कुशकादिलिंगचतुष्टयमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि लिंगानां च चतुष्टयम् ॥
एकस्थानस्थितानां तु सावित्र्यास्तत्र पश्चिमे
॥१॥लिंगानां द्वितयं पूर्वे पश्चिमे सम्मुखद्वयम् ॥
कुशकेश्वरनामेति लिंगं वै प्रथमं स्मृतम्
॥२॥गर्गेश्वरं द्वितीयं तु तृतीयं पुष्करेश्वरम् ॥
मैत्रेयेश्वरनामेति चतुर्थं समुदाहृतम्
॥३॥एतानि यस्तु लिंगानि पश्येद्भक्त्या जितेन्द्रियः ॥
स मुक्तः पातकैः सर्वैर्गच्छेच्छिवपुरं महत्
॥४॥शुक्लपक्षे चतुर्दश्यां वैशाखे तु विशेषतः ॥
स्नानं कृत्वा प्रयत्नेन ब्राह्मणांस्तत्र भोजयेत्
॥५॥तेभ्यो दद्याद्यथाशक्त्या काञ्चनं वसनानि च ॥
एवं कृते भवेद्यात्रा परिपूर्णा सुरेश्वरि
॥६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुशकादिलिंगचतुष्टयमाहात्म्यवर्णनंनाम त्रिसप्तत्युत्तरततमोऽध्यायः ॥ १७३ ॥