श्रीसोमनाथप्रादुर्भाववर्णनम्
सूत उवाच
एवं तत्र तदा देवी श्रुत्वा माहात्म्यमुत्तमम् ॥
हर्षोत्कंठितया वाचा पुनः पप्रच्छ शंकरम्
॥१॥देव्युवाच
देवदेव जगन्नाथ भक्तानुग्रहकारक ॥
समस्तज्ञानसंपन्न नमस्तेऽस्तु महेश्वर
॥२॥नमोऽस्तु वै त्रिपुरप्रहर्त्रे महात्मने तारकमर्दनाय ॥
नमोऽस्तु ते क्षीरसमुद्र दायिने शिशोर्मुनीन्द्रस्य समाहितस्य
॥३॥नमोऽस्तु ते सर्वजगद्विधात्रे सर्वत्र सर्वात्मक सर्वकर्त्रे ॥
नमो भवायास्तु नमोऽभवाय नमोऽस्तु ते सर्वगताय नित्यम्
॥४॥ईश्वर उवाच
किं देवि पृच्छसेऽद्यापि सर्वं ते कथितं मया ॥
संदिग्धमस्ति किंचिच्चेत्पुनः पृच्छस्व भामिनि
॥५॥देव्युवाच
सोमेश्वरेति यन्नाम कस्मिन्काले बभूव तत् ॥
किं नामाग्रेऽभवल्लिंगं नाम किं भविताऽधुना
॥६॥एवं यस्य प्रभावो वै नोक्तः पूर्वं त्वया विभो ॥
अन्येषां तीर्थदेवानां माहात्म्यं वर्णितं त्वया ॥
न त्वीदृशं तु कथितं श्रीसोमेशस्य यादृशम्
॥७॥ईश्वर उवाच
पूर्वमेवाहमेवासं स्पर्शलिंगस्वरूपवान् ॥
न च मां तत्त्वतो वेद जनः कश्चिदिहेश्वरि
॥८॥महाकल्पे तु सञ्जाते ब्रह्मणः प्रति संचरे ॥
नामभावं भवेदन्यद्देवि लिंगे पुनःपुनः
॥९॥अतीतं ब्रह्मणां षट्कं सप्तमोऽयं प्रजापतिः ॥
वर्त्तते योऽधुना देवि शतानन्द इति श्रुतः
॥१॥अस्मिन्ब्रह्मणि देवेशि संजाते ह्यष्टवार्षिके ॥
तदा कालात्समारभ्य सोमेश इति विश्रुतः
॥११॥अतीतेषु च देवेशि ब्रह्मसुप्तलयादनु ॥
बभूवुर्यानि नामानि तानि त्वं शृणु पार्वति
॥१२॥आद्यो विरंचिनामासीद्यदा ब्रह्मा पितामहः ॥
मृत्युञ्जयस्तदा नाम सोमनाथस्य कीर्तितम्
॥१३॥द्वितीयोऽभूद्यदा ब्रह्मा पद्मभूरिति विश्रुतः ॥
तदा कालाग्निरुद्रेति नाम प्रोक्तं शुभेंऽबिके
॥१४॥तृतीयोऽभूद्यदा ब्रह्मा स्वयंभूरिति विश्रुतः ॥
अमृतेशेति देवस्य तदा नाम प्रकीर्तितम्
॥१५॥चतुर्थोऽभूद्यथा ब्रह्मा परमेष्ठीति विश्रुतः ॥
अनामयेति देवस्य तदा नाम स्मृतं शुभे
॥१६॥पंचमोऽभूद्यदा ब्रह्मा सुरज्येष्ठ इति स्मृतः ॥
कृत्तिवासेति देवस्य नाम प्रोक्तं तदाम्बिके
॥१७॥षष्ठश्चाभूद्यदा ब्रह्मा हेमगर्भ इति श्रुतः ॥
तदा भैरवनाथेति नाम देवस्य कीर्तितम्
॥१८॥अयं यो वर्त्तते ब्रह्मा शतानंद इति स्मृतः ॥
सोमनाथेति देवस्य वर्तते नाम सांप्रतम्
॥१९॥अतः परं चतुर्वक्त्रो ब्रह्मा यो भविता यदा ॥
प्राणनाथेति देवस्य तदा नाम भविष्यति
॥२०॥अतीता ये विधातारो भविष्यंति च येऽधुना ॥
तावत्तद्वर्त्तते नाम यावदन्योष्टवार्षिकः ॥
