्तु प्रोक्तं सर्वासु दिक्षु च

॥४६॥

नगरात्सर्वतः पुण्यो देशो नग्नहरः स्मृतः ॥

अष्टयोजनविस्तीर्ण आयामव्यासतस्तथा

॥४७॥

नग्नो भूत्वा हरो यत्र देशे भ्रांतो यदृच्छया ॥

तं नग्नहरमित्याहुर्देशं पुण्यतमं जनाः

॥४८॥

पूर्वे तु शांकरी चाऽऽर्या पश्चिमे न्यंकुमत्यपि ॥

उत्तरे कनकनंदा दक्षिणे सागरावधिः ॥

एतदंतरमासाद्य देशो नग्नहरः स्मृतः

॥४९॥

अष्टयोजनमानेन आयामव्यासतस्तथा ॥

प्रोक्तोऽयं सकलो देश उन्नतेन समं मया

॥५०॥

गृह्यतां नगरश्रेष्ठं प्रसीदध्वं द्विजोत्तमाः ॥

अत्र भक्तिश्च मुक्तिश्च भविष्यति न संशयः

॥५१॥

इत्युक्तास्ते तदा सर्वे विप्रा ऊचुर्महेश्वरम्

॥५२॥

विप्रा ऊचुः

ईश्वराज्ञा वृथा कर्तुं न शक्या परमात्मनः ॥

तपोऽग्निहोत्रनिष्ठानां वेदाध्ययनशालिनाम्

॥५३॥

अस्माकं रक्षिता कोऽस्ति कलिकाले च दारुणे ॥

को दाताऽऽरोग्यदः कश्च को वै मुक्तिं प्रदास्यति

॥५४॥

ईश्वर उवाच

महाकाल स्वरूपेण स्थित्वा तीर्थे महोदये ॥

नाशयिष्यामि शत्रून्वः सम्यगाराधितो ह्यहम्

॥५५॥

उन्नतो विघ्नराजस्तु विघ्नच्छेत्ता भविष्यति ॥

गणनाथस्वरूपोऽयं धनदो निधीनां पतिः

॥५६॥

युष्मभ्यं दास्यति द्रव्यं सम्यगाराधितोऽपि सः ॥

आरोग्यदायको नित्यं दुर्गादित्यो भविष्यति

॥५७॥

महोदयं महानन्ददायकं वो भविष्यति ॥

सम्यगाराधितो ब्रह्मा सर्वकार्येषु सर्वदा ॥

सर्वान्कामांश्च मुक्तिं च युष्मभ्यं संप्रदास्यति

॥५८॥

विप्रा ऊचुः

यदि तीर्थानि तिष्ठंति सर्वाणि सुरसत्तम ॥

संगालेश्वरतीर्थे च तथा देवकुले शिवे

॥५९॥

कलावपि महारौद्रे ह्यस्माकं पावनाय वै ॥

स्थातव्यं तर्हि गृह्णीमो नान्यथा च महेश्वर

॥६०॥

स तथेति प्रतिज्ञाय ददौ तेभ्यः पुरं वरम् ॥

सप्तभौमैः शशांकाभैः प्रासादैः परिभूषितम् ॥

नानाग्रामसमायुक्तं सर्वतः सीमयान्वितम्

॥६१॥

सूत उवाच

एवं तेभ्यो हि नगरं दत्त्वा देवो महेश्वरः ॥

ददर्श विश्वकर्माणं प्राञ्जलिं पुरतः स्थितम्

॥६२॥

विश्वकर्मोवाच

विलोक्यतां महादेव नगरं नगरोपमम् ॥

सौवर्णस्थलमारुह्य निर्मितं त्वत्प्रसादतः

॥६३॥

विश्वकर्मवचः श्रुत्वा भगवांस्त्रिपुरान्तकः ॥

समारुरोह स्थलकं सह सर्वैर्महर्षिभिः

॥६४॥

नगरं विलोकयामास रम्यं प्राकारमण्डितम् ॥

ऋषयस्तुष्टुवुः सर्वे तत्रस्थं त्रिपुरान्तकम् ॥

तानुवाच महादेवो वृणुध्वं वरमुत्त मम्

॥६५॥

ऋषय ऊचुः

यदि तुष्टो महादेव स्थलकेश्वरनामभृत् ॥

अवलोकयंश्च नगरं सदा तिष्ठ स्थले हर

॥६६॥

इत्युक्तस्तैस्तदा देवः स्थलकेऽस्मिन्सदा स्थितः ॥

कृते रत्नमयं देवि त्रेतायां च हिरण्मयम्

॥६७॥

रौप्यं च द्वापरे प्रोक्तं स्थलमश्ममयं कलौ ॥

एवं तत्र स्थितो देवः स्थलकेश्वरनामतः

॥६८॥

सदा पूज्यो महादेव उन्नतस्थानवासिभिः ॥

माघे मासि चतुर्दश्यां विशेषस्तत्र जागरे

॥६९॥

इत्येतत्कथितं देवि ह्युन्नतस्य महोद्यम् ॥

श्रुतं पापहरं नॄणां सर्वकामफलप्रदम्

॥७०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्थानमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३१९ ॥