संध्यासंध्यांशभेदेन विष्ण्वनंतसनातनाः
॥२१॥एवं नामानि देवस्य संक्षेपात्कीर्तितानि मे ॥
विस्तरात्कथितुं नैव शक्यंते कालगौरवात्
॥२२॥देव्युवाच
आश्चर्यं देवदेवेश यत्त्वया कथितं प्रभो ॥
पूर्वोक्तानि च नामानि न स्मरंति च मे कथम्
॥२३॥एतद्विस्तरतो ब्रूहि कारणं च जगत्पते ॥
सर्वभूतहितार्थाय ममानुग्रहकाम्यया
॥२४॥ईश्वर उवाच
कल्पेकल्पे महादेवि अवतारं करोषि यत् ॥
तेन ते स्मरणं नास्ति प्रभावात्प्रकृतेः प्रिये
॥२५॥तत्त्वावरणमध्ये तु तत्राद्या त्वं प्रतिष्ठिता ॥
साऽवतीर्यांडमध्ये तु मया सार्द्धं वरानने
॥२६॥अनुग्रहार्थं लोकानां प्रादुर्भूता पुनःपुनः ॥
आद्ये कल्पे जगन्माता जगद्योनिर्द्वितीयके
॥२७॥तृतीये शांभवीनाम चतुर्थे विश्वरूपिणी ॥
पञ्चमे नंदिनीनाम षष्ठे चैव गणांबिका
॥२८॥विभूतिः सप्तमे कल्पे सुभूतिश्चाष्टमे तदा ॥
आनन्दा नवमे कल्पे दशमे वामलोचना
॥२९॥एकादशे वरारोहा द्वादशे च सुमङ्गला ॥
कल्पे त्रयोदशे चैव महामाया ह्युदाहृता
॥३०॥ततश्चतुर्दशे कल्पेऽनन्तानाम प्रकीर्तिता ॥
भूतमाता पंचदशे षोडशे चोत्तमा स्मृता
॥३१॥ततः सप्तदशे कल्पे पितृकल्पे तु विश्रुता ॥
दक्षस्य दुहिता जाता सतीनाम्नी महाप्रभा
॥३२॥अपमानात्तु दक्षस्य स्वां तनूमत्यजत्पुनः ॥
उमां कलां तु चन्द्रस्य पुरापूर्य च संस्थिता
॥३३॥ततः प्रवृत्ते वाराहे कल्पे त्वं सुरसुन्दरि ॥
पुनर्हिमवताराध्य दुहिता त्वमतः कृता
॥३४॥ततो देव्यद्भुतं तप्त्वा तपः परमदुश्चरम् ॥
भर्त्तारं मां पुनः प्राप्य पार्वतीति निगद्यसे
॥३५॥कैलासनिलयश्चाहं त्वया सार्द्धं वरानने ॥
क्रीडामि तव देवेशि यावत्कल्पावसानकम्
॥३६॥इदं चतुर्गुणं प्राप्य द्वापरे विष्णुना सह ॥
महिषस्य वधार्थाय उत्पन्ना कृष्णपिंगला
॥३७॥कात्यायनीति दुर्गेति विविधैर्नामपर्ययैः ॥
नवकोटिप्रभेदेन जातासि वसुधातले
॥३८॥यानि ते कल्पनामानि पूर्वमुक्तानि सुन्दरि ॥
तानि त्रयोदशाकल्पादुदक्तात्कथितानि मे
॥३९॥अतीतानि भविष्याणि वर्त्तमानानि सुन्दरि ॥
एवं ज्ञेयानि सर्वाणि ब्रह्मकल्पावधि प्रिये
॥४०॥देव्युवाच
सोमनाथेति यन्नाम त्वया पूर्वमुदाहृतम् ॥
तत्कथं निश्चलं नाम मन्यते त्रिपुरांतक
॥४१॥असंख्यत्वाच्च चंद्राणां जन्मनामप्रभेदतः ॥
मन्वन्तरे तु संजाते युगानामेकसप्ततौ
॥४२॥चंद्रसूर्यादयो देवाः संह्रियंते पुनःपुनः ॥
सप्तर्षयः सुराः शक्रो मनुस्तत्सूनवो नृपाः
॥४३॥एककालं च सृज्यंते संह्रियंते च पूर्ववत् ॥
एतन्मे संशयं देव यथावद्वक्तुमर्हसि
॥४४॥ईश्वर उवाच
साधु पृष्टं त्वया देवि रहस्यं पापनाशनम् ॥
यन्न कस्यचिदाख्यातं तत्ते वक्ष्याम्यशेषतः
॥४५॥अयं यो वर्त्तते ब्रह्मा शतानन्द इति श्रुतः ॥
तस्य चैवाष्टमे वर्षे मनुर्यः प्रथमो भवेत्
॥४६॥तस्मिन्मन्वन्तरे देवि यश्चादौ रोहिणीपतिः ॥
समुद्रगर्भात्संजातः सलक्ष्मीकौस्तुभादिभिः
॥४७॥तेन चाराधितं लिंगं कालभैरवनामतः ॥
महता तपसा पूर्वं युगानि च चतुर्द्दशे
॥४८॥तस्याद्भुतं तपो दृष्ट्वा तुष्टोऽहं तस्य सुन्दरि ॥
वरं वृणीष्वेति मया स च प्रोक्तो निशाकरः
॥४९॥सहोवाच तदा देवि भक्त्या संस्तुत्य मां शुभे
॥५०॥चंद्र उवाच
यदि प्रसन्नो देवेश वरार्हो यदि वाऽप्यहम् ॥
सोमनाथेति तं नाम भूयाद्ब्रह्मावधि प्रभो
॥५१॥ये केचिद्भवितारोऽन्ये मन्वन्ते शीतरश्मयः ॥
तेषां भवतु देवेश देवोऽयं कुलदेवता
॥५२॥आराधयंतु ते सर्वे क्षेत्रेऽस्मिन्संस्थिता विभो ॥
स्वकीयायुःप्रमाणेन ब्रह्मणः प्रलयादनु
॥५३॥सोमनाथेति ते नाम ब्रह्मांडे सचराचरे ॥
ख्यातिं प्रयातु देवेश तेजोलिंग नमोऽस्तु ते
॥५४॥ईश्वर उवाच
एवमस्त्वित्यहं प्रोच्य पुनर्लिंगे लयं गतः ॥
एतत्ते कारणं देवि प्रोक्तं सर्वमशेषतः
॥५५॥निःसन्दिग्धं तु संक्षेपात्पुरा पृष्टं यतस्त्वया ॥
उद्देशमात्रं कथितं श्रीसोमेशगुणान्प्रति ॥
समुद्रस्येव रत्नानामचिन्त्यस्तस्य विस्तरः
॥५६॥मोहनं तदभक्तानां भक्तानां बुद्धिवर्द्धनम् ॥
मूढास्ते नैव पश्यंति स्वरूपं मम मोहिताः
॥५७॥देव्युवाच
ईदृशं यस्य माहात्म्यं तेजोलिंगस्य शंकर ॥
कुत्र तिष्ठति तल्लिंगं क्षेत्रे तस्मिन्सुरेश्वर
॥५८॥ईश्वर उवाच
शृणु देवि प्रयत्नेन श्रुत्वा चैवावधारय ॥
प्रभासं परमं देवि क्षेत्रमेतन्मम प्रियम्
॥५९॥देवानामपि संस्थानं तच्च द्वादशयोजनम् ॥
पंचयोजनमानेन पीठं तत्र प्रकीर्त्तितम्
॥६०॥तन्मध्ये मद्गृहं देवि तच्च गव्यूतिमात्रकम् ॥
समुद्रस्योत्तरे देवि देविकामुखसंज्ञितम्
॥६१॥वज्रिण्याः पूर्वतश्चैव यावन्न्यंकुमती नदी ॥
चतुष्टयं च विस्तारादायामात्पंचयोजनम्
॥६२॥क्षेत्रपीठमिति प्रोक्तमतो गर्भगृहं शृणु ॥
समुद्रात्कौरवी यावद्दक्षिणोत्तरमानतः ॥
पूर्वपश्चिमतो ज्ञेयं गोमुखादाऽऽश्वमेधकम्
॥६३॥एतन्मम गृहं देवि न त्यजामि कदाचन ॥
तस्य मध्ये स्थितं लिंगं यत्र तत्ते प्रकीर्तितम्
॥६४॥वारुणीं दिशमाश्रित्य सागरस्य च सन्निधौ ॥
कृतस्मरस्यापरतो धन्वन्तरशतत्रये
॥६५॥लिंगं महाप्रभावं तुं स्वयंभूतं व्यवस्थितम् ॥
तत्र संनिहितो देवः शंकरः परमेश्वरः
॥६६॥एतस्मिन्नन्तरे देवि सोमेशस्य समीपतः ॥
चतुर्द्दशे विभागे तु धनुषां च शतद्वयम्
॥६७॥समंतान्मंडलाकारा कर्णिका सा मम प्रिया ॥
तस्यां ये प्राणिनः सर्वे मृताः कालेन पार्वति
॥६८॥कृमिकीटपतंगाद्या जीवा उत्तम मध्यमाः ॥
निर्द्धूतकल्मषाः सर्वे यांति लोकं ममापि ते
॥६९॥उत्तरं दक्षिणं चापि अयनं न विचारयेत् ॥
सर्वस्तेषां शुभः कालो ये मृताः क्षेत्रमध्यतः
॥७०॥आदिनाथेन शर्वेण सर्वप्राणिहिताय वै ॥
आद्यतत्त्वान्यथानीय क्षेत्रमेतन्महाप्रभम् ॥
प्रभासितं महादेवि यत्र सिद्ध्यंति मानवाः
॥७१॥हन्यमानोऽपि यो विद्वान्वसेद्विघ्नशतैरपि ॥
कृतप्रतिज्ञो देवेशि यावज्जीवं सुरेश्वरि
॥७२॥स गच्छेत्परमं स्थानं यत्र गत्वा न शोचति ॥
तस्य क्षेत्रस्य माहात्म्यात्स्थाणोश्चाद्भुतकर्मणः
॥७३॥कृत्वा पापसहस्राणि पश्चात्सन्तापमेति वै ॥
प्रभासे तु वियुज्येत न सोंऽतकपुरीं व्रजेत्
॥७४॥ज्ञात्वा कलियुगं घोरं हाहाभूतमचेतनम् ॥
नियुक्तस्तत्र देवेशि रक्षार्थं विघ्ननायकः
॥७५॥ये तु ब्राह्मणविद्विष्टाः शिवभक्तिवितंडकाः ॥
ब्रह्मघ्नाश्च कृतघ्नाश्च तथा नैष्कृतिकाश्च ये
॥७६॥लोकद्विष्टा गुरुद्विष्टास्तीर्थायतनकण्टकाः ॥
सर्वपापरताश्चैव ये चान्ये तु विकुत्सिताः
॥७७॥रक्षणार्थं ह वै तेषां नियुक्तो विघ्ननायकः ॥
कालाग्निरुद्रपार्श्वे तु रुद्रतुल्यपराक्रमः
॥७८॥क्षेत्रं रक्षति देवेशि पापिष्ठानां नियामकः ॥
म्रियंते यदि ब्रह्मघ्नास्तथा पातकिनो नराः
॥७९॥क्षेत्रे चास्मिन्वरारोहे तेषां देवि गतिं शृणु ॥
दशवर्षसहस्राणि दिव्यानि कमलेक्षणे
॥८०॥दासी पुत्राश्च जायन्ते तदंते ब्रह्मराक्षसाः ॥
ततः पापक्षये देवि पुनर्यांति वियोनिताम्
॥५१॥तस्मात्सर्वप्रयत्नेन पापं तत्र न कारयेत् ॥
अन्यत्राऽऽवर्तितं पापं क्षेत्रे चास्मिन्विनश्यति
॥८२॥अस्मिन्पुनः कृतं पापं पैशाचनरकावहम् ॥
भक्तानुकंपी भगवांस्तिर्यग्योनिगतेष्वपि
॥८३॥ददाति परमं स्थानं न तु ब्रह्मद्विषां प्रिये ॥
ये च ध्यानं समासाद्य युक्तात्मानः समाहिताः
॥८४॥संनियम्येन्द्रियग्रामं जपंति शतरुद्रियम् ॥
प्रभासे तु स्थिता देवि ते कृतार्था न संशयः
॥८५॥यदि गच्छेन्नरः कश्चित्प्रभासं क्षेत्रमुत्तमम् ॥
तमुपायं प्रकुर्वीत निर्गच्छेन्न पुनर्यथा
॥८६॥एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित् ॥
गोपनीयमिदं शास्त्रं यथा प्राणाः स्वकाः प्रिये
॥८७॥येनेदं विहितं शास्त्रं प्रभासक्षेत्रदीपकम् ॥
स शिवश्चैव विज्ञेयो मानुषीं प्रकृतिं स्थितः
॥८८॥तस्यविग्रहसंस्थोऽहं सदा तिष्ठामि पार्वति ॥
वंदितः पूजितो ध्यातो यथाहं नात्र संशयः
॥८९॥कलौ च दुर्ल्लभं देवि प्रभासक्षेत्रमुत्तमम् ॥
इदानीं तव स्नेहेन विशेषं कथयामि वै ॥
सत्यंसत्यं पुनः सत्यं त्रिःसत्यं सुरसुन्दरि
॥९०॥यानि लिंगानि भूर्लोके सोमेशस्तेषु मे प्रियः ॥
अस्मिँल्लिंगे गुणा ये तु ते देवि विदिता मम
॥९१॥अहमेव विजानामि नान्यो वेद कथंचन ॥
अन्येषु चैव लिंगेषु अहं पूज्यः सुरासुरैः
॥९२॥लिंगं चेमं पुनर्देवि पूजयामो वयं स्वयम्
॥९३॥यस्मिन्काले न वै ब्रह्मा न भूमिर्न दिवाकरः ॥
सर्वं चैव जगन्नाथ तस्मिन्काले यशस्विनि
॥९४॥इमं लिंगं परं चैव ब्रह्मणः प्रलये तदा ॥
भाविनीं वृत्तिमास्थाय इदं स्थानं तु रक्षति
॥९५॥दशकोट्यस्तु लिंगानां गंगाद्वाराद्वरानने ॥
आगत्य तानि मध्याह्ने लिंगेऽस्मिन्यांति संलयम्
॥९६॥पृथिव्यां यानि तीर्थानि गगनस्थानि यानि तु ॥
स्नानार्थमस्य लिंगस्य समागच्छंति सर्वदा
॥९७॥धन्यास्तु खलु ते मर्त्त्याः प्रभासे संव्यवस्थिताः ॥
सोमेश्वरं ये द्रक्ष्यंति संसारभयमोचनम्
॥९८॥देवि सोमेश्वरं लिंगं ये स्मरिष्यंति भाविताः ॥
सर्वपापक्षयस्तेषां भविष्यति न संशयः
॥९९॥एतत्स्मृतं प्रियतमं मम देवि नित्यं क्षेत्रं पवित्रमृषिसिद्धगणाभिरम्यम् ॥
अस्मिन्मृताः सकलजीवमृतोऽपि देवि स्वर्गात्परं समुपयांति न संशयोऽत्र
॥१००॥यं देवा न विजानंति ब्रह्मविष्णुपुरोगमाः ॥
न सांख्येन न योगेन नैव पाशुपतेन च
॥१०१॥कैवल्यं निष्कलं यत्त- दस्मिँल्लिंगे तु लभ्यते ॥
तावद्भ्रमंति संसारे देवाद्यास्तु यशस्विनि
॥१०२॥यावत्सोमेश्वरं देवं न विंदंति त्रिलोचनम् ॥
क्षेत्रं प्रभासमित्युक्तं क्षेत्रज्ञोऽहं न संशयः
॥१०३॥एतं तवोक्तं ननु बोधनाय सोमेश्वरस्यैव महाप्रभावम् ॥
ये वै पठिष्यंति नरा नितांतं यास्यंति ते तत्पदमिंदुमौलेः
॥१०४॥सोमेश्वरं देववरं मनुष्या ये भक्तिमंतः शरणं प्रपन्नाः ॥
ते घोररूपे च भयावहे च संसारचक्रे न पुनर्भ्रमंति
॥१०५॥ये दक्षिणा मूर्त्तिमुपाश्रिताः स्युर्जपंति नित्यं शतरुद्रियं द्विजाः ॥
तेऽस्मिन्भवे नैव पुनर्भवंति संसारपारं परमं गता वै
॥१०६॥उद्देशमात्रं कथितो मया ते श्रीसोमनाथस्य कृतैकदेशः ॥
अब्दैरनेकैर्बहुभिर्युगैर्वा न शक्यमेकेन मुखेन वक्तुम्
॥१०७॥इति श्रीस्कान्दे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमनाथप्रादुर्भाववर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